मात्रास्पर्शास्तु कौन्तेय शीतोष्णसुखदुःखदाः । आगमापायिनोऽनित्यास्तांस्तितिक्षस्व भारत ।। १४ ।।

मात्रास्पर्शास्तु कौन्तेय शीतोष्णसुखदुःखदाः ।

आगमापायिनोऽनित्यास्तांस्तितिक्षस्व भारत ।। १४ ।।

भाष्यम्

तथाऽपि तद्दर्शनाभावादिना शोक इति चेत् नेत्याह– मात्रास्पर्शा इति ।।

भावप्रदीपिका

ननु कौमाराद्यपायेऽपि तद्देहस्यैव दर्शनादिसम्भवादशोकेऽपि देहान्तरप्राप्त्यनन्तरं तदभावा-च्छोक इत्याशङ्क्य उत्तरश्लोकमवतार्य व्याचष्टे– तथापीति ।।

भावप्रकाशिका

ननु बन्धूनां जरादिप्राप्तावपि पूर्वदेहदर्शनान्न शोकः, देहान्तरप्राप्तौ तु तददर्शनाच्छोक इत्याशङ्क्य, परिहारत्वेन उत्तरश्लोकमवतारयति– तथाऽपीत्यादिना ।

प्रमेयदीपिका

प्रकारान्तरेण शोकं शङ्कते– तथापीति ।। यद्यपि बान्धवादीनां हानिर्भविष्यतीति धिया न शोको युक्तः । उक्तविधयाऽऽत्महानेरभावात् । देहहानावपि प्रतिनिधिलाभात् । तथाऽपि तन्मरणे ममैव सुखहानिर्दुःखावाप्तिश्च भविष्यतीति धिया मे शोकः समुत्पतितः । कथम्? तद्दर्शना-भावादिना । ‘तद्’ इति बान्धवादिदेहादिपरामर्शः । आदिपदेन विकृततद्दर्शनं च गृह्यते । प्रेमास्पदानां हि दर्शनस्पर्शनालापादिकं सुखहेतुः । तेषु मृतेषु तद्दर्शनाद्यभावात् सुखहानिः। तथा तेषां छेदभेदादिदर्शनेन दुःखावाप्तिश्चेति । एतन्निषेधपूर्वकं श्लोेकमवतारयति– नेति ।।

भावरत्नकोशः

तथाऽपि इति भाष्ये प्रतियोग्याह– यद्यपीति ।। उक्तविधया जीवनाशं देहनाशं वेत्युक्त-विधया । ‘विकृत’ इत्यत्र छेदादिर्विकृतिः । ‘छेदभेदादि’ इत्यत्रावयवविश्लेषहेतुः क्रिया छेदः । भिन्नतयाऽवस्थानहेतुर्विदारणं भेदः । नेति श्रवणादाह– एतन्निषेधेति ।। तथाऽपीति कृतशङ्का-निषेधेत्यर्थः । श्लोकं मात्रास्पर्शा इति श्लोकम् । क्वचित्तु श्लोकद्वयमिति पाठः । तत्र श्लोकद्वयं ‘मात्रास्पर्शास्तु’,‘यं हि न व्यथयन्ति’ इति श्लोकद्वयमित्यर्थ इत्याहुः ।।

भावदीपिका

विकृततद्दर्शनं वेधच्छेदादिविकारयुक्तदेहदर्शनम् ।।

भाष्यम्

मीयन्त इति मात्रा विषयाः । तेषां स्पर्शाः सम्बन्धाः । त एव शीतोष्ण-सुखदुःखदाः । देहे शीतोष्णादिसम्बन्धाद्धि शीतोष्णाद्यनुभव आत्मनः। ततश्च सुखदुःखे ।।

भावप्रदीपिका

तुशब्दार्थः एवेति ।। पूर्वार्धाभिप्रायमाह– देह इति ।।

भावप्रकाशिका

तत्र तावत् पूर्वार्धं व्याचष्टे– मीयन्त इत्यादिना । तुशब्दार्थमाह– एवेति ।। अभिप्रायं कथयति– देह इत्यादिना ।। शीत उष्णः समशीतोष्णो वा एवं सुरूपः सुरसः सुगन्धः सुख-रूपी परितो देह इति देहे साक्षाद्विषयसम्बन्धः, तदुपयोगिद्वारो वा । तत एव शीतोष्णाद्यनुभव आत्मनः । ततः तस्मादनुभवात् सुखदुःखे । न हि स्वप्नजाग्रद्दुखादिकमात्मनो जडदेहसम्बन्ध-विषयानुभवं विनेत्यर्थः ।।

