पूर्वाभ्यासेन तेनैव ह्रियते ह्यवशोऽपि सः । जिज्ञासुरपि योगस्य शब्दब्रह्मातिवर्तते ।। ४४ ।।

पूर्वाभ्यासेन तेनैव ह्रियते ह्यवशोऽपि सः ।

जिज्ञासुरपि योगस्य शब्दब्रह्मातिवर्तते ।। ४४ ।।

भाष्यम्

योगस्य जिज्ञासुरपि, ज्ञातव्यो मया योग इति यस्यातीवेच्छा सोऽपि शब्दब्रह्म अतिवर्तते परं ब्रह्म प्राप्नोतीत्यर्थः ।। ४४ ।।

भावप्रदीपिका

योगं समभ्यसतो मोक्षो भवतीति न चित्रम् । योगज्ञान-मिच्छतोऽपि मोक्षसम्भवादित्यभिप्रायेण ‘जिज्ञासुरपि’ इति व्याचष्टे– योगस्येति । शब्दब्रह्म विधिनिषेधादिरूपो वेदः ।। ४४ ।।

भावप्रकाशिका

न च योगमभ्यसन् ततो विभ्रष्टः तेनैवाभ्यासलेशेन योग-मासाद्याप्नोति भगवन्तमित्येतदाश्चर्यम् । ततोऽत्यन्तं योगज्ञानेच्छुरपि क्रमेणाप्नोति भगवन्त-मित्यभिप्रायेण (प्रवृत्तं) जिज्ञासुरपीति श्लोकं व्याचष्टे– योगस्येति । ज्ञातव्यः इत्यादिनाऽत्र ज्ञानेच्छुरेव जिज्ञासुः, न तु विचारकृदिति द्योतयति । ब्रह्मेशानादिसर्वशब्दार्थत्वात्, शब्दब्रह्म हिरण्यगर्भः । तं यदाऽतिवर्तते तदा परब्रह्मैव प्राप्नोतीत्यभिहितं भवति ।। ४४ ।।

प्रमेयदीपिका

उप्रत्ययप्रयोगे ‘न लोकाव्यय’ (पा.सू.२.३.६९) इति षष्ठी-निषेधात् ‘योगस्य स्वरूपम्’ इत्यध्याहृत्य कश्चिद्व्याख्यातवान् । स श्रमो वृथैव । नञा निर्दिष्टमनित्यम् इत्यस्यानित्यत्वात् । अतः कात्यायनः ‘द्विषः शतुर्वा वचनम्’ (पा.सू.२.३. ६९ वार्तिकम्) इत्याद्यवोचद् इत्यभिप्रेत्याह– योगस्येति ।। ‘ब्रह्मजिज्ञासा’(ब्र.सू.१.१.१) इत्यादाविव विचारार्थताशङ्कानिरासाय व्याचष्टे– ज्ञातव्य इति ।। ‘अतीव’ इत्युप्रत्यय-स्यार्थः । ‘सनाशंसभिक्ष उः’ (पा.सू.३.३.६८) इति तच्छीलादौ तस्य विहितत्वात् । इच्छार्थे बाधकाभावादिति भावः ।।

शब्दब्रह्मातिवर्तते’ इत्येतद् ‘वेदोक्तकर्मकारिभ्योऽतिरिच्यते’ इति कश्चिद्व्याचष्टे । तदसत् । ‘ततो याति परां गतिम्’ (६-२२) इत्यस्यार्थस्य परामर्शादिति भावेनाऽह– शब्देति ।। शब्द-ब्रह्मशब्देन वैदिकविधिनिषेधावत्रोच्येते । तदतिवर्तनं परब्रह्मप्राप्तस्यैवेत्यत एवमुक्तम् ।। ४४ ।।

भावबोधः

।। द्विषः शतुरिति ।। तृनन्तशतृशब्दयोगेऽपि द्विष इति षष्ठीप्रयोग इति भावः ।। ४४ ।।

