तस्मादज्ञानसम्भूतं हृत्स्थं ज्ञानासिनाऽऽत्मनः । छित्वैनं संशयं योगमातिष्ठोत्तिष्ठ भारत।। ४२ ।।
तस्मादज्ञानसम्भूतं हृत्स्थं ज्ञानासिनाऽऽत्मनः ।
छित्वैनं संशयं योगमातिष्ठोत्तिष्ठ भारत।। ४२ ।।
।। ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु योगशास्त्रे
श्रीकृष्णार्जुनसंवादे ज्ञानयोगो नाम चतुर्थोऽध्यायः ।।
भाष्यम्
तत्साधनं विरोधिफलं च तदुत्तरैरुक्त्वोपसंहरति ।। ४२ ।।
।। इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्भगवद्गीताभाष्ये चतुर्थोऽध्यायः ।।
भावप्रदीपिका
उत्तरश्लोकचतुष्टयमवतारयति– तदिति ।। ‘श्रद्धावान्’ इत्यादि ज्ञानसाधनं शान्तिमृच्छति । ‘योगसन्न्यस्त’ इति ज्ञानफले । ‘अज्ञश्च’ इत्यादिज्ञानविरोधि ‘विनश्यति’ इत्यादि तत्फलम् । ‘तस्मात्’ इत्युपसंहारः ।। ३९-४२ ।।
।। इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितश्रीगीताभाष्यटीकायां श्रीपद्मनाभतीर्थभट्टारकविरचितयां श्रीमद्भगवद्गीताभाष्यभावप्रदीपिका
यां चतुर्थोऽध्यायः ।।
भावप्रकाशिका
उत्तरश्लोकत्रयस्यैकार्थमाह– तत्साधनमिति ।। ज्ञानसाधनं, ज्ञानविरोधि, ज्ञानतद्विरोधिनोः फलं च । तत्र विरोधिफलं विनाशादि । ज्ञानफलं बन्ध-परिहारोऽप्रतिहतविष्णुनिष्ठबुद्धेः सुखरूपिणी ।। ३९-४२ ।।
।। इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितश्रीगीताभाष्यटीकायां
श्रीनरहरितीर्थभट्टारककृतौ
भावप्रकाशिका
यां चतुर्थर्ध्यायः ।।
प्रमेयदीपिका
उत्तरस्य श्लोकस्य सङ्कीर्णार्थत्वादेकोक्त्यैव तात्पर्यमुक्त्वा तस्मात् इति चतुर्थस्य प्रतिपाद्यमाह– तदिति ।। तस्य ज्ञानस्य साधनम् अन्तरङ्गं श्रद्धादिकम् । विरोधि अज्ञानादिकम् । ज्ञानस्य फलं परशान्त्यादिकम् । विरोधिनः फलं विनाशादिकमिति ।। ३९-४२ ।।
।। इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितस्य श्रीमद्भगवद्गीताभाष्यस्य टीकायां श्रीजयमुनिविरचितायां प्रमेयदीपिका
यां चतुर्थोऽध्यायः ।। ४ ।।
भावदीपः
फलपदं तत्पदपरामृष्टज्ञानेन विरोधिपदोक्ताज्ञानेन चान्वेतीति भावेनाऽह– ज्ञानस्य फलमित्यादि ।। ४२ ।।
।। इति श्रीमद्गीताभाष्यटीकाभावदीपे राघवेन्द्रयतिकृते चतुर्थोऽध्यायः ।।
भावरत्नकोशः
।। सङ्कीर्णार्थत्वादिति ।। ज्ञानसाधनतत्फलयोः, अज्ञानतत्फल-योश्च संवलनेनोक्तत्वादित्यर्थः । प्रतिपाद्यम् उपसंहारत्वरूपम् । ‘ज्ञानसाधनं ज्ञानविरोधि ज्ञानतद्विरोधिनोः फलम्’ इति प्राचीनटीकां मनसि निधायाह– तस्येत्यादि ।। प्रणिपातादेः ज्ञानसाधनस्याभिहितत्वात् किमत्राभिधातव्यमित्यत उक्तम्– अन्तरङ्गमिति ।। अत्यावश्यक-मित्यर्थः । ‘श्रद्धादिकम्’ इत्यत्रादिशब्देन ज्ञानासक्तीन्द्रियसंयमग्रहणम् । अज्ञानादिकमिति ।। ‘अज्ञश्च’ इत्यत्रोक्तम् अज्ञान-अश्रद्धा-संशयरूपं ज्ञानविरोधि विवक्षितमित्यर्थः । ‘परशान्त्यादि-कम्’ इत्यत्र आदिपदेन कर्मबन्धपरिहारो ग्राह्यः । ‘विरोधिफलम्’ इत्यैकपद्याश्रयणेनाह– विरोधिनः फलं विनाशादिकमिति ।। ज्ञानविरोधिनः अज्ञानादेः । विनाशादिकं विनाशो नरकप्राप्तिः । आदिपदेन मानुषलोकस्वर्गलोकसुखाभावग्रहः ।। ३९-४२ ।।
