यदा विनियतं चित्तमात्मन्येवावतिष्ठते । निःस्पृहः सर्वकामेभ्यो युक्त इत्युच्यते तदा ।। १८ ।।

यदा विनियतं चित्तमात्मन्येवावतिष्ठते ।

निःस्पृहः सर्वकामेभ्यो युक्त इत्युच्यते तदा ।। १८ ।।

भाष्यम्

आत्मनि भगवति ।। १८ ।।

भावप्रकाशिका

‘यदा विनियतं चित्तमात्मन्येवावतिष्ठते’ इत्यत्र स्वात्म-न्येवेति यो वक्ति स वक्तव्यः । किं तस्य जीवत्वध्यानं मुक्तिसाधनं ब्रह्मत्वध्यानं वा । नाद्यः, स्वानधीनत्वान्मुक्तेः । नेतरः, विपरीतध्यानस्यानर्थहेतुत्वात् । तदेतन्मनसि निधायाह– आत्मनीत्यादि ।। १८ ।।

प्रमेयदीपिका

‘आत्मन्येवावतिष्ठते’ इत्यत्र ‘स्वस्मिन्नेव’ इति प्रतीति-निरासायाह– आत्मनीति ।। अन्यथा‘ज्ञात्वा माम्’ (५-२९) इत्यादिविरोधः ।। १८ ।।

भावदीपः

।। अन्यथेति ।। जीवार्थत्वे ‘ज्ञात्वा मां शान्तिमृच्छति’ (५.२९) इति पञ्चमान्तगीतोक्तिविरोध इत्यर्थः ।। १८ ।।

भावरत्नकोशः

।। इति प्रतीतीति । तथा च सङ्करः ‘आत्मन्येवावतिष्ठते केवले स्वात्मनि स्थितिं लभते’ इति । अत्र दूषणमाह– अन्यथेति । जीवार्थकत्वे । आदिपदेन ‘मामेव ये प्रपद्यन्ते’ ‘मामेवैष्यस्यसंशयम्’ इत्यादेः सङ्ग्रहः । विरोधः ‘स्यादिति भावः’ इति शेषः । प्राचीनटीकायां तु ‘आत्मनि स्वात्मनि’ इति यो वक्ति स वक्तव्यः, किं तस्य जीवत्व-ध्यानं मुक्तिसाधनम्, ब्रह्मत्वध्यानं वा । नाद्यः । स्वानधीनत्वान्मुक्तेः । नेतरः । विपरीतध्यान-स्यानर्थहेतुत्वादिति भावेन स्वयमात्मशब्दार्थमाह ‘आत्मनि भगवति’ इति व्याख्यातम् ।।

योगसम्पूर्तिस्वरूपमुच्यते यदेत्याद्यनेकश्लोकैः । विनियतं विशेषेण विषयेभ्यः प्रत्याहृतं चित्तम् आत्मनि भगवति एवावतिष्ठते तदेकतानं भवति, सर्वकामेभ्यो निस्पृहश्च यदा, तदा युक्तो योगसम्पूर्तिमान् इत्युच्यत इति योगपूर्तेः कालविशेष उक्तः ।। १८ ।।

भावदीपिका

।। अन्यथेति ।। तथात्वे स्वस्यैव ध्येयत्वप्राप्त्या ‘भोक्तारं यज्ञ-तपसाम्’ इत्यत्र ‘ज्ञात्वा माम्’ इति स्वस्यैव यद् ध्येयत्वमुक्तम्, तद्विरोधः स्यादित्यर्थः ।। १८ ।।