भावदीपः

।। अनित्यत्वादिति ।। ‘इकोऽचि विभक्तौ’ (पा.सू.७.१.७३) इत्यत्राज्ग्रहणं ‘हे वारि’ इति सम्बुद्ध्यन्तवारिशब्दे नुमागमनिवृत्त्यर्थं क्रियते । ‘इकोऽचि विभक्तौ’ (पा.सू.) इत्येवोक्तौ च ‘न लुमताङ्गस्य’ (पा.सू.१.१.६३) इति सूत्रेण ‘स्वमो-र्नपुंसकात्’ इति लुकि लुप्तविभक्तेरकार्यकरत्वेन विभक्तिपरत्वाभावेनैव नमुटो प्राप्तेः, ‘व्यर्थं सदज्-ग्रहणं ‘न लुमताङ्गस्य’(पा.सू.१.१.६३) इति नञा निर्दिष्टस्यानित्यत्वं ज्ञापयति’ इत्याहुः । स्वयं ज्ञापकान्तरमाह– अत एवेति ।। ‘न लोकाव्ययनिष्ठा खलर्थतृनाम्’ (पा.सू.२.३.६९) इति तृन्नन्तनिषेधस्यानित्यत्वादेव ‘द्विष अप्रीतौ’ (पा.धा.१०१३) इति धातोः शत्रन्तस्य योगे षष्ठीनिषेधो विकल्पेन भवति । ‘चोरं द्विषन् चोरस्य द्विषन्’ इति । ‘न लोकाव्ययनिष्ठखलर्थतृनाम्’ (पा.सू.२.३.६९) इति सूत्र एव वार्तिके वार्तिककृदवोचत् । अतो ज्ञायते ‘न लोक’ सूत्रनिषेधोऽनित्य इति भावः ।। तच्छीलादाविति ।। ‘आक्वेस्तच्छीलतद्धर्मतत्साधुकारिषु’ (पा.सू. ३.२.१३) इत्यधिकृत्य सन्नन्ताद् धातोेः ‘शंसु स्तुतौ’ (पा.धा.७२८) इति धातोः, भिक्ष-शब्दाच्च उप्रत्ययविधानादित्यर्थः ।। परां गतिमितीति ।। ‘याति परां गतिमुत्तरश्लोकेन ‘अशब्दं ब्रह्म’ इत्यनेनोक्तार्थस्यापरामर्शादित्यर्थः ।। ४४ ।।

