आब्रह्मभवनाल्लोेकाः पुनरावर्तिनोऽर्जुन । मामुपेत्य तु कौन्तेय पुनर्जन्म न विद्यते ।। १६ ।।
आब्रह्मभवनाल्लोेकाः पुनरावर्तिनोऽर्जुन ।
मामुपेत्य तु कौन्तेय पुनर्जन्म न विद्यते ।। १६ ।।
भाष्यम्
महामेरुस्थब्रह्मसदनमारभ्य न पुनरावृत्तिः । तच्चोक्तं नारायणगोपालकल्पे–
‘आमेरुब्रह्मसदनादाजनान्न जनिर्भुवि ।
तथाऽप्यभावस्सर्वत्र प्राप्यैव वसुदेवजम्’ इति ।। १६ ।।
भावप्रदीपिका
अन्यं प्राप्तानामप्यपुनरावृत्तेः किं विशिष्याभिधीयते ‘मामुपेत्य’ इति ? एतत्परिहारायोत्तरश्लोकम्..। ब्रह्मलोकादितरत्र विद्यमानानां पुनरावृत्तिरेव । ब्रह्मलोकेऽपि मत्प्राप्त्यैवापुनरावृत्तिरित्यर्थः । तत्र ‘ब्रह्मभवन’शब्देन न सत्यलोको विवक्षितः । जनादिष्वप्यपुनरावृत्तेः । अतो मेरुस्थब्रह्मसदनमारभ्योत्तरवैजयन्तसदनपर्यन्तेष्वप्यपुनरावृत्ति-रेवार्थ इत्याह– महामेरुरिति । श्लोकार्थे प्रमाणमाह– तथेति । मार्गभेदात् पृथगुक्तिः ।।१६।।
प्रमेयदीपिका
‘आब्रह्मभुवनाल्लोकाः पुनरावर्तिनः’ इति सत्यलोक-सहितानां पुनरावृत्तिरुच्यते’ इत्येतदपव्याख्यानमिति भावेनाऽह– महामेरुस्थेति ।। परतः स्थितानाम् । एवं जनोलोकम् आरभ्य इत्यपि ग्राह्यम् । कुत एतत् ? इत्यतः श्लोक-मागमेनैव व्याचष्टे– तच्चेति ।। पृथिवीसम्बन्धिनां तदसम्बन्धिनां लोकानां ग्रहणायो-भयोपादानम् । ‘परतः स्थितानाम्’,‘यद्यपि’ इति शेषः । अभावः ‘जनेर्लभ्यते’ इति शेषः । अनेनैवं व्याख्यातं भवति । महामेरुस्थब्रह्मसदनं जनोलोकं चारभ्य न पुनरावृत्तिः । अतो ‘मामुपेत्य पुनर्जन्म’ इति किमुच्यते ? इति चेत् । सत्यम्, आब्रह्मभुवनात् एवम् आजनाच्चार्वाग्भवा एव लोकाः पुनरावर्तिनः । परे न पुनरावर्तिन इति यावत् । तथाऽपि नोक्तमयुक्तम् ।यतस्तेषु लोकेषु स्थितं मामुपेत्य अवस्थितस्य पुनर्जन्म न विद्यत इति । अन्यथा ‘मामुपेत्य पुनर्जन्म’ इत्युक्तत्वादुत्तरार्धवैयर्थ्यं च ।। १६ ।।
भावबोधः
ननु मूधर्ि्न प्राणाधानादादौ ‘मनो हृदि निरुध्य’ इति व्याख्यानाद-विरोध इत्यत आह– आदावित्यस्येत्यर्थः परतःस्थितानामिति । एतच्चारभ्येत्यत्र शेषपूरणम् । ततश्च मेरुस्थब्रह्मसदनं जनलोकं चारभ्य परतः स्थितानामिति बहुवचनमित्यर्थः । पृथिवी-सम्बन्धिनामिति । मेरुस्थब्रह्मसदनानन्तासनश्वेतद्वीपानां पृथिवीसम्बन्धिनामपुनरावृत्तिलोकानां तदसम्बन्धिनां जनलोकादिवैकुण्ठान्तानामपुनरावृत्तिलोकानां ग्रहणाय मेरुब्रह्मसदनादा-जनादित्युभयोपादानमित्यर्थः । ‘आब्रह्मभुवनात्’ इति गीतानुसारेण आमेरुब्रह्मसदनादि-त्येवोक्तौ अन्तरिक्षादिलोकानामपुनरावृत्तिलोकत्वं प्रसज्येतेति भावः । परे न पुनरावर्तिन इति यावदिति । अर्वाक्तनलोकाः पुनरावर्तिन इत्युक्तेरुक्ताक्षेपकत्वेन प्रकृतानुपयोगादिति भावः ।। सत्यलोकसहितानामित्यादिपरकीयव्याख्याने बाधकमाह– उत्तरार्धेति । ‘मामुपेत्य तु कौैन्तेय’ इत्यस्येत्यर्थः । आमेरुब्रह्मसदनादित्येतदागमविरोधसमुच्चयार्थश्चशब्दः ।। १६ ।।
