उच्चैःश्रवसमश्वानां विद्धि माममृतोद्भवम् । ऐरावतं गजेन्द्राणां नराणां च नराधिपम् ।। २७ ।।

उच्चैःश्रवसमश्वानां विद्धि माममृतोद्भवम् ।

ऐरावतं गजेन्द्राणां नराणां च नराधिपम् ।। २७ ।।

भावरत्नकोशः

उच्चैःश्रवसमिति ।। अश्वानां मध्ये उच्चैःश्रवसम्, उच्चैःश्रव-स्सञ्ज्ञकम्् अश्वं मां विद्धि जानीहि, उपास्स्व च । अमृतोद्भवं क्षीरसागरसमुद्भूतमिति देहली-दीपन्यायेनाश्वे गजे चान्वेति । ऐरावतं इरावत्या अपत्यं गजं मां विद्धि । नराधिपं राजानम्

।। २७ ।।