वाक्यार्थप्रदीपः (पां.टि.)– ।। उप्रत्यययोगेति ।। ‘न लोकाव्ययनिष्टा’ इति षष्टी-निषेधादिति । ल, , उक,अव्यय,निष्ठा, खलर्थ, तृन् इत्येतेषां प्रयोगे षष्टीविभक्तिर्न भवतीति सूत्रार्थः । तथाच जिज्ञासुरित्युप्रत्ययान्तशब्दयोगात् योगस्येति षष्ट्यनुपपन्नैवेति भावः ।। अनित्यत्वे ज्ञापकमाह– अत एवेति ।। नया निर्दिष्टस्यानित्यत्वादेवेत्यर्थः ।। द्विषः शतुर्वा वचनमित्या-दीति ।। द्विषो मित्र इति योयं शतृप्रत्यय तत्प्रयोगे विकल्पेन प्रतिषेधो वक्तव्य इत्यर्थः । न लोकेति सौत्रनिषेधस्य नित्यत्वे तादृशकात्यायनीयनवकरहितनिषेधस्यानित्यत्वमवगम्यत इति भावः ।। एतच्च्च न लोकेति सूत्रस्य षष्ठीमात्रनिषेधकत्वमभ्युपेत्योक्तम् । वस्तुतस्तु कर्तृकर्मणोः कृति इति प्राप्तकृद्योगषष्ठ्येवात्र निषिध्यते न शेषषष्ठ्यपि । अत एवोक्तं वृत्तिकृता । कर्तृकर्मणोः कृति इति प्राप्ता षष्ठी प्रतिषिध्यत इति । उक्तं च पदमञ्जर्यामपि । अत्रोदाहरणेषु सर्वत्र कारकषष्ट्याः प्रतिषेधः । शेषषष्टी तु भवत्येव । ब्राह्मणस्य कुर्वन् ओदनस्य पचन् । अपांपेरुरसिन एकस्य जिष्ण वो गुणैरित्यादि । तथाच प्रकृते कारकषष्ठ्याः निषेधेपि कर्मणोपि कर्मत्वाविवक्षया शेषत्वविवक्षया मानुरुध्येत । पितुः स्मरतीत्यादाविव शेषषष्ट्या अप्रत्यूहत्वात् । अत एव षष्ठीमात्रनिषेधे उक्तप्रतिषेधे कमेर्भाषायामप्रतिषेधः । अव्ययप्रतिषेधे तोसुन्कसुनोरप्रतिषेधः द्विषः शतुर्वा वचनमित्यादिकात्यायनवचनानर्थक्यमिति निरस्तम् । शेषविवक्षया चोरस्य द्विषन् इति कर्मत्वविवक्षया च चोरं द्विषन् इतिउभयथापि निष्पत्तौ प्रत्याख्यानस्येष्टत्वादिति ध्येयम् ।। तच्छीलादाविति ।। ‘आक्वेस्तच्छीलतद्धर्मतत्साधुकारिषु’ (पा.सू.३.२.१३) इत्यतः तच्छीलादि- ष्वित्यनुवृत्तेरिति भावः ।।

भावरत्नकोशः

।। उप्रत्ययेति ।। जिज्ञासुशब्दस्य ‘सनाशंसभिक्ष उः’ इति विहितोप्रत्ययान्तत्वात् तद्योगे ‘कटं चिकार्षुः’ इत्यादाविव द्वितीयैव स्यात्, न तु षष्ठीति । तद्घटनाय सङ्करः ‘जिज्ञासुः योगस्य स्वरूपं ज्ञातुमिच्छन्’ इति स्वरूपपदमध्याहृत्य व्याख्यातवा-नित्यर्थः । अनित्यत्वज्ञापकमाह– अत एवेति ।। ‘द्विष अप्रीतौ’ इत्यतो ‘द्विषोऽमित्रे’ इति शतृप्रत्यये ‘द्विषन्’ इति रूपम् । तद्योगे विकल्पेन षष्ठीप्रतिषेध इति वार्तिकार्थः । ‘न लोक’ इति सूत्रे ‘तृन्’ इति प्रत्याहारस्य ग्रहणम् । ‘तृन्’ इति नेदं प्रत्ययग्रहणम् किं तर्हि प्रत्याहारग्रहणम् । ‘लटः शतृ’ इत्यतः प्रभृति आ तृनो नकारात्’ इति भाष्यादावुक्तेः । तथा च द्विषः शतुरपि प्रत्याहारान्तःपातित्वेन तद्योगे नित्यं निषेधः प्राप्त एव । तत्र च विकल्पारम्भात् ज्ञापकात् ‘न लोक’ इति निषेधोऽनित्यः । ज्ञापकस्य सामान्यापेक्षत्वादिति भाव इति केचित् ।