भावदीपः
।। आरभ्येेति ।। ‘परतः स्थितानाम्’ इति शेषः ।। वक्ष्य-माणागमानुरोधाद् आह– एवं जनेति ।। पृथिवीति ।। पृथिवीसम्बन्धिनां मेरुश्वेतद्वीपा-नन्तासनानां ग्रहणाय जनोलोकमारभ्य स्थितलोकानां ग्रहणाय च– मेरुस्थब्रह्मसदनमिति ।। ‘आजनात्’ इत्युभयोपादनम् इत्यर्थः ।। ‘आजनात्’ इत्यनन्तरं ‘परतः स्थितानाम्’ इति, ‘भुवि’ इत्यनन्तरं ‘यद्यपि’ इति शेषमाह– इति शेष इति ।। गीतावाक्यं योजयति– आब्रह्मे-त्यादिना ।। नोक्तमिति ।। ‘मामुपेत्य न पुनर्जन्म’ इत्युक्तमयुक्तं नेत्यर्थः ।। अन्यथेति ।। लोकावाप्तिमात्रस्य न पुनर्जन्महेतुरित्यर्थः ।। वैयर्थ्यं चेति ।। न केवलं पुनरुक्ततेति चार्थः
।। १६ ।।
भावरत्नकोशः
।। इत्येतदपव्याख्यानमिति । ‘आब्रह्मभुवनात् सह ब्रह्मलोकेन लोकाः सर्वेऽपि पुनरावर्तनस्वभावाः’ इति सङ्करव्याख्यानमसाध्वित्यर्थः । भाष्ये ‘आरभ्य’ इत्यनन्तरपूरणीयमाह– परतः स्थितानामिति । वक्ष्यमाणागमानुसारेण संयोजयति एवमिति । एतत् ‘महामेरुस्थब्रह्मसदनादारभ्य परतः स्थितानां न पुनरावृत्तिः’ इत्येतत् । हिरण्यगर्भस्य हि त्रीणि सदनानि महामेरावेकम्, अन्तरिक्षे जयन्ताख्यम् अपरम्, सत्यलोकेऽन्यत् । तथा च छान्दोग्यभाष्यम्–
‘पृथिव्यां ब्रह्मणो मेरौ जयन्तं त्वन्तरिक्षगम् ।
तृतीयं सत्यलोके च त्रिविधं सदनं स्मृतम् ।।’ इति ।
तदभिप्रायेण ‘आमेरुब्रह्मसदनात्’ इत्युक्तं भाष्ये । तच्च पृथिवीसम्बन्धिनां महामेरुस्थब्रह्म-सदनानन्तासनश्वेतद्वीपानां ग्रहणाय । जनपदग्रहणं तु पृथिव्यसम्बन्धिनां जनस्तपस्सत्य इत्यादीनां लोकानामुपादानायेत्याह– पृथिवीत्यादि । ‘आमेरुब्रह्मसदनात्’ इत्यनन्तरम्, ‘आजनात्’ इत्यनन्तरं च शेषोक्तिः ‘परतः स्थितानाम्’ इति । ‘तथाऽपि’ इति श्रवणादाह– यद्यपीतीति । स्वपक्षे गीता कथं व्याख्येया इति शङ्कां परिहरन्नाह अनेनैवमिति । परोदीरितार्थविरोधि-प्रमाणोदाहरणेन । अतः भगवदितरलोकप्राप्तावप्यपुनरावृत्तिसद्भावात् । किमुच्यते किं विशिष्यो-च्यते ।
