ब्रह्मण्याधाय कर्माणि सङ्गं त्यक्त्वा करोति यः । लिप्यते न स पापेन पद्मपत्रमिवाम्भसा ।। १० ।।
ब्रह्मण्याधाय कर्माणि सङ्गं त्यक्त्वा करोति यः ।
लिप्यते न स पापेन पद्मपत्रमिवाम्भसा ।। १० ।।
भाष्यम्
सन्न्यासयोगयुक्त एव च कर्मणा न लिप्यत इत्याह – ब्रह्मणीति ।। साधननियमस्योपचारत्वनिवृत्त्यर्थं पुनः पुनः फलकथनम् ।। १० ।।
भावप्रदीपिका
उत्तरश्लोकमवतारयति– संन्यासेति । ‘योगयुक्तः’ इत्यनेनै-वास्य गतार्थत्वात् किमर्थमयं श्लोकः ? इत्यत आह– साधनेति । योगेन विना न मोक्ष इत्युपचारः किं न स्यात् ? ‘त्वां विना न मे जीवनम्’ इत्यादिवदिति चोद्यमनेन परिहृत-मित्यर्थः ।। १० ।।
भावप्रकाशिका
कश्चिदेवमाह– ‘नित्यनैमित्तिकं कर्म कुर्वन्नन्यत् परित्यजन् मुच्यते संसृतेरतः कामत्याग एव कर्मालेपहेतुः, न सङ्कल्पत्यागादिः’ इति । अन्यस्त्वन्यथा ‘निष्क्रियेण परमात्मनैकीभावं पश्यत आत्मनः कर्माभावज्ञानात् सर्वकर्मसंन्यासाधिकार एव तस्य न किञ्चित् कर्तव्यम्’ इति । तौ निराकर्तुमुत्तरं श्लोकमवतारयति– संन्यासेति । संन्यासेन योगेन च युक्तः संन्यासयोगयुक्तः । स एव कर्मणा न लिप्यते । तद्रहितस्तु लिप्यते एव । नित्यनैमित्तिकं कर्म कुर्वन्, तथा निष्क्रियेण परमात्मनैकीभूतस्य मम सर्वकर्मसंन्यास एवाधिकारो न तु कर्मणीति यः कर्मयोगं जहाति, स तु सर्वकर्तुः परमात्मनो निष्क्रियत्व-ज्ञानदोषात्, स्वस्याल्पकर्तुः तेनाभेदज्ञानदोषात्, स्वविहितकर्मत्यागदोषाच्च नरक एव पततीति चशब्दार्थः ।।
एवमेषः श्लोकत्रयार्थः सङ्ग्रहेणावगन्तव्यः । स्वतन्त्रं हि कर्तृत्वं च तदभावात् भगव-दायत्तस्य तदायत्तसर्वचेष्टः नैवाहं किञ्चित् करोमि । भगवत्प्रेरितान्येव मनआदीन्द्रियाण्येवार्थेषु वर्तन्ते । अतः स एव कर्ता । भगवत्पूजात्मकानि च तानि कर्माणीत्युभयथाऽपि तस्मिन्नेव परे ब्रह्मणि कर्माण्याधाय स्वर्गादिफलस्नेहं त्यक्त्वा, यः करोति स न लिप्यते । अन्यस्तु लिप्यत एवेति । नन्वेवं तर्हि ‘विष्णुमित्र त्वदागमनं विनाऽस्मद्यज्ञो न सिद्ध्यति’ इतिवत् संन्यास-योगौ विना कर्मालेपाख्यं कैवल्यं न सिद्ध्यतीति यः साधननियमः प्रतीयते, स चौपचारिकः किं न स्यात् ? ततश्च त्वदधीनसर्वकर्मसंन्यास एवाधिकारो न कर्मयोग इत्याशङ्कामात्रं परिहरति– साधनेति । फलमेव तात्पर्यलिङ्गम् । किं पुनस्तदभ्यासः ? तस्मान्मुख्य एव साधननियम इति भावः ।। १० ।।
प्रमेयदीपिका
ननु ‘योगयुक्तः’ (७.५) इत्यनेन यत्सन्न्यासयोगयुक्तस्य कर्मालेपलक्षणफलमुक्तं तदेव तस्य मुक्तस्य ‘ब्रह्मण्याधाय’ इति किमर्थं पुनरुच्यते? इत्यत आह– सन्न्यासेति ।। प्रागुक्तस्यैव नियमोऽत्र क्रियते । सिद्धे सत्यारम्भस्य नियमार्थत्वादिति भावः ।। योगविवरणं च किञ्चिदधिकमिति चार्थः ।।
ननु ‘सन्न्यासस्तु ’(५.६) इत्यनेनैव सन्न्यासयोगौ मिलितावेव फलं साधयत इति नियमोऽपि लब्ध एव । तत् किमर्थमिदं सन्न्यासयोगयुक्तस्य ‘कुर्वन्नपि न लिप्यते’ (५.७), ‘लिप्यते न स पापेन ’ इति पुनः पुनः फलकथनम्? इत्यत आह– साधनेति ।। साधन-नियमस्येति ।। तदुक्तेरित्यर्थः । सन्न्यासयोगौ मिलितावेव फलसाधनमिति नियमोक्ते-रुपचारत्वमपि सम्भवति । लोकवत् तन्निवृत्त्यर्थमित्यर्थः ।। १० ।।