स्वामिनस्तु ‘न लुमता’ इति निषेधस्य नित्यत्वे वारिशब्दे सम्बुद्धेर्लुकि तन्निमित्तनुमोऽप्राप्तेः ‘इकोऽचि’ इत्यच्ग्रहणं व्यर्थम् । न चान्यत्र हलादौ नुमभावार्थमिदम्, कृतेऽपि नुमि तल्लोप-सम्भवात् । अतः ‘इकोऽचि’ इत्युक्तेरेवं ज्ञायते ‘न लुमता’ इत्यस्यानित्यत्वे सम्बुद्धेर्लुक्यपि प्रत्ययलक्षणत्वेन नुम् स्यात् । नच तल्लोपः शक्यः, ‘न ङिसम्बुद्ध्योः’ इति निषेधात् । अतस्तत्र नुमभावार्थम् अज्ग्रहणं कृतम् । तेन ‘न लुमता’ इति नञा निर्दिष्टो निषेधोऽनित्य इत्यतः पक्षे सम्बुद्धिनिमित्ते गुणे ‘हे वारे’ इति रूपमिति वैयाकरणैरेवोक्तत्वात्, ‘न लोक’ इति ‘नञा निर्दिष्टोऽप्यनित्यः’ इति भावेन ‘अनित्यत्वात्’ इत्युक्तम् ।। अन्तरङ्गोपष्टम्भकमप्याह– अत एवेति ।। उक्तनिषेधस्यानित्यत्वादेव ‘चोरस्य द्विषन्’, ‘चोरं द्विषन्’ इत्यत्र षष्ठीनिषेधो विकल्पितः कात्यायनेन इति उप्रत्ययान्तयोगेऽपि पाक्षिका षष्ठी युक्ता इत्यध्याहारश्रमो वृथैव परस्येति टीकाशय इति व्याख्यातवन्तः ।

इत्यादाविवेति ।। ‘अथातो ब्रह्मजिज्ञासा’ ‘जिज्ञासितं सुसम्पन्नम्’ इत्यादौ जिज्ञासादिशब्दे यथा विचारार्थताऽस्ति, तथा जिज्ञासुशब्दे विचारार्थताशङ्कानिरासार्थमित्यर्थः । ताच्छील्यादा-विति । ‘आ क्वेः तच्छीलतद्धर्मतत्साधुकारिषु’ इत्यधिकृत्य सन्नन्ताद्धातोः, ‘शंसु स्तुतौ’ इत्यस्माद्, भिक्षाशब्दाच्च उप्रत्ययो भवतीति ताच्छील्यादिविशिष्टकर्तरि उप्रत्ययस्य विहितत्वाद् ‘अतीव’ इत्यर्थभाषणं युक्तमिति भावः । ‘ब्रह्मजिज्ञासा’ इत्यादौ जिज्ञासाशब्दे अश्वकर्ण-मीमांसादिशब्द इव योगाभावाद् विचारे रूढिरभ्युपगता । जिज्ञासुशब्दे तु इच्छार्थकसन्प्रत्ययान्तत्वे बाधकाभावाद् योगज्ञानेच्छावानेवार्थ इति भावं प्राप्तशङ्कां निरसितुमाह– इच्छार्थ इति ।।

शब्दब्रह्म वेदोक्तकर्मानुष्ठानफलम् अतिवर्तते अपाकरिष्यति, किमुत बुद्ध्वा यो योगं तन्निष्ठोऽभ्यासं कुर्वन्’ इति सङ्करभाष्यं तात्पर्यतोऽनुवदति शब्दब्रह्मेति । अस्यार्थस्येति । शब्द-ब्रह्मातिवृत्तिरूपस्यार्थस्य । ‘ततो याति परां गतिम्’ इत्यनेन परगतिशब्दितब्रह्माप्तिरूपत्वेनाभि- धास्यमानत्वादित्यर्थः । ननु भवत्पक्षे शब्दब्रह्मातिवर्तनं कथं नाम ब्रह्मप्राप्तिः स्यादित्यत भाष्याशयमाह– शब्दब्र्रह्मशब्देनेति । अनन्तवर्णराशिरूपो वेदः शब्दब्रह्मशब्देनोच्यते, तत्प्रमाण-कौ विधिनिषेधौ तेन लक्ष्येते । तदतिवर्तनं च परब्रह्मप्राप्तस्य सङ्गच्छते, नान्यस्य, इत्यन्यथाऽ-नुपपन्नार्थकथनपरं भाष्यमित्यर्थः ।