प्रमेयदीपिका

मीयन्ते विषया एभिरिति मात्रा इन्द्रियाणि’ इति व्याख्यानमसत् । पुराणादौ मात्रा-शब्दस्य विषये रूढत्वादित्याशयवान् व्याचष्टे– मीयन्त इति ।।

ननु गन्धरसरूपस्पर्शशब्दा विषयाः । अतो भिन्नपदत्वे द्वन्द्वत्वे वा स्पर्शानां विषयान्त-र्गतानां पुनरुक्तिव्यर्थेत्यत आह– तेषामिति ।। विषयाणाम् ।। तथाप्यनुपपत्तिः । विषयाणां स्पर्शाभावादित्यत आह– सम्बन्धा इति ।। एवं तर्हि किं षष्ठीसमासपरिग्रहणेन? भिन्न-पदत्वादावपि दोषाभावादित्यतो वाक्यं योजयति– त एवेति ।। तुशब्दस्यार्थः ‘एव’ इति। नहि विषयाणां सम्बन्धानां च पृथगेतत्कार्यं सम्भवतीति भावः ।।

ननु शीतोष्णशब्दौ विषयविशेषवचनौ । तत् कथं विषयसम्बन्धा विषयविशेषं दद्युः? कथं च साक्षात् सुखदुःखे? कश्च प्रतिसम्बन्धी? कस्मै ददति? इत्यत आह– देह इति ।। देहशब्दे-नात्रेन्द्रियाणि लक्ष्यन्ते । अनेन शीतोष्णशब्दौ सकलविषयोपलक्षकौ । विषयोक्त्या च तत्साक्षात्कारो लक्ष्यत इति लक्षितलक्षणेयम् । अनुभवद्वारैव सुखदुःखदानम्। प्रतिसम्बन्धी देहः । दानं चात्मन इत्युक्तं भवति ।। एतेन लौकिका प्रतीतिरर्जुनेन शङ्किताऽनूद्यते । तत्त-द्विषयाणां तैस्तैरिन्द्रियैर्ये ये सन्निकर्षास्तैस्तैस्तत्तद्विषयसाक्षात्कारो भवति । तत्रेष्टविषय-साक्षात्कारात् सुखं भवति । अनिष्टविषयसाक्षात्काराद्दुःखं भवतीति ।।

भावबोधः

लक्षितलणेति ।। विषयविशेषवाचकशीतोष्णपदेन सकलविषयसमुदाये लक्षितेऽपि विषय-सम्बन्धाः समस्तविषयानपि न दद्युरिति पुनरनुपपत्तौ सत्यां शीतोष्णपदस्य तत्सम्बन्ध्यनुभवे लक्षणेति लक्षितलक्षणेत्यर्थः । ननु मात्रास्पर्शा एव शीतोष्णसुखदुःखदा इत्यर्जुनेना-नाशङ्कितत्वात् तुशब्दात्परं काक्वध्याहेण निराश्रयं दूषणं कथमुच्यत इत्यत आह– एतेनेति ।। भाष्योक्तरीत्या सोपस्कारेण मात्रास्पर्शास्तु शीतोष्णसुखदुःखादा इत्यनेनेत्यर्थः । अनुवाद-प्रकारमेव दर्शयन् मात्रास्पर्शा इत्यर्थस्य लब्धमर्थमाह– तद्विषयाणामित्यादिना ।।

भावदीपः

विषयविशेषेति ।। स्पर्शरूपविषयविशेषेत्यर्थः ।। कश्च प्रतिसम्बन्धीति ।। मात्रास्पर्श-शब्दितविषयसम्बन्धानां प्रतिसम्बन्धी क इत्यर्थः ।। अनेनेति ।। देह इत्यादिभाष्येणेत्यर्थः । सकलेति ।। ‘शीतोष्ण’ इत्युक्तेरिति भावः । ‘अनुभवः’ इत्युक्तिलब्धमाह– तत्साक्षात्कार इति ।। लक्षितलक्षणेयमिति ।। विषयविशेषवाचिशीतोष्णशब्दाभ्यां रूपादिसकलविषयलक्षणा-द्वारा तदनुभवस्य लक्षणयोपपादनादिति भावः ।। एवं भाष्यं व्याख्याय ‘मात्रा’ इति मूले पूर्वार्धार्थमाह– एतेनेति ।। ‘मात्रास्पर्शाः’ इत्यर्धेन कथमनूद्यते? इत्यत आह– तत्त-द्विषयाणामिति ।।

