यत् तु कृत्स्नवदेकस्मिन् कार्ये सक्तमहैतुकम् । अतत्त्वार्थवदल्पं च तत् तामसमुदाहृतम् ।। २२ ।।
यत् तु कृत्स्नवदेकस्मिन् कार्ये सक्तमहैतुकम् ।
अतत्त्वार्थवदल्पं च तत् तामसमुदाहृतम् ।। २२ ।।
भावरत्नकोशः
गीताक्षरार्थस्तु यत्त्विति ।। अत्र कार्यशब्दो जीवपरः । स्वरूपतः शुद्धस्य जीवस्य संसारित्वेन, संसारिणो मुक्तत्वेन, मुक्तियोग्यत्वेन नित्यसंसारित्वेन तमोयोग्यत्वेन चेत्यादिनानाप्रकारेण कर्तुं योग्यत्वात् । कृत्स्नशब्दश्चाकार्यत्वादिनानाप्रकार-गुणपूर्णब्रह्मवचनः, अखिलजगत्परश्च । एकस्मिन् कार्ये जीवे कृत्स्नवत् ब्रह्मणीव सक्तम्, ब्रह्म यथा स्वात्मानं ‘ब्रह्म’ इति विषयीकरोति तथा विषयीकुर्वत्, जीवे ब्रह्माभेदमवगाहमानमिति यावत् । तथा एकस्मिन् कार्ये जीवे कृत्स्नवत् अखिले जगतीव सक्तं जीवं जगदात्मकत्वेन विपयीकुर्वदिति यावत् । तथा एकस्मिन् कार्ये जीवे कृत्स्नवत् अखिले जगतीव सक्तं एकजीवकल्पितम् अखिलं जगत् इति विषयीकुर्वदिति यावत् । यत् ज्ञानम् इति त्रेधाऽर्थः । औतुकं स्वगोचरेऽर्थे वेदाद्यनुकूलयुक्तिरहितम् अतत्त्वार्थवत् न तत्त्वम् अनारोपितं रूपं यस्य स अतत्त्वः, स चासौ अर्थश्च, तद्वत् । यथा स्थिताकराद् विपरीताकारावगाहि सदसद्वैलक्षण्याद्य-विद्यमानाकारकल्पनायुक्तमिति यावत् । अल्पम् अधिष्ठानादिमात्रविषयकाल्पसम्यग्ज्ञानयुक्तं तद् ज्ञानं तामसम् । अत्र विशेष उत्तरप्रस्थानतोऽवगन्तव्यः ।। २२ ।।