परं भूयः प्रवक्ष्यामि ज्ञानानां ज्ञानमुत्तमम् । यज्ज्ञात्वा मुनयः सर्वे परां सिद्धिमितो गताः ।। १ ।।
।। अथ श्रीमद्भगवद्गीतायां चतुर्दशोऽध्यायः ।।
भाष्यम्
साधनं प्राधान्येनोत्तरैरध्यायैर्वक्ति ।।
भावप्रदीपिका
अवशिष्टोत्तराध्यायपञ्चकार्थं दर्शयति–साधनमिति ।
प्रमेयदीपिका
उत्तरेषां पञ्चानामध्यायानां प्रतिपाद्यमाह– साधन-मिति ।। ‘योगे त्विमां शृणु’ (२.३९) इति प्रतिज्ञाय, आषष्ठपरिसमाप्तेः काम-वर्जनादीतिकर्तव्यतासहितं कर्मध्यानलक्षणं ज्ञानसाधनमुक्तम् । तत्रेतिकर्तव्यतांशम् उत्तरैरध्यायैः प्रपञ्चयतीत्यर्थः । ‘मम योनिर्महद्ब्रह्म’ (१४.३), ‘न तद्भासयते सूर्यः’ (१५.६) इत्यादिनेश्वरमाहात्म्यस्यापि वचनात् कथमेतत्? इत्यत उक्तम्– प्राधान्ये-नेति ।। प्राचुर्यापेक्षया सङ्ग्राहकमेतदित्यर्थः ।। अवान्तरप्रतिपाद्यभेदादध्यायभेदः । तत्र ‘यावत्सञ्जायते किञ्चित्’ (१३.२७) इत्युक्तविवरणपूर्वकं ‘कारणं गुणसङ्गोऽस्य’ इत्युक्तं गुणसम्बन्धं प्रपञ्च्य तदत्ययसाधनम् अनेनाध्यायेनोच्यते ।।
भावबोधः
।। इतिकर्तव्यतांशमिति ।। उत्तराध्यायपञ्चके कर्मसमाधिरूप-ज्ञानसाधनस्यानुक्तेः‘ अमानित्वम्’ इत्यादिना कर्मसमाधीतिकर्तव्यांशस्यैवोक्तेर्भाष्ये साधनशब्दः तदितिकर्तव्यांशोपलक्षक इति भावः । एवमेवोत्तरत्र ‘ज्ञानसाधनान्याह’ इत्यादौ साधन-शब्दस्तदितिकर्तव्यांशपरो ज्ञातव्यः । अत एव भाष्ये सप्तदशाध्याये ‘पुनश्च कर्मादीतिकर्तव्यता-विधानार्थमर्थवादमाह’ इति वक्ष्यति । प्रपञ्चयतीति ।। ततश्च न पूर्वषट्केन पुनरुक्तिरिति भावः । नन्वीश्वरमाहात्म्यस्यैव प्राधान्यात् कथं ‘प्राधान्येन’ इत्युक्तमित्यत आह– प्राचुर्येति ।। इतिकर्तव्यतांशप्रपञ्चकग्रन्थबहुत्वापेक्षयेत्यर्थः । क्षेत्रक्षेत्रज्ञसंयोगस्पष्टीकरणपूर्वकं त्रैगुण्यं विविच्य दर्शयतीति तात्पर्यं हृदि कृत्वा अध्यायार्थमाह – तत्र यावदित्यादिना ।। १ ।।
भावदीपः
।। पञ्चानामिति ।। तत्तदध्यायावान्तरप्रतिपाद्यं तत्र तत्र दर्शयिष्यतीति न सर्वस्यैका ध्यायत्वप्रसक्तिरित्यनुपदमेव व्यक्तम् । प्रतिज्ञायेति ।। द्वितीये ‘योगे ज्ञानोपाये बुद्धिशब्दिताम् इमां वक्ष्यमाणां वाचं शृणु’ (२.३९) इति प्रतिज्ञातेत्यर्थः ।। आषष्ठेति ।। ‘आकडारात्’ इतिवदयं निर्देशः । साधनशब्दोऽत्र भाष्ये तदितिकर्तव्यतापर इति भावेनाऽह– तत्रेतिकर्तव्यतांशमिति ।। तस्यैवोत्तराध्यायेषु प्रतीतेरिति भावः । एतदिति ।। प्रतिपाद्योक्तिपरं भाष्यमित्यर्थः । तात्पर्यदिशाऽवान्तरप्रतिपाद्यमस्य दर्शयति– तत्रेति ।। इत्युक्तेति ।। जायमानस्य यत्प्रकृतिविकारत्वमुक्तं पूर्वमित्यर्थः ।।
भावरत्नकोशः
