एतां विभूतिं योगं च मम यो वेत्ति तत्त्वतः । सोऽविकम्पेन योगेन युज्यते नात्र संशयः ।। ७ ।।

एतां विभूतिं योगं च मम यो वेत्ति तत्त्वतः ।

सोऽविकम्पेन योगेन युज्यते नात्र संशयः ।। ७ ।।

भावरत्नकोशः

उक्तमाहात्म्यपरिज्ञातुः फलमुच्यते– एतामिति ।। यः मम एतां ‘न विदुः सुरगणाः’ इत्यादिश्लोकोक्तां विभूतिं विशिष्टं भवनं सुरगणाद्यविज्ञेयतयोक्त-माहात्म्यम्, वक्ष्यमाणप्रकारेण विविधभवनं वा योगं बुद्ध्यादिसर्वधर्मस्रष्टृत्वोक्तिलभ्यं प्रभवपदोक्तं वा सामर्थ्यं च तत्त्वतः याथातथ्येन वेत्ति सः अविकम्पेन निश्चलेन योगेन ध्यानयोगेन युज्यते युक्तो भवति । अत्र एतस्मिन्नर्थे संशयो न ।। ७ ।।