अनिष्टमिष्टं मिश्रं च त्रिविधं कर्मणः फलम् । भवत्यत्यागिनां प्रेत्य न तु सन्न्यासिनां क्वचित् ।। १२ ।।
अनिष्टमिष्टं मिश्रं च त्रिविधं कर्मणः फलम् ।
भवत्यत्यागिनां प्रेत्य न तु सन्न्यासिनां क्वचित् ।। १२ ।।
भाष्यम्
त्यागं स्तौति– अनिष्टमिति ।। १२ ।।
भावप्रदीपिका
नन्वयं त्यागः सात्विकः कुतः इत्यत उत्तरश्लोक-मवतारयति – त्यागमिति ।। १२ ।।
प्रमेयदीपिका
कर्मफलाभावो नाम संसारनिवृत्तिरेव । सा कथं त्याग-फलत्वेनोच्यते? इत्यत आह– त्यागमिति ।। उपपादितमेतत् ‘त्यागाच्छान्तिः’ (१२.१२) इत्यत्र ।। १२ ।।
भावबोधः
।। कथं त्यागफलत्वेनेति ।। संसारनिवृत्तेर्ज्ञानफलत्वादित्यर्थः । नरकस्वर्गमानुषरूपानिष्टेष्टमिश्ररूपः कर्मफलाख्यः संसारः त्यागिनां न भवतीत्युक्तेऽर्था-त्तन्निवृत्तिस्त्यागफलमिति लक्ष्यत इति भावः । अनेन सन्न्यासिनामित्यस्य त्यागिनामित्यर्थ उक्तो भवति ।
भावदीपः
।। संसारनिवृत्तिरेवेति ।। संसारस्य कर्मफलरूपत्वादिति भावः ।। कर्मफलाभावमिति ।।‘अनिष्टमिष्टम्’ इति श्लोके इष्टानिष्टमिश्रशब्दितस्वर्गनरकमानुष-भावरूपफलत्रयं त्यागिनां नास्तीति ‘न तु सन्न्यासिनां क्वचित्’ इतिपदेन कर्मफलाभाव उक्तः । स तु सन्न्यासादनिवृत्तिरेव । सा कथं सन्न्यासशब्दितत्यागिनां नास्तीति त्यागफलत्वेनोच्यत इत्यर्थः ।। त्यागाच्छान्तिरित्यत्रेति ।।
‘श्रेयो हि ज्ञानमभ्यासाज्ज्ञानाद् ध्यानं विशिष्यते ।
ध्यानात् कर्मफलत्यागः त्यागाच्छान्तिरनन्तरम्’ (१२.१२)
इत्यत्र द्वादशे ध्यानमुक्तम्, त्याग एव चात्रोक्तः । अन्यथा कथं ‘त्यागात् शान्ति-रनन्तरम्’ इत्युच्यत इत्यादिना भाष्ये उपपादितं त्यागस्य मोक्षफलकत्वं ध्यानसाहित्येनेत्यर्थः
।। १२ ।।
भावरत्नकोशः
।। कथं त्यागफलत्वेनेति ।। तस्याः ‘तरति शोकमात्म-वित्’ इत्यादिना ज्ञानफलत्वावगमादिति भावः । कथमनेन स्तुत्यवगमः इत्यत आह– उपपादितमिति ।। इत्यत्रेति ।। ‘अन्यथा कथं त्यागात् शान्तिरनन्तरम् इत्युच्यते’ इति द्वादशाध्यायभाष्यटीकयोरित्यर्थः ।।
गीताक्षरार्थस्तु अत्यागनिन्दापूर्वकं त्यागी स्तूयते– अनिष्टमिति ।। कर्मणः पुण्यपाप-लक्षणस्य फलं त्रिविधं त्रिप्रकारकम् । कथम् अनिष्टं नरकतिर्यक्त्वादिरूपम् इष्टं स्वर्गादिलक्षणं मिश्रम् इष्टानिष्टमेलनरूपं मानुष्यादि इति । एवं त्रिविधं कर्मफलम् अत्यागिनां अत्यक्तुं शीलानां सङ्गफलत्यागमकुर्वतां पुंसां प्रेत्य देहादेर्गत्या स्थितानां भवति । सन्न्यासिनां तु त्यागिनामिति यावत् । क्वचिद् अपि न एतत् त्रिविधं फलं भवति । अत्र अत्यागि-प्रतियोगित्वेन ‘त्यागिनाम्’ इति वक्तव्येऽपि यत् ‘सन्न्यासिनाम्’इत्युक्तं तत्तात्पर्यम् उत्तर-प्रस्थानतोऽवसेयम् । अत्र स्तुत्यवगमप्रकारस्तु ‘त्यागाच्छान्तिरनन्तरम् इत्येतद्गीताव्याख्याऽवसरे ‘अन्यथा कथं त्यागाच्छान्तिरनन्तरमित्युच्यते इति भाष्ये, तट्टीकायां चोपपादितः ।। १२ ।।
भावदीपिका
।। कथं त्यागफलत्वेनोच्यत इति ।। संसारनिवृत्तेः ज्ञानफलत्वादित्यर्थः । अत्र ‘सन्न्यासिनाम्’ इत्यस्य ‘त्यागिनाम्’ इत्यर्थकत्वेन नरकस्वर्ग-मानुषरूपानिष्टेष्टमिश्ररूपः कर्मफलाख्यसंसारः सन्न्यासिनां न भवतीत्युक्ते अर्थात् तन्निवृत्तिः त्यागफलमिति लभ्यत इति भावः । ननु ‘त्यागस्तुतिः’ इति कस्मादुच्यते, वास्तवमेव किं न स्यात् इत्यत आह– उपपादितमिति ।। ‘न हि त्यागमात्रानन्तरमेव मुक्तिर्भवति’ इत्यादिना द्वादशाध्याय उपपादितमित्यर्थः ।। १२ ।।
भावप्रकाशः
।। कथं त्यागफलत्वेनेति ।। संसारनिवृत्तेः ज्ञानफलत्वादिति भावः । अनेन ‘सन्न्यासिनाम्’ इत्यस्य ‘त्यागिनाम्’ इत्यर्थः सूचितः । नन्वन्वयव्यतिरेकाभ्यां कर्मफलाभावरूपसंसारनिवृत्तेस्त्यागसाध्यत्वमत्रोच्यते । तत्कथमियं त्यागस्तुतिः । मुख्यार्थे बाधकाभावादित्यत आह– उपपादितमिति ।। न हि त्यागमात्रानन्तरमेव मुक्तिः भवति । ततश्चापरोक्ष्यम् । ततो मुक्तिर्भविष्यतीत्यादिविरोधादिति बाधकमुपपादितमित्यर्थः । त्यागा-च्छान्तिरित्यत्रेति ।। अन्यथा कथं त्यागाच्छान्तिरनन्तरमित्युच्येतेति भाष्योपात्ते त्यागाच्छान्तिरित्यत्रेत्यर्थः ।। १२ ।।