हतो वा प्राप्स्यसि स्वर्गं जित्वा वा भोक्ष्यसे महीम् । तस्मादुत्तिष्ठ कौन्तेय युद्धाय कृतनिश्चयः।। ३७ ।।

हतो वा प्राप्स्यसि स्वर्गं जित्वा वा भोक्ष्यसे महीम् ।

तस्मादुत्तिष्ठ कौन्तेय युद्धाय कृतनिश्चयः।। ३७ ।।

भावरत्नकोशः

यच्चोक्तं ‘न चैतद् विद्मः कतरन्नो गरीयो यद्वा जयेम यदि वा नो जयेयुः’ इति ।। तत्र पक्षद्वयेऽप्यहानिरित्युच्यते– हतो वेति ।। शत्रुभिर्हतश्चेत् स्वर्गं प्राप्स्यसि । शत्रून् जित्वा वा महीं भोक्ष्यसे । उभयथाऽपि तव लाभ एव । यत एवं तस्मात् कृतनिश्चयः अवश्यानुष्ठेयमिदं स्वधर्मरूपं युद्धमिति निश्चयवान् युद्धायोत्तिष्ठ सन्नद्धो भव । स्वधर्मरतायाः कुन्त्याः पुत्रस्य तवेदं युक्तमिति कौन्तेयेति सम्बुद्धिः ।। ३७ ।।