कालोऽस्मि लोकक्षयकृत् प्रवृद्धो लोकान् समाहर्तुमिह प्रवृत्तः । ऋतेऽपि त्वा न भविष्यन्ति सर्वे येऽवस्थिताः प्रत्यनीकेषु योधाः ।। ३२ ।।

श्रीभगवानुवाच–

कालोऽस्मि लोकक्षयकृत् प्रवृद्धो

लोकान् समाहर्तुमिह प्रवृत्तः ।

ऋतेऽपि त्वा न भविष्यन्ति सर्वे

येऽवस्थिताः प्रत्यनीकेषु योधाः ।। ३२ ।।

भावरत्नकोशः

‘कालोऽस्मि’ इत्यादिश्लोकत्रयाक्षरार्थस्तु एवमर्थितस्य भगवत उत्तरमिदम्– भगवानुवाच– कालोऽस्मीत्यादि ।। कालशब्दो जगद्बन्धनच्छेदनज्ञानादिनाना-धर्मविशिष्टभगवद्वाची । ‘उग्ररूपः किमर्थः’ इति प्रश्नस्य परिहारः– लोकक्षयकृदिति ।। प्रवृद्धः वृद्धेर्धात्वर्थत्वेऽपि साऽत्र देशतः कालतश्च सदातनी विवक्षितेति परिपूर्णः अनादिनित्य इति वा । लोकस्य क्षयकृद्भवान् इह युद्धमण्डले विद्यमानान् जनान् युगपद्बहून् प्रत्यक्षत एव संहर्तुं प्रवृत्तोऽस्मीत्यत ‘इह’ इति विशेषोक्तिः । पार्थानामपि संहरणे किं प्रवृत्तः ? नेत्युच्यते– ऋतेऽपीति ।। त्वां धर्मादिपाण्डवान्, अश्वत्थामानम्, कृतवर्माणं च ऋते इति समुच्चयार्थोऽपि-शब्दः । त्वा त्वाम्् ऋते इत्यत्र, ‘ऋते द्वितीया च’ इति चान्द्रसूत्रात् द्वितीया । ‘प्रत्यनीकेषु’ इत्यत्र सेनाद्वयस्यापि प्रत्यनीकत्वं परस्परतयाऽवगन्तव्यम् । अक्षोहिण्यादीनां बहुत्वाद् बहुवचनम् । सर्वे योद्धारः सेनाद्वयगता अपि ।। ३२ ।।