यथाऽऽकाशस्थितो नित्यं वायुः सर्वत्रगो महान् । तथा सर्वाणि भूतानि मत्स्थानीत्युपधारय ।। ६ ।।
यथाऽऽकाशस्थितो नित्यं वायुः सर्वत्रगो महान् ।
तथा सर्वाणि भूतानि मत्स्थानीत्युपधारय ।। ६ ।।
भाष्यम्
‘मत्स्थानि’, ‘नच मत्स्थानि’ इत्यत्र दृष्टान्तमाह– यथाऽऽकाशस्थित इति ।। न हि आकाशस्थितो वायुः स्पर्शाद्याप्नोति ।। ६ ।।
भावप्रदीपिका
भगवदाश्रयत्वेऽप्यस्य स्वस्थितत्वं कथम् ? इत्याशङ्क्य, उत्तरश्लोकमवतार्य व्याचष्टे– मदिति ।।
प्रमेयदीपिका
एकमेकत्राश्रितमित्यत्रासम्भावनाऽभावात् किं तद्दृष्टान्त-त्वोक्त्या? इत्यत आह– मत्स्थानीति ।। तत्र स्थितत्वेऽप्यन्योन्यधर्मासङ्क्रान्त्यादा-वित्यर्थः । तदत्र न प्रतीयत इत्यतो व्याचष्टे– न हीति ।। स्पर्शादीति तद्धर्मोपलक्षणम्
।। ६ ।।
भावबोधः
।। तद्धर्मोपलक्षणमिति ।। परान्वयाद्वाय्व्यादौ शब्दादि-सद्भावेऽपि आकाशे स्पर्शाभावादिति भावः ।। ६ ।।
भावदीपः
‘इत्यत्र’ इत्यन्तस्य तात्पर्यार्थमाह– तत्र स्थितत्वेऽपीत्यादि ।। तदिति ।। अन्योन्यधर्मसङ्क्रान्त्यादौ दृष्टान्तत्वमित्यर्थः ।। ६ ।।
भावरत्नकोशः
‘मत्स्थानि’‘न च मत्स्थानि’ इत्युभयस्य दृष्टान्तमाह’ इति भाषणमयुक्तम् ? गीतायाम् ‘मत्स्थानि’ इत्यस्यैव दृष्टान्ताभिधानाद्, इत्याशङ्क्य ‘न च मत्स्थानि’ इत्यंशोक्तितात्पर्यमाह– तत्र स्थितत्वेऽपीति ।। ‘मत्स्थानि’ इत्यनेन तत्र स्थित-त्वम्, ‘न च मत्स्थानि’ इत्यनेन तु तद्धर्मासङ्क्रान्तिरभिसंहिता । तत्र चासम्भावितत्वशङ्कायां तद्व्युदासाय ‘दृष्टान्तमाह’ इति भाषणं युक्तमेवेति भावः । तत् अन्योन्यधर्मासङ्क्रान्त्यादि । ननु स्पर्शस्याकाशवृत्तित्वाभावात् तद्गतधर्मासङ्क्रान्त्युपपादनाय कथं भाष्ये स्पर्शग्रहणम् ? इत्यत आह– स्पर्शादीति ।। तद्धर्मोपलक्षणमिति ।। विपरीतलक्षणया स्पर्शशब्देन निःस्पर्शत्वं ग्राह्यम् । आदिशब्देन च शब्दगुणकत्वविवरादिरूपाकाशधर्मग्रह इत्यर्थः । अन्योन्यधर्मासङ्क्रान्तेः प्रस्तुतत्वाद् ‘वायुधर्मस्पर्शम् आकाशो नाप्नोति’ इति प्रतिपादनाय भाष्ये ‘स्पर्शादि’ इत्युक्तमिति नासम्भवदुक्तिकत्वं तस्येति केचित् ।।
‘तत्र स्थितत्वेऽप्यन्योन्यधर्मासङ्क्रान्तिः’ इत्येतद् दृष्टान्तेनोपपाद्यते– यथेति ।। नित्यं सदा आकाशे स्थितः । तत्रावस्थानं च नैकदेशेन, किन्तु सर्वत्र गतः । सर्वत्रपन्नयोरुपसङ्ख्यानात् सर्वत्रशब्द उपपदे गमेर्डः । एवंविधोऽपि महान् वायुः नाकाशधर्मं निःस्पर्शत्वादिकम् आप्नोति । तथा सर्वाणि भूतानि मत्स्थानि अपि अन्योन्यधर्मसङ्क्रान्तिरहितान्येव तिष्ठन्ति इति उपधारय अवधारयेति ।। ६ ।।
भावदीपिका
नन्वन्योन्यधर्मासङ्क्रान्तौ कथमिदमुदाहरणम् ? वायुनिष्ठ-स्पर्शाख्यधर्मसङ्क्रमणस्याकाशे स्पर्शाभावेनाभावेऽपि, आकाशनिष्ठधर्मासङ्क्रमणं वायौ कथम् ? ‘परान्वयाच्छब्दवांश्च’ इति न्यायेन, आकाशनिष्ठशब्दाख्यधर्मसङ्क्रामणस्य सत्त्वात् । ‘न हि स्पर्शाद्याप्नोति’ इति चायुक्तम् । आकाशे स्पर्शाभावेन वायुः आकाशनिष्ठस्पर्शादि नाप्नोतीति तन्निषेधायोगात् ? इत्यत आह– स्पर्शादीति ।। तद्धर्मोपलक्षणमिति ।। आकशनिष्ठ-शब्दातिरिक्त ‘भूतमप्यसितम्’ इति प्रमाणसिद्धनीलरूपत्व आकाशत्वशब्दोपादानकृत्त्वादि-धर्मोपलक्षणं कार्यम् । जहत्स्वार्थलक्षणेयम् । तथा च ‘न ह्याकाशस्थितो वायुः स्पर्शाद्याप्नोति’ नीलरूपत्वाद्याकाशनिष्ठधर्मसङ्क्रान्तिं नाप्नोतीति यावत् । तथा आकाशः वायुनिष्ठस्पर्शनी-रूपत्वादिसङ्क्रान्तिं च नाप्नोतीति च द्रष्टव्यम् । तथा चान्योन्यधर्मासंक्रान्तावुदाहरणं सुयुक्तमिति भावः ।। ६ ।।
भावप्रकाशः
ननु ‘मत्स्थानि न च मत्स्थानि’ इत्युभयस्य दृष्टान्तमाहेत्य-युक्तम् । गीतायां मत्स्थानीत्यत्रैव दृष्टान्तप्रतिपादनादित्यत आह– तत्र स्थितत्वेऽपीति ।। ननु स्पर्शस्याकाशावृत्तित्वात् तद्धर्मासङ्क्रान्त्युपादनाय कथं स्पर्शग्रहणमित्यत आह– तद्धर्मेति ।। आकाशधर्मेत्यर्थः । भाष्ये त्वन्योन्यधर्मसङ्क्रान्त्यभावस्याभिप्रेतत्वाद्वायुधर्मं आकाशो न सङ्क्रा-मतीति प्रदर्शनाय स्पर्शग्रहणमिति बोध्यम् ।। ६ ।।