नेहाभिक्रमनाशोऽस्ति प्रत्यवायो न विद्यते । स्वल्पमप्यस्य धर्मस्य त्रायते महतो भयात्।। ४० ।। व्यवसायात्मिका बुद्धिरेकेह कुरुनन्दन । बहुशाखा ह्यनन्ताश्च बुद्धयोऽव्यवसायिनाम्।। ४१ ।।

नेहाभिक्रमनाशोऽस्ति प्रत्यवायो न विद्यते ।

स्वल्पमप्यस्य धर्मस्य त्रायते महतो भयात्।। ४० ।।

व्यवसायात्मिका बुद्धिरेकेह कुरुनन्दन ।

बहुशाखा ह्यनन्ताश्च बुद्धयोऽव्यवसायिनाम्।। ४१ ।।

भाष्यम्

‘योगे इमां बुद्धिं शृणु’ इत्युक्तम् । बह्व्यो हि बुद्धयः, मतभेदात्। तत् कथमेकत्र निष्ठां करोमि? इत्यत आह– व्यवसायात्मिकेति ।। सम्यग्युक्तिनिर्णीतानां मतानामैक्यमेवेत्यर्थः ।। ४१ ।।

भावप्रदीपिका

उत्तरश्लोकमवतार्य व्याचष्टे– योग इति ।। ४१ ।।

भावप्रकाशिका

नन्वत्र योगशब्देन करणव्युत्पत्या ज्ञानोपायभूतं कर्म विवक्षितम् । बुद्धिशब्देन तद्धीविषया वाक् । सा च मतभेदाद्वादिभिरन्यथाऽन्यथोच्यते । अतः कथं भगवदुक्तायामेव वाचि परिनिष्ठा? इति भावेनाशङ्क्य, उत्तरश्लोकमवतारयति– योग इमामिति ।। यद्यपि सम्यग्युक्ति-निर्णयरहितानि तान्यनन्तानि । साङ्ख्यादिमतानां परिगणितत्वेऽपि प्रत्येकं प्रतिपुरुषमति-वैचित्र्येणानन्तशाखत्वात् । तथाऽपि सम्यग्युक्तिनिर्णीतं भगवन्मतमेवेति तत्रैव निष्ठा कार्येति भावेन तं व्याचष्टे– सम्यगिति ।। ४१ ।।

प्रमेयदीपिका

ननु ‘व्यवसायात्मिका’ इति श्लोेके न प्रतिज्ञातो योग उच्यते । नापि ‘बुद्ध्या युक्तः’ (२.३९) इत्यादिवत्तत्प्रशंसा । तत् किमर्थोऽयम्? इत्यत आह– योग इति ।। ज्ञानोपाय-विषयाम् इमां वक्ष्यमाणां वाचं शृणु श्रुत्वा तत्र निष्ठां कुरु इत्युक्तमित्यर्थः । श्रवणमात्रस्य विधिना विनाऽपि सम्भवात् ।।

बह्व्यो हि बुद्धयः ज्ञानोपायविषया वाचः परस्परविरुद्धाः सन्ति । कथम्? मतभेदात् । एकं मतमवलम्बमानाः किञ्चिज्ज्ञानसाधनमाचक्षते । अपरं मतमाश्रिताः तत्प्रतिषेधेनान्यदाहुः । तत्र चेदमेव तत्वं नेदमिति विनिगमकं नास्ति । तत् तस्मात् कथमेकत्र त्वदीयायामेव वाचि निष्ठां विश्वासं करोमि ।।

ननु सर्वाण्यपि मतानि व्यवसायात्मकान्येव । स्वेस्वेऽर्थे सर्वेषां सन्देहाभावात्। अतः कथमुच्यते ‘व्यवसायात्मिका एकाऽव्यवसायिनां बुद्धयः अनन्ताः’ इति । तत्राह– सम्यगिति ।। ‘युक्तिः’ इति प्रमाणसामान्यमुच्यते । प्रमाणत्वेन निर्णीतत्वमेवात्र व्यवसायशब्दार्थो न निश्चयमात्रमित्यर्थः । प्रामाणिकमेव हि मतं ग्राह्यम् । तत्रच न काचिद् विप्रतिपत्तिः । यतः तवैकत्र निष्ठाभावः,अप्रामाणिकेषु विद्यमानाऽपि विप्रतिपत्तिः किं करिष्यति? इति भावः ।।

भावदीपः

इति श्लोक इति विभागः ।। गीतायां भाष्ये च ‘शृणु’ इत्येवोक्तावपि तत्तात्पर्यार्थमाह–श्रुत्वा तत्र निष्ठां कुर्वित्युक्तमिति ।। एवमर्थोक्तौ हेतुमाह– श्रवणमात्रस्येति ।। निष्ठाहीन-श्रवणस्य शृणु, श्रवणं कुरु इति विधिं प्रेरणां विनाऽपि सम्भवात् ‘शृणु’ इति विधिबला-देवमर्थो ज्ञायत इति भावः ।। ‘बुद्धयः’ इत्यादिरनुवादः ‘ज्ञान’ इत्यादिर्व्याख्या ।। ४१ ।।

