न हि ज्ञानेन सदृशं पवित्रमिह विद्यते । तत्स्वयं योगसंसिद्धः कालेनाऽत्मनि विन्दति ।। ३८ ।।
न हि ज्ञानेन सदृशं पवित्रमिह विद्यते ।
तत्स्वयं योगसंसिद्धः कालेनाऽत्मनि विन्दति ।। ३८ ।।
भाष्यम्
करणभूतं ज्ञानं स्तौति पुनः श्लोकत्रयेण ।। ३६ ।।
भावप्रदीपिका
‘येन’ इत्यनेन ज्ञानग्रहणे तदुत्तरश्लोकस्वारस्यं स्यात्, नान्यथेति भावेनाह– करणेति ।। ३६-३८ ।।
भावप्रकाशिका
‘अपि चेदसि’ इत्यादेरर्थमाह– करणभूतमिति ।। ‘श्रेयान् इत्यादिश्लोकत्रयेणापि ज्ञानमेव स्तुतमिति सूचयति पुनः शब्देन । स्तुतिप्रकारभेदात् त्रिक-विभागः ।। ३६-३८ ।।
प्रमेयदीपिका
‘येन’ (४.३५) इति ज्ञानस्यैव निर्देश इति स्थापयन् ‘अपि चेत्’ इत्यादेः प्रतिपाद्यमाह– करणेति ।। ‘येन’ इति करणतया निर्दिष्टमित्यर्थः ।। ‘श्रेयान्’ (४.३३) इत्याद्यपेक्षया पुनरिति ।। ३६-३८ ।।
भावदीपः
।। इत्याद्यपेक्षयेति ।। ‘श्रेयान् द्रव्यमयात्’ इत्यादिना ज्ञानस्य स्तुतत्वात् ‘अपि चेदसि’ इत्यादि श्लोकेेऽत्र पुनस्तवनं क्रियत इति तदपेक्षया पुनःशब्द इत्यर्थः
।। ३६-३८ ।।
भावरत्नकोशः
।। इति स्थापयन्निति ।। उत्तरत्रिश्लोक्यामपि ज्ञानपदश्रवणादिति भावः । येनेति ।। करणतयेति ।। कर्तृकरणयोस्तृतीयास्मरणात् ‘येन’ इति तृतीयया करणतया निर्दिष्टं ज्ञानं स्तौतीति भाष्यार्थ इत्यर्थः । श्रेयानित्याद्यपेक्षयेति ।। ‘श्रेयान् द्रव्यमयाद्’ इत्यादिना ज्ञानस्तवनस्यैव अर्थतो लब्धत्वात् ‘यत्’ इति साक्षात्स्तवनाच्च । ‘अपि चेदसि’ इति श्लोेकत्रये स्तवनमेव पुनः क्रियत इति तदपेक्षया पुनःशब्दः इत्यर्थः ।। ३६-३८ ।।
अक्षरार्थस्तु– इह पापनिवर्तकेषु ज्ञानेन सदृशं पवित्रं पावनं शोधकं न हि विद्यते । तद् ज्ञानं स्वयं योगसंसिद्धः योगविषये सम्यक् सिद्धिमान् संसिद्धज्ञानोपायः सन् कालेन बहूनां जन्मनामन्ते ज्ञानवान् ‘निःशेषगतदोषाणां बहुर्भिर्जन्मभिः पुनः । स्यादापरोक्ष्यं हि हरेः’ इत्युक्तदिशा सुबहुना । आत्मनि भगवद्विषये स्वस्मिन्वा विन्दति लभत इति ।। ३८ ।।
भावदीपिका
।। ज्ञानस्यैवेति ।। न तु त्वदुक्तरीत्या मोहस्येत्यर्थः ।। श्रेयानिति ।। ‘श्रेयान् द्रव्यमयाद्यज्ञात् ज्ञानयज्ञः परन्तप’ इति ज्ञानयज्ञस्य पूर्वं स्तुतत्वादिति भावः ।। ३६-३८ ।।
भावप्रकाशः
।। श्रेयानित्यादिति ।। श्रेयान् द्रव्यमयाद्यज्ञादित्यादीत्यर्थः ।।३६।।