गुणानेतानतीत्य त्रीन् देही देहसमुद्भवान् । जन्ममृत्युजरादुःखैर्विमुक्तोऽमृतमश्नुते ।। २० ।।

गुणानेतानतीत्य त्रीन् देही देहसमुद्भवान् ।

जन्ममृत्युजरादुःखैर्विमुक्तोऽमृतमश्नुते ।। २० ।।

भावरत्नकोशः

गीताक्षरार्थस्तु एवं सुखदुःखादिबन्धस्य गुणत्रयनिबन्धनत्वाद् तदत्यये सत्येव बन्धविमोकेन परमसुखावाप्तिर्भवतीत्युच्यते– गुणानेतानिति ।। देही देहाभिमानी जीवः देहसमुद्भवान् देहादिरूपसंसारोत्पादकान् एतान् उक्तान् त्रीन् गुणान् अतीत्य अतिक्रम्य जन्ममृत्युजरानिमित्तैः दुःखैः विमुक्तोऽमृतमश्नुते परं ब्रह्म प्राप्नोति । तत्प्राप्त्या परमानन्दमनुभवति ।। २० ।।