न च योगज्ञानेच्छामात्रेण कथं परब्रह्मप्राप्तिः ? तस्या भगवदपरोक्षमात्रसाध्यत्वस्य बहुप्रमाण-प्रसिद्धत्वादिति वाच्यम् । योगस्य जिज्ञासुरपि भगवन्तं प्राप्नोति परम्परया, किमुत योगमभ्यस्यन्, इति कैमुत्याभिप्रायेण प्रवृत्तत्वात् । तदुक्तं प्राचीनटीकायाम् ‘योगमभ्यस्यन् ततो विभ्रष्टः तेनै-वाभ्यासलेशेन योगमासाद्याप्नोति भगवन्तमित्येतन्नाश्चर्यम् । यतोऽत्यन्तं योगज्ञानेच्छुरपि क्रमे-णाप्नोति भगवन्तमित्यभिप्रायेण प्रवृत्तं ‘जिज्ञासुरपि’ इति श्लोकं व्याचष्टे’ इति । प्राचीनटीकायां तु ‘शब्दब्रह्म हिरण्यगर्भः, यदा च तमतिवर्तते तदा परब्रह्मैव प्राप्नोति, इत्यभिप्रायेणैवमभिहितम्’ इत्युक्तम् ।।

कथं पूर्वाभ्यासेन पूर्वजन्मनि कृतोऽभ्यासः पूर्वाभ्यासः तेनैव, तेन बलवता अवशोऽपि स्वरसतया प्रवृत्तिप्रकर्षहीनोऽपि ध्यानयोगादौ ह्रियते प्रवर्त्यते । योगाच्चलितमानसस्य प्राप्य पुण्यकृतां लोकान् इत्यादिफलं कैमुत्येनाप्युच्यते जिज्ञासुरपीति । योगस्य योगं जिज्ञासुः ‘ज्ञातव्यो मया योगः’ इति यस्यातीवेच्छाऽस्ति सोऽपि, ‘शब्दब्रह्म’शब्देन वैदिकविधिनिषेधावत्र ग्राह्यौ । तदतिवर्तनं परं ब्रह्म प्राप्तस्यैव, नान्यस्येति जिज्ञासुमात्रस्यापि महाफलोक्तौ किमु कञ्चित्कालं योगमनुष्ठातुरिति कैमुत्येनोक्तफलयोगोक्तिः ।। ४४ ।।

भावदीपिका

।। न लोकेति ।। ‘न लोकाव्ययनिष्ठाखलर्थतृनाम्’ इति षष्ठी-निषेधात् जिज्ञासाशब्दस्यापि सन्नन्तत्वेन ‘सनाशंसभिक्ष उः’ इत्यनेनोप्रत्ययान्तत्वात्, तद्योगे ‘योगस्य’ इति षष्ठी न युक्तेति भावः । इत्यस्येति ।। ‘नञा निर्दिष्टमनित्यम्’ इति वचनेन अस्य ‘न लोक’ इति सूत्रोक्तषष्ठीनिषेधस्यानित्यत्वादित्यर्थः । नञा निर्दिष्टस्यानित्यत्वे ज्ञापकमाह– अत एवेति ।। नञा निर्दिष्टस्यानित्यत्वादेवेत्यर्थः । कात्यायनः वार्तिककारः । द्विषः शतुर्वा वचनमिति ।। ‘द्विष अप्रीतौ’ इत्यस्माल्लादेशभूतशतृप्रत्यययोगे तत्कर्मणि षष्ठी विकल्पेन वाच्येत्यर्थः । आदिपदात् ‘चोरस्य द्विषन्’, ‘चोरं द्विषन्’ इत्युदाहरणं ग्राह्यम् । तथा च द्विष् अस्माल्लटि तस्य शत्रादेशे शकारऋवर्णयोर्लोपे, ‘अत्’ इति जाते, शतृप्रत्ययस्य उगित्त्वात् नुमागमे, संयोगान्ततकारलोपे ‘द्विषन्’ इति भवति । तथा च लस्य योगे ‘न लोक’ इति षष्ठ्या निषेधेऽपि, तद्योगे कात्यायनः षष्ठीं विहितवान् । तेन ज्ञायते ‘नञा निर्दिष्टस्यानित्यत्वमिति’ इति भावः ।

