कर्मणः सुकृतस्याऽहुः सात्त्विकं निर्मलं फलम् । रजसस्तु फलं दुःखमज्ञानं तमसः फलम् ।। १६ ।।
कर्मणः सुकृतस्याऽहुः सात्त्विकं निर्मलं फलम् ।
रजसस्तु फलं दुःखमज्ञानं तमसः फलम् ।। १६ ।।
भाष्यम्
रजसस्तु फलं दुःखमिति ।। अल्पसुखं दुःखम् । तथा हि शार्कराक्ष्य-शाखायाम् ‘रजसो ह्येव जायते मात्रया सुखं दुःखं तस्मात्तान् सुखिनो दुःखिन इत्याचक्षते’ इति । अन्यथा दुःखस्यातिकष्टत्वात् तमोऽधिकत्वं रजसो न स्यात् ।। १६ ।।
भावप्रदीपिका
रजसस्तु फलं दुःखम् इत्यत्र केवलदुःखं नेत्याह– रजस इति । तान् राजसान् ।। १६ ।।
प्रमेयदीपिका
‘दुःखशब्दः केवलदुःखवाची’ इत्यन्यथाप्रतीति-निरासायाह– रजस इति ।। ‘दुःखशब्देनोच्यते’ इति शेषः । तत्कथम्? इत्यत उक्तम्– अल्पेति ।। अल्पत्वात् सुखस्याविवक्षेति भावः। कुतः? इत्यत आह– तथाहीति ।। ‘रजसः’ इति पञ्चमी । मात्रया इति सुखविशेषणम् । स्तोकात्मकं सुखं दुःखं चेत्यर्थः । तान् राजसकर्मिणः । केवलदुःखार्थाङ्गीकारे बाधकं चाह– अन्यथेति ।। अतिकष्टत्वात् अज्ञानादपि कष्टत्वात् । तत्फलकस्य रजसः । तथाच ‘मध्ये तिष्टन्ति राजसाः, ‘अधो गच्छन्ति तामसाः’ (१४.१८) इत्याद्ययुक्तं स्यादिति भावः ।। १६ ।।
भावदीपः
।। इति शेष इति ।। ‘रजसस्तु फलं दुःखम्’ इति दुःखशब्देनाल्पसुखं दुःखमुच्यत इति योजना ध्येयेति भावः ।। अज्ञानादपीति ।। तमःकार्यादपि । तमःकार्यादज्ञानादित्यर्थः । ‘रजसः’ इत्यस्य विशेषणमाह– तत्फलकस्य रजसः इति ।। दुःखफलकस्येत्यर्थः । को दोेष इत्यत आह– तथा चेति ।। १६ ।।
भावरत्नकोशः
‘दुःखम्’ इत्यनन्तरं भाष्ये शेषमाह– दुःखशब्देनेति ।। भाष्ये ‘दुःखमिति’ इत्यनन्तरम् ‘अत्र’ इति शेषो द्रष्टव्यः । ‘अल्पसुखम्’ इत्यत्र ‘अल्पं सुखं यस्मिन् तद् अल्पसुखम्’ इत्यर्थस्य स्फुटत्वात् तत्तात्पर्यमाह– अल्पत्वादिति ।। ‘रजसस्तु’ इति प्रस्तुतत्वाद् अत्रापि षष्ठ्यन्तत्वप्रतीतिव्युदासायाह– पञ्चमीति ।। स्तोकात्मकं अल्पं सुखमेवात्र दुःखपदेन ग्राह्यमिति प्रतीतिनिरासायाह– दुःखं चेति ।। पुंलिङ्गघटनाय तच्छब्दविवक्षितार्थमाह– तान् राजसकर्मिण इति ।। न केवलम् ‘अल्पं सुखं च रजसः फलम्’ इत्यत्र प्रमाणमुक्तम् तदनङ्गीकारे बाधकं चेति चशब्दः । भाष्ये अपादानानुरूपं रजसो विशेषणमाह– तत्फलस्येति ।। दुःखफलकस्येत्यर्थः । तमोधिकत्वं तमोगुणापेक्षयोत्तमत्वं न स्याद् इत्यत्र इष्टापत्तिमाशङ्क्याह– तथा चेति ।।
गीताक्षरार्थस्तु सत्त्वादीनां स्वस्वोत्पादितकर्मद्वारा विविधफले हेतुत्वमुच्यते– कर्मण इति ।। सात्त्विकानां विदुषां कुलेषु प्रसूतेन पुरुषेण सुष्ठु कृतस्य कर्मणः निर्मलं दुःखासम्भिन्नं सात्त्विकं सत्त्वप्रधानं ज्ञानसुखरूपं फलम् आहुः प्राज्ञाः । रजसः राजसस्य तु कर्मणः दुःखं दुःखमिश्रं सुखं फलमाहुः । तमसः तामसस्य तु कर्मणः अज्ञानं फलम् आहुः ।। १६ ।।
भावदीपिका
।। अविवक्षेति ।। गीतायाम् इति शेषः । षष्ठीभ्रमं वारयति– रजस इति पञ्चमीति ।। मात्रास्तोकबिन्दुशब्दानां पर्यायत्वमभिप्रेत्य ‘मात्रया’ इत्यस्य दुःखेऽपि विशेषणत्वप्रतीतेराह– स्तोकात्मकमिति ।। अल्पं सुखं, तदधिकं दुःखं चेत्यर्थः । अज्ञानात् तमःफलात् । तत्फलकस्य दुःखमात्रफलकस्य । इत्यादि फलतारतम्यकथनम् ।। १६ ।।
भावप्रकाशः
बहुव्रीह्यर्थमत्वर्थमात्रं विवक्ष्यतां किमल्पत्वविशेषणेनेत्यत-स्तत्कृत्यं वक्तुमाक्षिपति– तत्कथमिति ।। तर्हि गीतायां दुःखमित्येव कथमुक्तमित्यर्थः । स्तोकात्मकमिति ।। ‘मात्रा स्तोकमल्पमिति पर्यायाः’ इत्यभियुक्तोक्तेः ‘प्रकृत्यादिभ्यस्तृतीया वाच्या’ इत्युक्ततृतीयायाः तादात्म्यार्थत्वाच्चेति भावः । गीतायां रजःशब्दो राजसकर्मपरः । पूर्वार्धे सात्विककर्मोक्तिसाहचर्यादिति ध्वनयितुं तानित्येतद्व्याचष्टे– राजसकर्मिण इति ।।१६।।