भावरत्नकोशः

इति व्याख्यानमिति ।। तथा च शङ्करभाष्यं ‘मात्राः आभिर्मीयन्ते शब्दादय इति श्रोत्रादीनीन्द्रियाणि’ इति ।। पुराणादाविति ।।

जगद्वृक्षाश्रया ह्येषा प्रकृतिश्च गुणत्रयम् ।

 मूलं मात्राः शिफास्तस्य’ इति तात्पर्योदाहृतप्रमाणे

त्वमापस्त्वं क्षितिर्व्योम वायुर्मात्रेन्द्रियाणि च’,

देहोऽसवोऽक्षा मनवो भूतमात्रा नाऽत्मानमन्यं च विदुः परं यत्’

इति भागवतादिपुराण इत्यर्थः । अत्राद्ये वचने मात्रा विषया एव ग्राह्याः । ‘इन्द्रियाण्यस्य पत्राणि’ इति तत्रैवेन्द्रियाणां पृथगुक्तेः । द्वितीये मात्रेन्द्रियाणीति सहपाठात् । तृतीये अक्षाणां मात्राणां च पृथगभिधानात् । अतः सर्वत्र त एव व्याख्येया इति ।। रूढत्वादिति ।। प्रयोगप्राचुर्याद् योगरूढत्वादिति वाऽर्थः । तेन भाष्योक्तयोगवृत्तिविरोध इति शङ्कानवकाशः । मीयन्त इति वदन् भाष्यकारः कर्मणि ‘हुयामाश्रुभसिभ्यस्त्रन्’ इत्यौणादिकत्रन्प्रत्ययमभिप्रैतीति भावः । ‘रूपं शब्दो गन्धरसस्पर्शाश्च विषया अमी’ इति कोषोक्तेराह– ननु गन्धरसेति ।। भिन्नेति ।। मात्रा इति स्पर्शा इति च भिन्नपदत्व इत्यर्थः । द्वन्द्वत्वेति ।। मात्राश्च स्पर्शाश्चेति द्वन्द्वत्वे वेत्यर्थः । स्पर्शानां त्वगिन्द्रियग्राह्यगुणविशेषाणाम् । ‘विषयान्तर्गतानाम्’ इति हेत्वर्थगर्भम् । स्त्रीलिङ्गमात्रापरामर्शस्तेषामित्यनेन कथमित्यत आह– विषयाणामिति ।।

मात्रा विषया इति प्रकृतत्वात् पुंलिङ्गेन विषयपरामर्शो युक्त इति भावः । तथाऽपि तत्पुरुषाश्रयणेन पुनरुक्तिपरिहारेऽपि । एवं तर्हि स्पर्शशब्दस्य सम्बन्धार्थत्वे । भिन्नेति ।। मात्रा इति स्पर्शा इति भिन्नेत्यर्थः । आदिशब्देन द्वन्द्वपरिग्रहः । दोषाभावात् ‘स्पर्शाभावात्’ इत्युक्तदोषाभावात् । वाक्यार्थाघटनदोषाभावाद् वा । पृथक् प्रत्येकम् । एतत् कार्यं सुखदुःखप्रदानलक्षणं कार्यम् । अनेन भिन्नपदत्वे द्वन्द्वत्वे वा वाक्यार्थानुपपत्तिदोषाभावा-दित्युक्तमसिद्धमित्युपपादितं भवति । विषयविशेषेति ।। त्वगिन्द्रियग्राह्यस्पर्शरूपविषय-विशेषेत्यर्थः । साक्षात्सुखदुःखे ।। विषयसम्बन्धा दद्युरिति वर्तते । कश्चेति ।। मात्रास्पर्श-शब्दितविषयसम्बन्धानां प्रतिसम्बन्धी कः । सम्बन्धस्य सम्बन्धिद्वयाधीनत्वादिति भावः । कस्मा इति ।। ‘सुखदुःखदाः’ इत्यत्र दानस्य सम्प्रदानापेक्षत्वादिति भावः ।।