यद्वा ‘न लोक’ इति तृन्नन्तशब्दयोगे षष्ठीनिषेधेऽपि ‘द्विषः शतु’ इत्यत्र तृन्नन्तशतृशब्दयोगे कात्यायनः षष्ठीं स्ववाक्येन प्रयुक्तवान् । तेन ज्ञायते ‘नञा निर्दिष्टस्यानित्यत्वमिति’ इति भावः । अत्र सर्वत्रापि गीतायां भाष्ये च योगशब्दो ध्यानयोगपरो मन्तव्यः । विचारार्थतेति ।। ज्ञाने-च्छान्तर्णीतविचारलक्षणया, रूढ्या वा जिज्ञासाशब्दस्य विचारार्थकत्वेन ‘योगस्य जिज्ञासुः-विचारयिता’ इत्यर्थप्राप्तिशङ्का स्यादिति भावः । सन्नन्तजिज्ञासाशब्दस्य लक्षणया रूढ्या वा विचारार्थकत्वं कुत्र दृष्टमित्यत आह– ब्रह्मजिज्ञासेति ।। सनाशंसभिक्ष उरिति ।। सन्नन्ताच्छब्दात् आशंसेर्भिक्षेश्च उप्रत्ययः स्यात्, तच्छीलादाविति सूत्रार्थः । तथा च ‘तच्छीलादौ’ इत्यादिपदात् अतिशयरूपोऽप्यर्थो ग्राह्य इत्याशयः ।

इच्छार्थ इति ।। ‘ब्रह्मजिज्ञासा’ इत्यादौ तु ‘यत्रानवसरः’इत्यादिप्रमाणबलेेन कर्तव्य-पदाध्याहरस्य सिद्धतया, इच्छाया अविधेयत्वरूपं बाधकमस्तीति विचारलक्षणादि क्रियते । न चात्रेच्छार्थत्वे तथा बाधकमस्तीत्याशयः । परामर्शादिति ।। ‘शब्दब्रह्मातिवर्तते’ इत्यनेनेत्यर्थः । परामर्शस्तु पूर्वोक्तस्येव वक्ष्यमाणस्यापि युक्तः । यथोक्तं शास्त्रदीपिकायाम् ‘अथैष ज्योतिः’ इति वाक्यविचारदशायाम् ‘पूर्वोक्तस्य परामर्शः, वक्ष्यमाणस्य च क्वचित्’ इति । यद्वा ‘ततो याति’ इति वाक्येन ‘शब्दब्रह्म’ इति वाक्योक्तार्थस्य परामर्शादित्यर्थः । इत्यत एवमुक्तमिति ।। इत्याशयेन ‘परं ब्रह्माप्नोति’ इत्युक्तमित्यर्थः ।। ४४ ।।

भावप्रकाशः

‘आक्वेस्तच्छीलतद्धर्मतत्साधुकारिषु’ इति सूत्रेण क्विपमभिव्याप्य वक्ष्यमाणाः प्रत्ययाः तच्छीलादिषु कर्तृषु बोद्ध्या इत्युक्तत्वात् । उप्रत्ययस्य च तन्मध्यपति-तत्वादिति भावः । अस्यार्थस्येति ।। शब्दब्रह्मातिवृत्तिरूपस्यार्थस्य ‘ततो याति परां गति’मित्यनेन ब्रह्मप्राप्तिरूपत्वेनाभिधास्यमानत्वादिति भावः ।। ४४ ।।