उदासीनवदासीनो गुणैर्यो न विचाल्यते । गुणा वर्तन्त इत्येव योऽवतिष्ठति नेङ्गते ।। २३ ।।

उदासीनवदासीनो गुणैर्यो न विचाल्यते ।

गुणा वर्तन्त इत्येव योऽवतिष्ठति नेङ्गते ।। २३ ।।

भावरत्नकोशः

गीताक्षरार्थस्तु एवं गुणातीतः कैर्लिङ्गैर्युक्तः इति प्रश्नस्योत्तर-मुक्तम् । इदानीं किमाचारः इति प्रश्नस्योत्तरमुच्यते– उदासीनवदित्यादित्रिश्लोक्या ।। यः पुमान् कर्मणां विषये उदासीनवदासीनः वर्तमानः ‘काम्यकर्मण्युदासीनः, निष्कामकर्मणि प्रयत-मानः’ इति भावेन वतिप्रत्ययः कृतः । गुणैः सत्त्वादिभिः तत्कार्यैः सुखादिभिः न विचाल्यते उच्चनीचतालक्षणविकारवान् न क्रियते; गुणाः ईश्वरेच्छया नियता एव वर्तन्त स्वकार्येषु प्रवर्तन्त इति योऽवतिष्ठति जानन् जोषमास्ते स नेङ्गत गुणकृतावैष्णवकर्मकरणाय न चेष्टते । ‘भगवदधीना गुणाः स्वकार्यं कुर्वन्ति’ इति जानन् यो वैष्णवान्येव कर्माण्याचरति; नेतराणि, स गुणातीत एवंविधाचार इति भावः ।। २३ ।।