अनादित्वान्निर्गुणत्वात् परमात्माऽयमव्ययः । शरीरस्थोऽपि कौन्तेय न करोति न लिप्यते ।। ३२ ।।

अनादित्वान्निर्गुणत्वात् परमात्माऽयमव्ययः ।

शरीरस्थोऽपि कौन्तेय न करोति न लिप्यते ।। ३२ ।।

भाष्यम्

नच व्ययादिस्तस्येत्याह– अनादित्वादिति ।। सादि हि प्रायो व्ययि गुणात्मकं च । ‘न करोति’ इत्यादेरर्थ उक्तः पुरस्तात् । न लौकिकः क्रियादिस्तस्य । अतो ‘न प्रज्ञम्’ (मां.उ.२.१) इत्यादिवदिति ।। ३२ ।।

भावप्रदीपिका

सर्वेषु भूतेषु तिष्ठति चेत्, नाशः स्यात् तन्नाशेन तस्येत्याशङ्क्य, उक्तं– विनश्यत्सु इति । तदुपासनपरतया अनादित्वात् इति श्लोकमवतारयति– न चेति । शरीरस्थत्वेऽपि व्ययवृद्ध्यादि नास्ति । कुतो नाशः इत्यर्थः । अव्ययत्वानादित्वादेर्हेतुत्वं घटयति– सादीति । सादि प्रायो व्ययि, गुणात्मकं सर्वत्र व्ययीत्यर्थः । न करोति इत्यत्रान्यथाप्रतीतिनिरासायाह– नेति ।।

प्रमेयदीपिका

‘अव्ययः’ इत्यनुवादेन लेपाभावमात्रं विधीयते’ इत्यन्यथाप्रतीतिनिरासार्थमाह– नचेति ।। एतेनाव्ययत्वमपि साध्यमप्राप्तत्वादित्युक्तं भवति । तस्य विष्णोः । अनेन ‘जीवविशेषणमेतत् । तस्य प्राप्तिसद्भावेन प्रतिषेधो-पपत्तेः’ इति निरस्तम् । विष्णोरपि ‘शरीरस्थोऽपि’ इति प्राप्तेरुक्तत्वात् । अनादि-निर्गुणत्वयोरव्यययत्वे हेतुत्वमुपपादयितुं व्याप्तिमाह– सादीति ।। यद् व्ययि तत् प्रायः सादि गुणात्मकं चेति योजना । प्रागभावे व्यभिचारवारणाय ‘प्रायः’ इत्युक्तम् । साद्येव गुणात्मकमेवेत्यवधारणेन यथास्थितयोजना वा ।

न करोति निर्गुणत्वात्’ इतीश्वरस्य क्रियागुणाभावः प्रतीयत इत्यत आह– न करोतीति ।। पुरस्तादुक्तमेव स्मारयति– नेति ।। इत्यादिवत् ‘अक्रियत्वादिकं व्याख्येयम्’ इति शेषः । यद्यप्यव्ययत्वमप्यत्र साध्यम् । तथाऽपि तल्लोकतो ज्ञातुं शक्यत इति लेपाभावमात्रं ‘यथा सर्वगतम्’ इत्युपपाद्यते ।। ३२ ।।

भावबोधः

ननु सादि व्ययि गुणात्मकं चेति कथं निर्देशः । व्यतिरेकि-व्याप्तावव्ययत्वरूपसाध्याभावस्य प्रथमं वक्तव्यत्वात्, अनादित्वाभावनिर्गुणत्वाभावयोर्व्याप्ति-वचनस्य प्रकृतानुपयोगाच्चेत्यतो वाक्यं यथावद्योजयति – यद् व्ययीति ।। साद्येवेति ।। वह्निमानेव धूमवानितिवत् व्याप्यस्य व्यापकायोगव्यवच्छेदवचने व्याप्तिः प्रदर्शिता भवतीति भावः ।। ३२ ।।

भावदीपः

।। यद्व्ययीति ।। यथाश्रुतयोजनायां ध्वंसे मुक्तौ चानैकान्त्या-पत्तेः व्यतिरेकव्याप्त्युक्त्यनापत्तेश्चेति भावः ।। इत्यवधारणेनेति ।। तदा हेत्वभावस्य व्यापकत्वम्, अव्ययत्वरूपसाध्याभावस्य व्याप्यत्वमुक्तं भवतीति भावः ।। व्यतिरेकव्याप्तौ व्यापकाभावस्य व्याप्यत्वात् अनादिव्ययत्वस्य चाव्यापकत्वात्, व्यापकाभावपूर्वं व्याप्तिं दर्शयति– यद्यपीति ।। लोकत इति ।। ‘यदनादि तदव्ययम्’ इत्यस्य देशकालादौ ज्ञातुं शक्यत्वात् इति तदनुपपाद्य लेपाभावमात्रं गीतायामुपपाद्यत इत्यर्थः । एतच्च ‘अव्ययम् इत्यनुवादेन’ इत्यादिना प्रागुक्तान्यथाप्रतीतेर्बीजखण्डनायोक्तमिति ज्ञेयम् ।। ३२ ।।

