किं कर्म किमकर्मेति कवयोऽप्यत्र मोहिताः । तत्ते कर्म प्रवक्ष्यामि यज्ज्ञात्वा मोक्ष्यसेऽशुभात् ।। १६ ।।
किं कर्म किमकर्मेति कवयोऽप्यत्र मोहिताः ।
तत्ते कर्म प्रवक्ष्यामि यज्ज्ञात्वा मोक्ष्यसेऽशुभात् ।। १६ ।।
भाष्यम्
कर्म कुरु इत्युक्तम् । तस्य कर्मणो दुर्विज्ञेयत्वमाह सम्यग्वक्तुम्– किं कर्मेति ।।
भावप्रदीपिका
स्ववक्ष्यमाणे जिज्ञासोत्पत्त्यै तस्य दुर्ज्ञेयत्वमाहेत्युत्तरश्लोक-मवतारयति– कर्मेति । ‘अकर्म’पदेन विकर्मोपलक्षणम् । ‘तत् ते(ऽ)कर्म’ इत्यत्र ‘कर्म’ ‘अकर्म’ इति पदच्छेदः । तत्रापि ‘अकर्म’पदं विकर्मोपलक्षकम् ।। १६ ।।
भावप्रकाशिका
कर्तव्यस्य दुर्विज्ञेयत्वोक्तौ सम्यगेव सतां तज्जिज्ञासा भवति । ततस्तदुक्तावतीव अनुभवमारोहतीति भावेनोत्तरश्लोकमवतारयति– कर्मेति । ते कर्माकर्मणी प्रवक्ष्यामीति ज्ञातव्यम् । उभयोरपि प्रकृतत्वादुभयथाऽपि पदसम्भवात् ।।१६।।
प्रमेयदीपिका
किं कर्म इत्यस्य सङ्गतिर्न प्रतीयते । अत आह– कर्मेति ।। तस्य कर्तव्यतयोक्तस्य । किमर्थं सम्यग्वक्तुम् । एतदेव सम्यग्वचनं यज्जिज्ञासवे कथनम्। जिज्ञासा च दुर्विज्ञेयत्वोक्तौ भवतीति भावः । अत एव प्रकर्षेण वक्ष्यामीत्याह । ननूत्तरश्लोके विकर्मणोऽपि गृहीतत्वाद् इहाप्यकर्मशब्दस्तदुपलक्षणार्थ इति स्थिते कर्मादीनामिति वक्तव्यम् । कर्मण इति कथम् । अनुष्ठेयत्वात् । अकर्मादिकं हि हेयतया ज्ञेयम् । अत एव ‘तत्ते कर्म प्रवक्ष्यामि’ इत्याह । तत्राप्यकर्मादेरुपलक्षणात् ।। १६ ।।
भावबोधः
ननु ‘कर्मणो ह्यपि’ इत्यादिना विकर्माकर्मणोरपि वक्ष्यमाणत्वात् कथं तत्ते कर्मेति कर्ममात्रग्रहणमित्यत आह– तत्राप्यकर्मादेरिति ।। अत एवेत्युपष्टम्भकं तदेव कर्मणः स्वपदेनोपादानमभिप्रेत्येति ज्ञातव्यम् ।।
भावदीपः
सम्यग्वचनत्वं वक्ष्यमाणस्य व्यनक्ति– एतदेवेति ।। तच्छब्दार्थं व्यनक्ति– यदिति ।। इत्याहेति ।। कृष्ण इत्यर्थः ।। इति वक्तव्यमिति ।। ‘भाष्ये’ इति योज्यम् । समाधिमाह– अनुष्ठेयत्वादिति ।। ‘कर्मणः’ इत्यनुषङ्गः ।। अत एवेति ।। अनुष्ठेयतया प्राधान्यादे-वेत्यर्थः । हेयतया ज्ञातव्यस्यापि वक्तव्यतया अनुक्तिर्दोषायेत्यत आह– तत्रापीति ।। ‘कर्म प्रवक्ष्यामि’ इत्यत्रेत्यर्थः । ‘विकर्माकर्मणी प्रोक्तप्राये’(४.१८) इति वक्ष्यमाणत्वात् । यद्वा ‘तस्य कर्मणः’ इति भाष्येऽपीत्यर्थः ।। १६ ।।
भावरत्नकोशः
‘सम्यग्’ इति भाष्यमवतारयति– किमर्थमिति ।। दुर्विज्ञेयत्वोक्त्या सम्यग्वचनं कथं सिद्ध्यतीत्यत उपपादयति– एतदेवेति ।। अत एव सम्यग्वचनस्याभिप्रेतत्वादेव । आह गीताचार्यः । तस्य कर्मणो दुर्विज्ञेयत्वमिति भाष्ये ।। शङ्कते– ननूत्तरश्लोक इति ।। ‘कर्मणो ह्यपि बोद्धव्यम्’ इत्युपरितनश्लोक इत्यर्थः । इहापि ‘किं कर्म किमकर्म’ इति व्याचिख्यासितश्लोकेऽपि । तदुपलक्षणार्थः विकर्मोपलक्षणार्थः । स्थिते इत्यनन्तरं ‘त्रयाणामपि अभिप्रेतत्वाद्’ इति, ‘कथम्’ इत्यनन्तरम् ‘इति चेन्मैवम्’ इति च संयोज्यम् । तर्ह्यकर्मादेः कर्मण इवानुष्ठेयत्वाभावात् तन्न वक्तव्यमेवापद्येत इत्यत आह– अकर्मादिकं हीति ।। अत एव अनुष्ठेयत्वेन प्राधान्यादेव । ननु ‘तत्ते कर्म’ इत्यत्र कर्मपदस्य त्रितयपरत्वे सिद्धे हि स्वशब्देन कर्मग्रहणम् अनुष्ठेयत्वाभिप्रायेणेत्युपष्टम्भकं स्यात् । तदेव कुतः, कर्मपदस्य कर्ममात्रपरत्वसम्भवादित्यत आह– तत्रापीति ।। ‘तत्ते कर्म’ इत्यत्रापि । उपलक्षणात् ‘कर्मपदेन’ इति शेषः । अन्यथाऽत्र ‘अकर्म’ इति, उत्तरत्र ‘बोद्धव्यं च विकर्मण अकर्मणश्च’ इत्यकर्म-विकर्मोक्त्ययोगः । उक्तयोरेकाप्रवचनायोगात्, अप्रतिज्ञातविकर्मोक्त्यसाङ्गत्याच्चेति भावः ।। १६ ।।
गीताक्षरार्थस्तु- ‘कुरु कर्मैव तस्मात्त्वम्’ इति कर्तव्यतयोक्तकर्मणः स्वरूपं सम्यग्वक्तुं तस्य दुर्विज्ञेयत्वमुच्यते किं कर्म किमकर्मेति ।। अकर्मशब्दो विकर्मणोऽप्युपलक्षणार्थः । अत्र कर्मादिविषये कवयो ज्ञानिनोऽपि मोहिताः । तत् तस्मात् कविमोहविषयत्वात् ते जिज्ञासवे कर्म प्रवक्ष्यामि प्रकर्षेण वक्ष्यामि व्याख्यास्यामि । अकर्मविकर्मणी अप्यत्र व्याख्यास्यमाने ग्राह्ये । तयोरपि हेयतया ज्ञेयत्वात् । कर्मणस्त्वनुष्ठेयत्वेन प्राधान्यात् स्वशब्देन ग्रहणम् । यज्ज्ञात्वा अशुभादनर्थात्मकात् संसारान्मोक्ष्यसे ।। १६ ।।
भावदीपिका
ननु ‘सम्यग् वक्तुम्’ इत्येतद्गीतायां नाभिप्रेतमिति चेत्, तत्राऽह– अत एवेति ।। उक्तरीत्या सम्यग्वचनाभिप्रायत एवेत्यर्थः ।। वक्तव्यमिति ।। अवतारिकाभाष्ये इत्यर्थः ।। कर्मण इति कथमिति ।। ‘कर्मण’ इत्येकवचनं कथमित्यर्थः । उत्तरमाह– अनुष्ठेयत्वादिति ।। ततश्च प्राधान्यात्तदेव गृहीतमिति भावः ।। ज्ञेयमिति ।। नानुष्ठेयमिति भावः ।। अत एवेति ।। त्रयाणां प्रकृतत्वेऽपि तन्मध्ये कर्मणोऽनुष्ठेयत्वेन प्राधान्यादेवेत्यर्थः ।। इत्याहेति ।। कण्ठरवेण कर्मैव गृहीतमित्यर्थः । ननूत्तरत्राकर्मविकर्मणोरपि प्रतिपादनात् कर्मग्रहणमेवायुक्तमित्यत आह– तत्रापीति ।। गीतायामपीत्यर्थः । ‘अत एव’ इत्युपष्टम्भकं तु कर्मणः स्वपदेनो-पादानमभिप्रेत्येति द्रष्टव्यम् ।। १६ ।।
भावप्रकाशः
।। अत एव प्रकर्षेणेति ।। सम्यग्वचनस्याभिप्रेतत्वादेवेत्यर्थः । अत एव तत्ते कर्मेति ।। अनुष्ठेयत्वेन प्राधान्यादेव स्वपदेन कर्मग्रहणमित्यर्थः । ननु तत्ते कर्मेत्यत्र कर्मपदस्य त्रितयपरत्वे स्वशब्देन कर्मग्रहणमनुष्ठेयत्वाभिधायकमुपष्ठम्भकं स्यात् । तदेव कुतः? कर्मशब्दस्य कर्ममात्र-परत्वसम्भवादित्यत आह– तत्रापीति ।। तत्ते कर्मेत्यत्रापि कर्मपदेनेति शेषः । अन्यथाऽग्रे कर्मविकर्मोक्त्ययोगात् । अप्रतिज्ञातत्वादिति भावः ।। १६ ।।