भाष्योपात्तोत्तराध्यायशब्दविवक्षितार्थं दर्शयति– उत्तरेषां पञ्चानामध्यायानामिति ।। अत्र साधनशब्द उपसाधनशब्दितोपकरणार्थः । उपकरणा-परनामकेतिकर्तव्यतोक्तिश्च साधने निरूपित एवावसरं लभत इति भावेन तत्साधनोक्तिस्थलं तावद्दर्शयति– योगे त्विमामिति ।। ‘ज्ञानोपायविषयिणीं बुद्धिशब्दितां वाचं शृणु’ इति द्वितीयाध्याये प्रतिज्ञायेत्यर्थः । ‘आषष्ठपरिसमाप्तेः’ इत्यत्र ‘अपञ्चम्याः’ इति प्रतिषेधात् पञ्चम्या अव्ययीभावत्वेऽपि लुगभावः । षष्ठाध्यायसमाप्तिपर्यन्तमित्यर्थः । ‘कामवर्जनादि’ इत्यत्र आदिशब्देन द्वन्द्वातीतत्वविमत्सरत्वादिग्रहः । कामवर्जनद्वन्द्वातीतत्वादिरूपेतिकर्त्•व्यतासहित-मित्यर्थः । कर्मध्यानलक्षणमिति ।। कर्मयोगध्यानयोगलक्षणमित्यर्थः । तत्रापि आ पञ्चमाध्यायसमाप्तेः प्राधान्येन कर्मयोग उक्तः । षष्ठे कर्मयोगसाध्यो ज्ञानान्तरङ्गभूतः समाधियोग-शब्दितध्यानयोग उक्त इति विवेकः । तत्र ज्ञानसाधने । अध्यायैः पञ्चभिः । प्रथमषट्के कर्मध्यानयोगयोरपि कामादिवर्जनादिरूपेतिकर्तव्यताया उक्तत्वात् कथमत्र ‘वक्ति’ इत्युच्यते इति शङ्कापरिहाराय ‘वक्ति इत्यस्यार्थमाह– प्रपञ्चयतीति ।। ‘वच परिभाषणे’ इति धात्वर्थः ‘परिभाषणम्’ अत्र ‘प्रपञ्चः’ इति भावः ।।
केचित्तु ‘साधनं प्राधान्येन’ इति भाष्ये स्थलनिर्देशपूर्वं साधनस्वरूपं वदन् ‘उक्तम्’ इत्यध्याहृत्य उत्तरैरध्यायैः’ इत्यत्र इतिकर्तव्यतांशम् इत्यध्याहृतवान् इति टीकाशयमाहुः । तदभव्यम् । न्यायदीपिकायाम् ‘प्राधान्येनोत्तरैरध्यायैः साधनमेवोच्यते’ इति टीकाकारीय-वचनानानुगुण्यात् इति अपरे । एतत् इतिकर्तव्यतांशं प्राधान्येन वक्ति’ इति भाषणम् । अत्र विवक्षितप्राधान्यशब्दार्थमाह– प्राचुर्येति ।। ‘साधनं प्राधान्येन’ इति भाष्यम् इतिकर्तव्यता-प्रपञ्चनपरग्रन्थबाहुल्यापेक्षया पञ्चाध्यायार्थसङ्ग्राहकमित्यर्थः । तर्हि एकमर्थं प्रतिपादयन्ती पञ्चाध्यायी एकमेव वाक्यं स्यात्, ‘अर्थैकत्वाद् एकं वाक्यम् इति जैमिनिवचनात्, इत्यत आह– अवान्तरेति ।। तमेवावान्तरप्रतिपाद्यम् अर्थभेदं तत्रतत्र यथाऽचार्यवचनं वक्ष्यन् एतदध्यायप्रतिपाद्यमर्थं तात्पर्यनिर्णयोक्तदिशा दर्शयति– तत्र यावदिति ।।
‘यावत्सञ्जायते किञ्चित् सत्त्वं स्थावरजङ्गमम् ।
क्षेत्रक्षेत्रज्ञसंयोगात् तद्विद्धि.’..... ।।
इति समनन्तराध्याये क्षेत्रक्षेत्रज्ञशब्दितलक्ष्मीनारायणसंयोगात् सर्वभूतसम्भव उक्तः । तद्विवरणपूर्वकम् ‘अस्य जीवस्य सदसद्योनिजन्मसु सत्त्वरजस्तमोगुणसङ्गः कारणम्’ इति ‘कारणं गुणसङ्गोऽस्य’ इति पूर्वाध्यायगतश्लोकोक्तबन्धमित्यर्थः । तदत्ययसाधनम् बन्धाति-क्रमोपायः ।। १,२ ।।
