मन्यसे यदि तच्छक्यं मया द्रष्टुमिति प्रभो । योगेश्वर ततो मे त्वं दर्शयाऽत्मानमव्ययम् ।। ४ ।।
मन्यसे यदि तच्छक्यं मया द्रष्टुमिति प्रभो ।
योगेश्वर ततो मे त्वं दर्शयाऽत्मानमव्ययम् ।। ४ ।।
भाष्यम्
प्रभुः समर्थः । ‘नास्ति तस्मात् परं भूतं पुरुषाद् वै सनातनात्’ इति मोक्षधर्मे । ‘प्रभुरीशः समर्थश्च’ इत्याद्यभिधानम् ।। ४ ।।
भावप्रदीपिका
मया द्रष्टुमिति प्रभो महायोगेश्वरो हरिः इत्युक्तप्रभु-हरिशब्दौ सप्रमाणकं व्याचष्टे– प्रभुरिति ।। ४ ।।
प्रमेयदीपिका
‘मन्यसे यदि’ इत्यत्र प्रभुशब्दो न स्वामित्वमात्रार्थः । किन्तु तवातिसामर्थ्यात् त्वत्सामर्थ्येनैवातीन्द्रियस्यापि दर्शनमिति भावेन प्रयुक्त इत्याशयेनाह– प्रभुरिति ।। ईश्वरस्य निरतिशयसामर्थ्ये प्रमाणमाह– नास्तीति ।। भूतं समर्थम् । प्रभुशब्दस्य समर्थार्थत्वेऽभिधानमाह– प्रभुरिति ।। ४ ।।
भावरत्नकोशः
‘प्रभुशब्दः प्रयुक्तः’ इति सम्बन्धः । अतीन्द्रियस्य ‘अतिक्रान्तमिन्द्रियम् अतीन्द्रियम्’ इति, ‘अत्यादयः क्रान्ताद्यर्थे द्वितीयया’ इति समासः । तस्य सामर्थ्ये प्रमाणत्वं घटयितुं भूतशब्दार्थमाह– भूतं समर्थमिति ।। भवतेस्सत्तार्थत्वाद् ‘असमर्थस्य सत्ता न सत्ता’ इति औचित्यात् सामर्थ्यार्थकत्वमिति भावः । ‘तस्मात् परं भूतं नास्ति’ इत्येतत् प्रमाणविरुद्धम्् इत्यतो भूतशब्दात् परमध्याहरति– भूतं समर्थमिति इत्यपि एके ।।
गीताक्षरार्थस्तु ‘कौतूहलपारवश्याद्् अहं द्रष्टुमिच्छामि’ इत्येतावतैव त्वया न प्रदर्शितव्यं तद्रूपम्, किं तर्हि; मन्यसे यदि तच्छक्यं मया द्रष्टुमिति ततः तर्हि योगिन एव योगाः, ‘अर्श-आद्यच्’ तेषामीश्वर, अव्ययमात्मानं स्वरूपभूतमेव, न तु मायादिना निर्मितं तद्रूपं दर्शय । ‘प्रभो’ इति सम्बोधनम्, तवातिसमर्थत्वात् त्वत्सामर्थ्येनैवातीन्द्रियस्यापि दर्शनमिति भावयितुम्, स्वामित्वं प्रत्याख्यापयितुं च ।। ४ ।।
भावदीपिका
।। अतीन्द्रियस्यापि विश्वरूपस्य । दर्शनम् ‘मम सम्भवति’ इति शेषः । प्रकृतोपयोगाय भूतशब्दार्थमाह– भूतमिति ।। ४ ।।
भावप्रकाशः
तस्मात् परं भूतं नास्तीत्येतत् प्रमाणविरुद्धमित्यतोभूतशब्दात् परमध्याहरति– भूतं समर्थमिति ।। ४ ।।