भावरत्नकोशः

अयं ‘व्यवसाय’ इति श्लोकः । ‘योग इमां बुद्धिम्’ इति भाष्यपदानामर्थानाह– ज्ञानोपाय- विषयामिमां वक्ष्यमाणां वाचमिति ।। शृृण्वित्येतत् श्रुत्वा तत्र निष्ठां कुर्विति कुतो व्याख्या-तव्यमित्यत आह– श्रवणमात्रस्येति ।। भाष्यमनूद्यार्थमाह– बह्व्य इति ।। ज्ञानोपायविषयत्वे सर्वास्ताः श्रोतव्या एवेत्यतो भाष्यभावमाह– परस्परेति ।। मतभेदमुपपादयति– एकमिति ।। ‘तत् कथमेकत्र’ इत्यादिभाष्यं विवृणोति– तत् तस्मादिति ।। प्रत्यक्षागमाभ्यामपि निर्णीतत्वस्य निश्चये सम्भवाद् भाष्ये कथं युक्तिमात्रग्रहणमित्यत आह– युक्तिरिति प्रमाणसामान्यमिति ।। त्वदीयायामेव वाचि कथं निष्ठेति कृतचोद्यं व्युदसितुं भाष्यभावमाह– प्रामाणिकमिति ।। तत्र च प्रामाणिके सिद्धान्ते । यतः यया । प्रमाणनिर्णीते विप्रतिपत्त्यभावेऽपि अप्रामाणिकेऽर्थे एकं मतमवलम्बमानाः किञ्चिद्विज्ञानसाधनमाचक्षते, अपरं मतमाश्रितास्तत्प्रतिषेधेनान्यदाहुरिति स्यादेव विप्रतिपत्तिरित्यतः प्रामाणिकसिद्धान्तग्रहणाविरोधित्वादकिञ्चित्करी सेत्याह– अप्रामाणिकेष्विति ।।

गीताक्षरार्थस्तु– ननु ज्ञानोपायविषयवाचः परस्परं विरुद्धा बह्व्यः सन्ति । तत् कथं त्वदीयायामेव वाचि विश्वासं करोमीत्यत उच्यते– व्यवसायात्मिकेति । प्रमाणनिर्णीतार्थतत्त्व-निश्चयजनिका बुद्धिर्वाक् एकोपायविषयैव । इह वेदे वैदिके च । अव्यवसायिनां तु प्रमाण-निर्णीतार्थनिश्चयरहितानां बुद्धयः उपायविषया वाचः बहुशाखाः विरुद्धनानार्थविषयाः बहुभेदाः पुरुषभेदादनन्ताश्च । मदीया बुद्धिः व्यवसायात्मिकेति तत्रैव निष्ठा तव युक्तेति ।। ४१ ।।

भावदीपिका

तत्कथमेकत्र निष्ठां करोमीति भाष्यानुसारेणाऽह– श्रुत्वेति ।। ननु शृण्वित्यस्य श्रवण-मात्रमेवार्थः किंन स्यात् । निष्ठाकरणं कुतो विधेयमित्यत आह– श्रवणमात्रस्येति ।। विधिना विनेति ।। श्रवणमात्रं शृण्विति लोड्रूपविधिना विनाऽपि सम्भवति । तत्र निष्ठाकरणंतु न विधिना विना सम्भवतीति शृण्वित्युक्तविधिनैव तत्र निष्ठाकरणे तात्पर्यं ज्ञापितमिति भावः । स्वेस्वे स्वप्रतिपादिते । सर्वेषां वादिनाम् । केषाञ्चिन्मतानां प्रत्यक्षागमाभ्यामपि निर्णीतत्वाद् युक्तिग्रहणमयुक्तमित्यत आह– युक्तिरितीति ।। यत इतीति ।। यस्माद्विप्रतिपत्तिरूपात् कारणात् सन्देहोत्पत्त्येत्यर्थः । अभिप्रायमाह– अप्रामाणिकेष्विति ।। अत इति शेषः ।।४१।।

भावप्रकाशः

गीतायां शृृण्वित्युक्तत्वेऽपि श्रुत्वेत्यादि यदुक्तं तत्र हेतुमाह– श्रवणमात्रस्येति ।। व्यवसा-यात्मकानीति ।। व्यवसायमूलकान्येवेत्यर्थः । प्रमाणसामान्यमुच्यत इति ।। मतानां यथायथ-मागमादिमूलकत्वेन युक्तिमात्रमूलकत्वाभावादिति भावः । प्रमाणेन निर्णीतत्वमेवेति ।। प्रमाणजन्यनिर्णय एवेत्यर्थः ।। ४१ ।।