अव्यक्तोऽक्षर इत्युक्तस्तमाहुः परमां गतिम् । यं प्राप्य न निवर्तन्ते तद्धाम परमं मम ।। २१ ।।

अव्यक्तोऽक्षर इत्युक्तस्तमाहुः परमां गतिम् ।

यं प्राप्य न निवर्तन्ते तद्धाम परमं मम ।। २१ ।।

भाष्यम्

अव्यक्तः भगवान् । ‘यं प्राप्य न निवर्तन्ते’ इति ‘मामुपेत्य’ इत्यस्य परामर्शात् । ‘अव्यक्तं परमं विष्णुः’ इति प्रयोगाच्च गारुडे । धाम स्वरूपम् । ‘तेजः स्वरूपं च गृहं प्राज्ञैर्धामेति गीयते’ इत्यभिधानात् ।। २०,२१ ।।

भावप्रदीपिका

नन्वेवं महिमाऽव्यक्तस्यैवोक्तो न तु हरेरित्यत आह– अव्यक्त इति । नन्वव्यक्तस्य ‘तद्धाम मम’ इति भगवदधिष्ठानत्वोक्तेः कथमव्यक्तो हरिः ? इत्यत आह– धामेति ।। २१ ।।

प्रमेयदीपिका

इदानीम् ‘अव्यक्ताख्यात्मा’ इति यदुक्तं तत्साधयितुमाह– अव्यक्त इति ।। ‘मामुपेत्य’ इत्युक्तार्थस्य ‘यं प्राप्य न निवर्तन्ते’ इत्यव्यक्तविषयतया परामर्शात् । न केवलम् अव्यक्तशब्दो युक्तिबलाद् भगवति नीयते । किन्तु वाचकश्च तस्येत्याह– अव्यक्तमिति ।। कथं तर्हि भगवतोऽव्यक्तस्य स्वस्थानत्वम् उच्यते? इत्यत आह– धामेति ।।

भावदीपः

।। धामपदार्थमाश्रयं मत्वा आह– कथं तर्हीति ।। २१ ।।

भावरत्नकोशः

।। स्वस्थानत्वम् । यं प्राप्य न निवर्तन्ते तद्धाम परमं मम इत्यत्र ।। २१ ।।

गीताक्षरार्थस्तु– सर्वात्मना प्रभवप्रलयाभावाद् अव्यक्तोऽक्षर इत्युक्तः ‘तस्मादक्षरं तस्मा-दक्षरम्’ इत्यादिशास्त्रेषु, तं परमां गतिमाहुः । सा च परमगतिर्भगवल्लाभरूपैवेत्युक्तार्थस्मरणाय यं प्राप्य न निवर्तन्ते तन्मम धाम स्वरूपमित्युक्तम् ।। २१ ।।

भावदीपिका

।। स्वस्थानत्वमिति ।। ‘तद्धाम परमं मम’ इत्यनेनेत्यर्थः

।। २१ ।।