ओष्टा सर्वभूतानां मैत्रः करुण एव च । निर्ममो निरहङ्कारः समदुःखसुखः क्षमी ।। १३ ।।
ओष्टा सर्वभूतानां मैत्रः करुण एव च ।
निर्ममो निरहङ्कारः समदुःखसुखः क्षमी ।। १३ ।।
भावरत्नकोशः
गीताक्षरार्थस्तु– ‘ये तु सर्वाणि कर्माणि’ इत्यादि प्रपञ्च्यते– ओष्टेत्याद्यष्टश्लोक्या ।। ‘सर्वभूतानाम्’ इति कर्मणि षष्ठी । भगवदविरोधिषु भूतेषु स्वात्मनो व्यथाहेतुमपि न किञ्चिद् द्वेष्टि य सः तथा । सर्वाणि भूतानि दयनीयानि येषां ते सर्वभूताः, महान्तः तेषां महताम् ओष्टा । ‘उत्तमेष्वात्मनो नित्यं मात्सर्यं परिवर्जयेद्’ इति शास्त्रात् । स्वोत्तमेषु अपराधहीन इत्यर्थ इत्यप्याहुः । मैत्रः मित्रस्येदं मैत्रं मित्रत्वम््, ‘तदस्यास्ति’ इति मत्वर्थीयोऽर्शआद्यच्, स्वसमेषु सत्सु स्वात्मनीव स्नेहवान् । करुणः अधमेषु दया करुणा, तद्वान् पूर्ववदच् । ‘समेषु स्वात्मवत् स्नेहः सत्स्वन्यत्र ततो दया’ इति शास्त्रम् । निमर्मः ‘मम’ इति ममत्वार्थकमव्ययम् । भगवदधीनेषु स्वगोत्रपुत्रकलत्रादिषु स्वकीयत्वाभिमानो ममत्वम्, तत् निर्गतं यस्मात् स तथोक्तः । निरहङ्कारः कर्तव्येषु कर्तृत्वाध्यासहीनः । अविद्य-मानानात्मगुणाभिमानः अहङ्कारः, तद्रहित इति स्वामिनः । समदुःखसुखः हेयतया दुःखसमं वैषयिकसुखं यस्य स तथा । अपकारिण्यपि क्रोधासमुत्थितिः । क्षमा सा अस्यास्तीति शिखादिभावात् इनौ क्षमी ।। १३ ।।