भावदीपिका
प्रणम्य यादवाचार्यगुरूणां पदपङ्कजे ।
कुर्मश्चतुर्दशाध्यायटीकां भावप्रदीपिकाम् ।।
।। आषष्ठसमाप्तेरिति ।। षष्ठाध्यायसमाप्तिपर्यन्तमित्यर्थः । कर्मध्यानलक्षणमिति ।। कर्मध्यानोभयरूपमित्यर्थः । इतिकर्तव्यतांशमिति ।। उत्तराध्यायपञ्चके कर्मसमाधिरूप-साधनस्यानुक्तेः ‘अफलाकाङ्क्षिभिः’ इत्यादिना कर्मसमाधीतिकर्तव्यतांशस्योक्तेः भाष्ये साधन-शब्दस्तदितिकर्तव्यतांशोपलक्षक इति भावः । एवमेवोत्तरत्र ‘ज्ञानसाधनान्याह’ इत्यादौ साधन-शब्दस्तदितिकर्तव्यतांशपरो ज्ञातव्यः । अत एव भाष्ये सप्तदशाध्याये ‘कर्मादीतिकर्तव्यता-विधानार्थम् अर्थवादमाह’ इति वक्ष्यति । प्रपञ्चयतीति ।। तथाच न पूर्वषट्केन पुनरुक्तिरिति भावः ।
भावप्रकाशः
ननूत्तरपञ्चाध्याये कर्मध्यानलक्षणं साधनं नोच्यते किं त्विति-कर्तव्यतैव । तत्कथं साधनमित्युक्तम् । नच साधनशब्द इतिकर्तव्यतालक्षक इति वाच्यम् । तथाऽपि वक्तीत्ययोगात् । इतिकर्तव्यतायाः प्रथमषट्के तत्र तत्र प्रतिपादनादित्या-शङ्कां परिहर्तुमाह– योगे त्विति ।। प्रकृतमाह– तत्रेति ।। नन्वीश्वरमाहात्म्यस्यैव प्राधान्यात् कथमितिकर्तव्यतायाः प्राधान्यमिति शङ्कां परिहरन् कथं तर्ह्युत्तरपञ्चाध्यायानाम् इतिकर्तव्यता-प्रपञ्चकत्वमित्याशङ्कां च निरस्यति– प्राचुर्येति ।। साधनमुत्तरैरित्यादिभाष्यमितिकर्तव्यता-प्रपञ्चकग्रन्थबहुत्वापेक्षया सङ्ग्रहाकमित्यर्थः । एतेनाष्टादशे ‘ज्ञानं कर्म च’ इत्यादिना मोक्ष-साधनप्रपञ्चनमपि समाहितम् । अनन्तरसङ्गतिं दर्शयन्नाह– तत्र यावदिति ।। १ ।।
श्रीभगवानुवाच–
परं भूयः प्रवक्ष्यामि ज्ञानानां ज्ञानमुत्तमम् ।
यज्ज्ञात्वा मुनयः सर्वे परां सिद्धिमितो गताः ।। १ ।।
भावरत्नकोशः
गीताक्षरार्थस्तु ‘योगे त्विमां शृणु’ इति प्रतिज्ञाय आ षष्ठपरिसमाप्तेः कामवर्जनादीतिकर्तव्यतासहितं कर्मध्यानलक्षणं ज्ञानसाधनमुक्तम् । तत्रेति-कर्तव्यतांश उत्तरैः पञ्चभिरध्यायैः प्रपञ्च्यत इत्युत्तरघट्टार्थः । अवान्तरप्रतिपाद्यभेदाद् अध्यायभेदः । तत्र ‘यावत्सञ्जायते किञ्चित् सत्त्वं स्थावरजङ्गमम्’ इत्युक्तविवरणपूर्वकम् ‘कारणं गुणसङ्गोऽस्य’ इत्युक्तगुणबन्धं प्रपञ्च्य, तदत्ययसाधनम् अनेन चतुर्दशाध्यायेनोच्यते । श्रोतुरादरजननाय वक्ष्यमाणार्थज्ञानं प्रतिज्ञापूर्वकं फलोक्त्या प्रशस्यते– भगवानुवाच परं भूय इति द्वाभ्याम् ।। परम् अन्यत् कर्माद्यपेक्षयोत्कृष्टम् इति वा भूयः पुनः प्रवक्ष्यामि । किं तत् ? ज्ञानानां ज्ञातव्यानां मध्ये उत्तमं ज्ञान ज्ञातव्यम् । यद् ज्ञात्वा सर्वे मुनयः मननशीलाः इतः संसारात् परां सिद्धि मुक्ति गताः प्राप्तवन्तः ।। १ ।।