ननु ‘आब्रह्मभवनात्, आजनाच्च’ इत्ययं परोक्ताक्षेपानुवादः । न च परेणार्वाक्तना लोकाः पुनरावर्तिन इत्याक्षिप्तम् । अतो असदनुवादोऽयमित्यत आह– परे न पुनरावर्तिन इति यावदिति ।। उक्तं ‘मामुपेत्य पुनर्जन्म न प्राप्नुवन्ति’ इति विशिष्योक्तम् । ल्यबुपपत्तय आह– अवस्थितस्येति । तिष्ठतेः कर्तरि ‘गत्यर्थाकर्मक’ इति क्तः । तेन क्रिययोः समानकर्तृकत्वलाभः । अपव्याख्याने प्रमाणविसंवादो भाष्येऽभिहितः । दोषान्तरं च स्वयमाह– अन्यथेति । ‘आब्रह्मभुवनात्’ इति गीतावाक्यस्योक्तार्थमनादृत्य सत्यलोकसहितानां लोकानां पुनरावृत्तिपरत्वे तावतैवाभिप्रेतार्थसिद्धेः ‘मामुपेत्य तु कौन्तेय’ इत्युत्तरार्धस्य व्यर्थत्वं स्यादित्यर्थः । उक्तागमविरोधसमुच्चयार्थश्चशब्दः । स्वपक्षे तु ब्रह्मसदनात्, जनाच्च परलोकानाम् उपादानम् अपुनरावर्तिलोकत्वं च तत्रत्यभगवत्प्राप्त्यैव, न लोकप्राप्तिमात्रेणेति ज्ञापनस्य प्रयोजनत्वादवैयर्थ्यमिति भावः ।। १६ ।।
गीताक्षरार्थस्तु- महामेरुस्थब्रह्मसदनं जनलोकं चारभ्य परतः स्थितानामपि न पुनरावृत्तिः । अतः ‘मामुपेत्य पुनर्जन्म नाप्नुवन्ति’ इति किमुच्यते ? इत्यत उच्यते आब्रह्मभुवनादिति ।। सत्यम् । आब्रह्मसदनाद् एवम् आजनाच्च अर्वाग् भवा एव लोकाः तत्रत्या जनाः पुनरावर्तिनः, परे त्वपुनरावर्तिन इति । तथाऽपि नोक्तमयुक्तम् । यतस्तेषु लोकेषु स्थितं माम् उपेत्य अवस्थितस्य पुनर्जन्म न विद्यते इति ।। १६ ।।
भावदीपिका
महामेरुस्थब्रह्मसदनम् आरभ्याधःस्थितानां लोकानां न पुनरावृत्तिः इत्यन्यथाप्रतीतिनिरासायाह– परत इति ।।
‘पृथिव्यां ब्रह्मणो मेरौ जयन्तं त्वन्तरिक्षगम् ।
तृतीयं सत्यलोके च सदनं त्रिविधं स्मृतम् ।।’
इति वचनबलात् महामेरुस्थं यद् ब्रह्मणश्चतुर्मुखस्य सदनं शतकोटिनामकं तदारभ्य परतः स्थितानन्तासनश्वेतद्वीपयोरपुनरावृत्तित्वमुच्यत इति द्रष्टव्यम् ।
अत्र यद्यपि मेरुस्थब्रह्मसदनात् परतः श्वेतद्वीपानन्तासनयोर्द्वयोरेव सत्त्वेन ‘परतः स्थिता-नाम्’ इति बहुवचनमयुक्तम् । तथापि महामेरुस्थब्रह्मसदनस्यापि परतःस्थितशब्दविषयत्व-मभिप्रेत्येति भावबोधे व्याख्यातम् । अनन्तासने श्वेतद्वीपे च श्रीभूदुर्गाभागभेदेन बहुत्व-माश्रित्येत्यपि आहुः । ‘पृथिवीस्थेषु सर्वोच्चो लोकोऽनन्तासनात्मकः’ इति वचनात्, ‘यावानुच्चः स्वर्गलोकस्तावानुच्चतया स च श्वेतद्वीपः’ इति वचनात् मेरुस्थब्रह्मसदनात् परतः स्थितत्वं तयोर्युक्तमिति द्रष्टव्यम् । ‘आजनात्’ इति प्रमाणानुसारेणाह– एवमिति ।। ‘आब्रह्मभवनात्’ इति गीतानुसारेण ‘मेरुब्रह्मसदनात्’ इत्येवोक्तौ, अन्तरिक्षादिलोकानामप्य-पुनरावृत्तिलोकत्वं प्रसज्यत इति भावः । पृथिवीसम्बन्धिनामिति ।। मेरुस्थब्रह्मसदना-नन्तासनश्वेतद्वीपानां पृथिवीसम्बन्धिनामपुनरवृत्तिलोकानाम्, तदसम्बन्धिनां जनलोकादि-वैकुण्ठान्तानामपुनरावृत्तिलोकानां च ग्रहणाय ‘आमेरुब्रह्मसदनात्’ ‘अजनात्’ इत्युभयो-पादानमित्यर्थः ।
