स्वभावजेन कौन्तेय निबद्धः स्वेन कर्मणा । कर्तुं नेच्छसि यन्मोहात् करिष्यस्यवशोऽपि तत् ।। ६० ।।

स्वभावजेन कौन्तेय निबद्धः स्वेन कर्मणा ।

कर्तुं नेच्छसि यन्मोहात् करिष्यस्यवशोऽपि तत् ।। ६० ।।

भावरत्नकोशः

गीताक्षरार्थस्तु- ईश्वरेच्छाया जीवनियोगे साधनतया स्वभावाद्युच्यते– स्वभावजेनेति ।। स्वभावः संस्कारः, तज्जनितेन स्वेन स्वकीयेन स्वस्य विहितेन कर्मणा निबद्धो नियन्त्रितः त्वं मोहाद् यद् कर्म युद्धलक्षणं कर्तुं नेच्छसि अवशोऽपि स्वानधीनो भगवदिच्छाधीनो वाऽपि तत् कर्म करिष्यसि एव ।। ६० ।।