भावरत्नकोशः

एकशब्देन विष्णोः प्रकृतत्वात् तच्छब्देन स एव ग्राह्य इति भावेनाह– तस्य विष्णोरिति ।। अनेन ‘तस्य विष्णोः’ इति वचनेन । एतत् ‘अनादित्वान्निर्गुणत्वात्’ इति वचनम् । तस्य जीवस्य प्राप्तिसद्भावेन ‘अहं कर्ता, भोक्ताऽस्मि इति प्रतीतेः कर्तृत्वलेपप्राप्तिसद्भावेन प्राप्तेरुक्तत्वात् । तथा च ‘न करोति न लिप्यते’ इति प्रतिषेधोपपत्तिरिति भावः । अव्ययत्वे साध्ये व्यतिरेकव्याप्त्युपपादनायाह– सादि हि प्रायो व्ययि गुणात्मकञ्चेति ।। तदयुक्तम् । व्यतिरेकव्याप्तिप्रदर्शने साध्याभावस्यादौ वक्तव्यत्वा-दित्यतो यथावद्योजयति– यद्व्ययीति ।। विनाशीत्यर्थः । साद्येवेति ।। ‘वह्निमानेव धूमवान्’ इत्यादौ इव व्याप्यस्य व्यापकायोगव्यवच्छेदवचनेन व्याप्तिरेव प्रदर्शिता भवतीति भावः । ‘न करोति’ इत्यनेन क्रियाभावः ‘निर्गुणत्वात्’ इत्यनेन गुणाभावः प्रतीयत इत्यर्थः । साध्यं तथा चोपपादनीयमिति भावः । लोकत इति ।। ‘यद् भावत्वे सति अज्ञानातिरिक्तमनादि तदव्ययम्’ इति व्याप्तिर्देशादौ ज्ञातुं शक्यत इत्यर्थ इति गीतायाम् । एतच्च ‘अव्यय इत्यनुवादेन’ इत्यादिना प्रागुक्तान्यथाप्रतीतेर्बीजखण्डनायोक्तमिति ज्ञेयमिति स्वामिनः ।।

गीताक्षरार्थस्तु– ननु ‘विनश्यत्सु तिष्ठतोऽपि अविनश्यन्तम्’ इत्यविनाशशब्दितव्यया-भावोक्तिरयुक्ता । शरीरसम्बन्धेन व्ययादेरावश्यकत्वाद् इत्यतो न विष्णोर्व्ययादिरित्युच्यते– अनादित्वादिति ।। हे कौन्तेय शरीरस्थोऽपि अयं परमात्मा ‘अनादित्वात्’ इति हेतुः प्रागभावे व्यभिचारपरिहाराय ‘भावत्वे सति’ इति विशेषणीयः । भावत्वे सत्यनादित्वात् आदिमत्त्वशून्यत्वात् सत्त्वादिगुणेभ्यो निर्गतत्वाच्च अव्ययो देहतोऽपि नाशरहितः न लिप्यते तत्कृतपुण्यपापैर्न सङ्गच्छते च, लौकिकक्रियाराहित्यात् ‘नप्रज्ञं नसुखम्’ इत्यादिवत् न करोति इत्येतदपि व्याख्येयम् ।। ३२ ।।

भावदीपिका

।। अनेन ‘तस्य’ इति वचनेन । प्राप्तीति ।। लेपप्राप्ती-त्यर्थः । ननु ‘सादि गुणात्मकं च’ इति वक्तव्यम् इत्यतो योजयति– यद्व्ययीति ।। अभावस्य निरुपादानकत्वाद् गुणात्मकत्वं च नास्तीति ज्ञेयम् । साद्येवेति ।। ‘वह्निमानेव धूमवान् इतिवत् व्याप्यस्य व्यापकायोगव्यवच्छेदोक्तौ व्याप्तिरेव प्रदर्शिता भवतीति भावः । इतीति ।। पदाभ्याम् । नन्वत्र अव्ययत्वअक्रियत्वलेपाभावाख्ये साध्यत्रयेऽक्रियत्वं पूर्वोक्त-न्यायेनोपपादितम् । लेपाभावस्तूपपाद्यते । अव्ययत्वमपि कस्मान्नोपपाद्यते इत्यत आह– यद्यपीत्यादिना ।। साध्यमिति ।। तथा च तदप्युपपादनीयमिति भावः । लोकत इति ।। लोकावगतव्याप्तिकोक्तानादित्वाद्यनुमानादित्यर्थः ।। ३२-३४ ।।

भावप्रकाशः

 ननु अनादित्वनिर्गुणत्वाभ्यामव्ययत्वे साध्ये व्यतिरेकव्याप्त्युप-पादनाय ‘सादि हि’ इत्युक्त म् । न च तद्युक्तम् । व्यतिरेकव्याप्तेः साध्याभावोक्तिपूर्वकं प्रदर्शनीयत्वादित्यत आह– यद्व्ययीति । साद्येवेति ।। समभिव्याहृतपदार्थतावच्छेदक-व्यापकत्वस्य सर्वत्रैवकारार्थत्वादिति भावः ।। ३२ ।।