गुरूनहत्वा हि महानुभावान् श्रेयो भोक्तुं भैक्ष्यमपीह लोके । हत्वार्थकामांस्तु गुरूनिहैव भुञ्जीय भोगान् रुधिरप्रदिग्धान्।। ५ ।।

भावरत्नकोशः

अक्षरार्थस्तु– नन्वेतदहनने राज्याप्राप्तेर्देहनिर्वाहो न स्यादित्यत उच्यते– गुरूनहत्वेति ।। यतो गुरूनहत्वा इह लोके भैक्ष्यं भिक्षान्नमपि भोक्तुं श्रेयः प्रशस्यतरम् । परलोकदुःखाभावात् । अर्थकामान् अर्थकामुकान् गुरून् हत्वा तु तैर्भुज्यमानांस्तानेव भोगांस्तद्रुधिरप्रदिग्धानिहैव भुञ्जीय अनुभवेयम् । नामुत्र पुनर्मोक्षम् ।। ५ ।।