एवमुपपादितं कर्मणः कर्तव्यत्वमुपसंह्रियते– तस्मादिति ।। ज्ञानोपायानुष्ठानाननुष्ठा-नयोरर्थानर्थवत्त्वाद् अज्ञानेन अधिष्ठानयाथात्म्याज्ञानेन सम्भूतम् उत्पन्नं हृत्स्थं हृदयगतम् आत्मनः संशयं ज्ञानासिना ज्ञानाख्यखड्गेन छित्त्वा परिहृत्य योगं ज्ञानोपायं कर्म आतिष्ठ कुरु । हे भारत उत्तिष्ठ । क्षत्रियस्य तव ज्ञानोपायभूतं कर्म युद्धमेवेति तत्रोद्युक्तोे भव । स्वकर्मणा भगवन्तमभ्यर्च्य तं परितोषय इति ।। ४२ ।।
श्रीमद्गीताभाष्यटीकाचतुर्थाध्यायसेवया ।
गुणिनः परितुष्यन्तु गुणग्रहणभूषणाः ।।
।। इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमत्सूरीन्द्रतीर्थपूज्यपादशिष्येण सुमतीन्द्रयतिना विरचितायां प्रमेयदीपिका
व्याख्यायां भावरत्नसमाख्यायां चतुर्थोऽध्यायः ।।
भावदीपिका
।। उत्तरस्येति ।। ‘श्रद्धावान्’ इत्यादिश्लोकत्रयस्येत्यर्थः । सङ्कीर्णार्थत्वादिति ।। साधनफलयोर्मिश्रतया गीतायामुक्तत्वाद् एकोक्त्यैव तात्पर्यं स्वयमपि सङ्कीर्णतया वक्तीत्याशयः । श्रद्धादिकं ‘श्रद्धावान्’ इत्यादिनोच्यत इति ध्येयम् । ‘विरोधि’, ‘फलं च’ इति भिन्नपदमित्यभिप्रेत्य व्याचष्टे – विरोधीति ।। अज्ञानादिकमिति ।। अत्राऽदिपदेन श्रद्धासंशयसङ्ग्रहः । ‘अज्ञश्च’ इत्यादिनोच्यत इति ज्ञातव्यम् ।। परशान्त्यादिकमिति ।। आदिपदेन ‘योगसंन्यस्तकर्मणाम्’ इत्यादिनोक्तं कर्माबन्धसङ्ग्रहः । ‘ज्ञानं लब्ध्वा’ इत्यनेनोच्यत इति द्रष्टव्यम् । ‘विरोधिफलम्’ इति समस्तं पदमित्यभिप्रेत्यापि व्याचष्टे – विरोधिन इति ।। अज्ञानस्य संशयस्य चेत्यर्थः । विनाशादिकम् ‘अज्ञश्च’ इत्यर्धेन विनाशः । आदिपदेन ‘नायं लोकोऽस्ति’ इति लोकाभावश्चोच्यत इति द्रष्टव्यम् ।। ३९–४२ ।।
इति यदुवरगीताभाष्यटीकासुयुक्ताशयमतिललिताभिर्गीर्भिरावेदयित्री ।
सुललितविवृतिर्या वृष्णिराद्धात्र चीर्णा समगमदयमध्यायोऽन्तमस्यां चतुर्थः ।।
।। इति श्रीयदुपत्याचार्यपूज्यपादाराधकेन श्रीनिवासेन विरचितायां श्रीमद्भगवद्गीताभाष्यटीकाविवृतौ भावदीपिका
(श्री.टि.) ख्यायां चतुर्थोऽध्यायः ।।
भावप्रकाशः
ज्ञानसाधनकर्मणोभिहितत्वात् पुनरुक्तिरित्यत आह– अन्तरङ्ग-मिति ।। ज्ञानोत्पत्तावत्यावश्यकत्वमित्यर्थः ।। परशान्त्यादिकमिति ।। आदिपदेन कर्मबन्धा-भावसङ्ग्रहः ।। ४२ ।।
।। इति श्रीमत्तिरुमलाचार्यसुतकृष्णविरचितायां प्रमेयदीपिका
भावप्रकाशे चतुर्थोऽध्यायः ।।