ननु न शरीरविषयसन्निकर्षस्य विषयानुभवहेतुत्वं, सुप्त्यादौ व्यभिचारादित्यत आह– देहशब्देनेति ।। देहगतत्वं सम्बन्ध इति भावः । ननु शीतोष्णशब्दावित्यादिना कृतचोद्यस्य भाष्येण कथं परिहार इत्यतस्तदुपपादयितुमाह– अनेनेति ।। ‘देहे शीतोष्णादि’ इति भाष्येणेत्यर्थः । शीतोष्णादीत्यत्र आदिपदसूचितमर्थं वक्तुमाह– शीतेति ।। विषयविशेष-वचनावपि शीतोष्णशब्दौ गन्धरसादिरूपसकलविषयसामान्यलक्षकावित्यर्थः । तथाऽप्यनु-पपत्तिः । विषयसम्बन्धानां विषयादातृत्वादित्यत उक्तम्– विषयोक्त्या चेति ।। सकलविषय-लक्षकशीतोष्णपदेनेत्यर्थः । ‘तत्साक्षात्कारः’ इति वदन् विषयविषयिभावं लक्षणाबीजं सम्बन्ध-मभिसन्धत्ते । लक्षितलक्षणेति ।। लक्षितार्थद्वारिका लक्षणा लक्षितलक्षणेत्यर्थः । केचित्तु लक्षिता च सा लक्षणेति कर्मधारयः । लक्षिता लक्षणायुक्ता लक्षणा लक्षितलक्षणा । भवति च शीतोष्णशब्दगता साक्षात्कारलक्षणा सकलविषयसामान्यलक्षणायुक्तेत्याहुः । कथं च साक्षात् सुखदुःखे इत्युक्तं चोद्यं परिहर्तुं ‘ततश्च’ इत्यनेन सूचितमर्थमाह– अनुभवद्वारैवेति ।। साक्षा-त्कारद्वारैवेत्यर्थः । कश्च प्रतिसम्बन्धीत्यस्योत्तरमाह– प्रतिसम्बन्धी देह इति ।। इन्द्रियाणीत्यर्थः ।।

ननु विषयेन्द्रियसम्बन्धाः विषयसाक्षात्कारद्वारा सुखादिप्रदा इति न विधिः, काक्वाऽपि निषेधानुपपत्तेः । नाप्यर्जुनेनाऽशङ्कितस्य निषेधायानुवादः । अर्जुनस्य तत्त्वज्ञानित्वेनैवंविध-शङ्कानुदयादित्यत आह– एतेनेति ।। काकुहीनेन मात्रास्पर्शा इत्यर्धेनेत्यर्थः । अनुवादप्रकारं दर्शयन् लक्षितार्थं विशदयति– तत्तदित्यादिना ।। प्रकृतशङ्कायाः ‘तथाऽपि तद्दर्शनाभावादिना’ इति कृतशङ्कायाः । तुशब्दात् परया काक्वेति । अवधारणार्थकतुशब्दगतध्वनिविकारेणेत्यर्थः । ‘काकुः स्त्रियां विकारो यः शोकभीत्यादिभिर्ध्वनेः’ इति ह्यभिधानम् ।।

भावदीपिका

विषये शब्दादौ । द्वन्द्वे ऐकपद्यमङ्गीकृत्येति शेषः ।। एवं तर्हीति ।। स्पर्शशब्दस्य सम्बन्धार्थकत्व इत्यर्थः ।। किमिति ।। ऐकपद्यमङ्गीकृत्येति शेषः ।। भिन्नपदत्वादावपीति ।। भिन्नपदत्वम्, एकपदत्वं वाऽङ्गीकृत्य द्वन्द्व एवाऽश्रीयताम् । स्पर्शपदस्य सम्बन्धार्थकत्वेन पुनरुक्तिदोषाभावादित्याशयः । ननु कथमनेनोक्तशङ्कापरिहार इत्यत आह– न हीति ।। विषयाणां सम्बन्धानां च सकाशादिति शेषः ।। एतत् कार्यम् ।। अनुभवद्वारा सुखादिरूपं कार्यम् । यदि भिन्नपदत्वमेकपदत्वेऽपि द्वन्द्वो वाऽऽश्रियेत तदा विषयाणां सम्बन्धानां च प्रत्येकमनुभवादिकारणत्वमुक्तं स्यात् । न चैवम् । इन्द्रियाद्यसम्बद्धविषयाद् विषयास्पृष्टकेवल-सम्बन्धाद् वाऽनुभवादिरूपकार्यादर्शनात् । अत ऐकपद्यमङ्गीकृत्य षष्ठीसमास एवाऽश्रयणीय इति भावः ।। साक्षात् अनुभवद्वारमन्तरेणेत्यर्थः ।। प्रतिसम्बन्धीति ।। अधिकरणमित्यर्थः । कुत्र ददति, भोगायतनं किमिति यावदिति भावः ।।