भावबोधः
।। योगविवरणं च किञ्चिदिति ।। ब्रह्मण्याधायेत्यनेनेत्यर्थः ।।
भावदीपः
।। तदुक्तेरिति ।। साधननियमोक्तेरित्यर्थः ।। १० ।।
भावरत्नकोशः
।। तस्य संन्यासयोगयुक्तस्य । इति किमर्थमिति । इति ‘श्लोके लिप्यते न स पापेन इत्यनेन’ इति शेषः । प्रागुक्तस्यैव ‘योगयुक्तो विशुद्धात्मा’ इति प्रागुक्तस्यैव संन्यासयोगस्य । ‘इन् हन् पूषार्यम्णां शौ’ इत्यादौ सिद्धं वैयाकरणन्यायमाह– सिद्धे सतीति ।। योगविवरणमिति । ‘ब्रह्मण्याधाय कर्माणि’ इति कृतकर्मणां ‘तत्पूजात्मकानि मम शुभार्थम्’ इत्यनुसन्धानेन भगवति समर्पणोक्तेरिति भावः । मिलितावेवेति । उभयत्रान्वयव्यतिरेकयोः तत्राभिप्रेतत्वादिति भावः । ननु उपचारो नाम गौणी वृत्तिः । स च शब्दधर्म एव । तत् कथं नियमे तच्छङ्केत्यत आह– तदुक्तेरिति ।। ‘साधननियमोपचारत्वनिवृत्त्यर्थम्’ इति भाष्ये ‘नियमस्य उपचारत्वनिवृत्त्यर्थम्’ इति विग्र्रह इति मनसि निधायैवमुक्तम् । उपचारत्वं गौणत्वमपि ।। १० ।।
गीताक्षरार्थस्तु– ‘योगयुक्तो विशुद्धात्मा’ इत्यनेन यत् संन्यासयोगयुक्तस्य कर्मालेपलक्षणं फलमुक्तम्, तदेव ‘संन्यासयोगयुक्त एव कर्मणा न लिप्यते’ इति साधननियमतात्पर्येण पुनरुच्यते । योगविवरणं च किञ्चिदधिकम् ब्रह्मणीति । ‘तत्पूजात्मकानि मत्कृतानि मम शुभार्थम्’ इति ब्रह्मणि कर्माणि आधाय तत्र स्वातन्त्र्यमभिसन्धाय सङ्गं फलस्नेहं च त्यक्त्वा यः करोति स पापेन न लिप्यते, पद्मपत्रमम्भसेवेति । ननु ‘संन्यासस्तु’ इत्यनेनैव संन्यासयोगौ मिलितावेव फलं साधयत इति नियमोऽपि लब्ध एव, तत् किमर्थमिदं संन्यासयोगयुक्तस्य ‘कुर्वन्नपि न लिप्यते’ ‘लिप्यते न स पापेन’ इति पुनः पुनः फलकथनमिति चेत्? संन्यासयोगौ मिलितावेव फलसाधनमिति साधननियमोपचारत्वशङ्काव्युदासार्थमिति ब्रूम इत्याकरे स्फुटमिति ।। १० ।।
भावदीपिका
नियमज्ञापकावधारणादेरभावादाह – सिद्धे सतीति ।। योग-विवरणं च किञ्चिदिति ।। ‘ब्रह्मण्याधाय’ इत्यनेनेत्यर्थः । यद्वा योगविवरणं योगफल-विवरणमित्यर्थः । तथा च ‘कुर्वन्नपि न लिप्यते’ इत्युक्तमेव योगफलम् ‘पद्मपत्रम्’ इति दृष्टान्त-कथनेन किञ्चिद्विव्रियत इति भावः । वृत्तेः शब्दधर्मत्वादाह– तदुक्तेरिति ।। लोकवदिति ।। यथा लोके ‘उभौ मिलितावेव ग्रामं गच्छत’ इत्यादिप्रयोगे उपचारोऽपि दृष्टः, किञ्चित्पूर्वापरीभावादे-रनुभवसिद्धत्वादित्यर्थः ।। १० ।।
भावप्रकाशः
।। योगविवरणञ्चेति ।। ‘ब्रह्मण्याधाय’इत्युक्तेरिति भावः । इति नियमोऽपीति ।। सामान्यनियमोऽपीत्यर्थः । सन्न्यासयोगौ मिलितावेव मोक्षज्ञानाख्यफलं साधयत इति ‘सन्न्यासस्तु’ इत्यत्रत्यभाष्योक्तविशेषनियमसमुच्चर्यार्थोऽपिशब्दः । ‘सन्न्यासस्तु’ इत्यस्य सामान्यवाक्यत्वादिति भावः । तथा च सन्न्यासयोगौ मिलितावेव कर्मालेपं साधयत इति नियमस्यापि सामान्यनियमान्तर्गतत्वेन लाभाद् व्यर्थं पुनर्वचनमिति भावः । उपचारस्य शब्दवृत्तित्वादाह– तदुक्तेरित्यर्थ इति ।। उपचारत्वमिति ।। अर्शआद्यजन्तोपचारशब्दात्त्व-प्रत्ययोऽयम् । तेनोपचारत्वमित्यर्थः ।। १० ।।