यद्यपीत्यादि ।। तथा च आमेरुब्रह्मसदनाद् आजनात् परतः स्थितं लोकं प्राप्तानां यद्यपि भुवि न जनिः । तथापि नायं तल्लोकमहिमा, किन्तु सर्वत्रैषु लोकेषु स्थितं वसुदेवजं मां प्राप्यैव जनेरभावो लभ्यते, नान्यथेति श्लोकार्थो द्रष्टव्यः । अनेन प्रमाणोदाहरणेन । आरभ्य ‘परतः स्थितलोकं गतानाम्’ इति शेषः । ‘सत्यम्’ इत्यनन्तरं ‘यद्यपि’ इति शेषः । ननु ‘आब्रह्म’ इत्यादिनाऽऽशङ्कितस्यानुवादे कर्तव्ये तत्र ‘पुनरावर्तिनः’ इत्येतदसङ्गतम् । तेन मेरुस्थब्रह्मसदनाद् अर्वाक्तनानां पुनरावर्तिताया अनुक्तत्वात्, इत्यत आह– परे न पुनरावर्तिन इति यावदिति ।। परे परतः स्थिताः । उक्तं ‘मामुपेत्य’ इत्युक्तम् । ‘सत्यलोकादिसहितानाम्’ इत्यपव्याख्याने बाधकमाह– अन्यथेति ।। भगवन्तं प्राप्तानां पुनर्जन्माभावस्य ‘मामुपेत्य पुनर्जन्म’ इत्यादिश्लोकेनोक्तत्वात्, सत्यलोकं प्राप्तानां पुनर्जन्मसद्भावस्य ‘आब्रह्मभवनात्’ इत्युक्तत्वात्, ‘मामुपेत्य तु कौन्तेय’ इति भगवन्तं प्राप्तानां पुनर्जन्माभावकथनमयुक्तम्, ‘मामु-पेत्य पुनर्जन्म’ इति श्लोकेन पुनरुक्तत्वादित्यर्थः । ‘आमेरु’ इति प्रमाणसमुच्चयार्थश्चशब्द इति ज्ञातव्यम् ।
केचित्तु ब्रह्मसदनजनलोकादिप्राप्तिमात्रेणैवापुनरावृत्तिरस्तु, न तु तत्रत्यं भगवन्तं प्राप्य, इति, इत्यङ्गीकारे बाधकमाह– अन्यथेति ।। वैयर्थ्यं चेति ।। तथा च ‘व्यर्थं सत् किञ्चि-ज्ज्ञापयति’ इति न्यायेन ‘तत्रत्यं भगवन्तं प्राप्य’ इत्येतल्लभ्यत इति भाव इत्याहुः ।। १६ ।।
भावप्रकाशः
नन्वर्वाक्स्थितानां पुनरावृत्तिरस्त्येवेत्याशङ्क्यारभ्येत्यतः परमध्या-हरति– परतः स्थितानामिति । ऊर्ध्वलोकेषु स्थितानामित्यर्थः । यद्वोर्ध्वं स्थितानां लोका-नामित्यर्थः । अत्र पृथिवीसम्बन्धित्वं विशेषणम् । तेन स्वर्गादेः व्यावृत्तिः । पञ्चमस्कन्धे पृथिव्या उपरि कतिपययोजनव्यवधानेऽन्तरिक्षलोकोक्तेरन्तरिक्षस्यापि व्यावृत्तिः । एवञ्च मेरुस्थब्रह्मसदन-श्वेतद्वीपानन्तासनमात्रलाभ इति बोध्यम् । अग्रिमप्रमाणानुसारेणाह– एवं जनलोकमिति । नन्वाब्रह्मभवनाल्लोका इत्ययं परोक्ताक्षेपानुवादः । न च परेणार्वाक्तनलोकाः न पुनरावर्तिन इत्या-क्षिप्तम् । अतोऽसदनुवादोऽयमित्यत आह– परे न पुनरावर्तिन इति यावदिति । सत्यलोक-सहितानामित्याद्यपद्यव्याख्याने दोषमाह– अन्यथेति । आमेरुब्रह्मसदनादित्यागमविरोध-समुच्चयार्थश्चशब्दः ।। १६ ।।