नन्विन्द्रियार्थसन्निकर्षस्यैवानुभवहेतुत्वात् कथं देहविषयसम्बन्धस्यानुभवहेतुत्वमुच्यत इत्यत आह– देहशब्देनेति ।। देहाश्रितत्वं लक्षणाबीजसम्बन्धः ।। अनेनेति ।। ‘देहे शीतोष्णादि’ इत्यादिपदप्रयोगेणेत्यर्थः ।। लक्षितलक्षणेति ।। लक्षितमर्थं द्वारीकृत्य या लक्षणा सा लक्षित-लक्षणा । अत्र हि मात्रास्पर्शानां शीतोष्णदत्वद्वारा सुखादिदत्वमुच्यते । तत्र विषयसम्बन्धानां शीतोष्णविशेषविषयद्वयदत्वस्य बाधाच्छीतोष्णशब्देन सकलविषया लक्ष्यन्ते । इदमप्यनु-पपन्नम् । विषयसम्बन्धानां समस्तविषयदत्वस्यापि बाधितत्वादतस्तेन तत्साक्षात्कारो लक्ष्यत इति लक्षितलक्षणेति भावः ।। अनुभवद्वारेति ।। मूले विवक्षितमित्यर्थः । ‘कथञ्च’ इत्यस्य परिहारोऽयम् । ननु विषयसम्बन्धा अनुभवद्वारा सुखदुखे कुत्र कस्य ददति इति प्रति-सम्बन्ध्याकाङ्क्षाया किमुत्तरमत आह– प्रतिसम्बन्धीत्यादि ।। तथाऽपि तद्दर्शनाभावादिना शोक इत्याशङ्कापरिहारस्य पूर्वार्धेऽदर्शनात् तस्य वैयर्थ्यमित्यत आह– एतेनेति ।। पूर्वार्धे-नेत्यर्थः । अनुवादप्रकारं दर्शयति– तत्तदिति ।।

भावप्रकाशः

विषया यैरिति ।। माङ्माने इत्येस्मात् हुयामाश्नुभसिभ्यस्त्रन्नित्युणादिसूत्रेण करणे त्रन् प्रत्यय इति भावः । पुराणादाविति ।। बन्धवृक्षाश्रयाह्येेषा प्रकृतिश्च गुणत्रयम् । मूलं मात्रा-शिफास्तस्येति वायुपुराणादावित्यर्थः ।। रूढत्वादिति ।। प्रसिद्धत्वादित्यर्थः ।। योगरूढत्वादिति वा । अतो न भाष्ये योगोक्तिविरोधः । भाष्ये मीयन्त इति कर्मणि त्रन् प्रत्यय इति भावः । गन्धरसेति ।। रूपंशब्दो गन्धरसस्पर्शाश्च विषया अमी इत्याद्युक्तेरिति भावः । तेषामित्यनेन स्त्रीलिङ्गमात्रापरामर्शः कथमित्यत आह– विषयाणामिति ।। शरीरविषयसन्निकर्षस्य न विषयानुभवहेतुत्वं सुप्त्य्यादौ व्यभिचारादित्यत आह– देहशब्देनेति ।। अनेनेति ।। देहे शीतोष्णादीति भाष्यवाक्येनेत्यर्थः । तत्रादिपदेन सकलविषयलक्षकत्वं सूचितम् । अनुभवपदेन तत्साक्षात्करलक्षकत्वम् । ततश्चेत्यनेनानुभवद्वारैवेत्यर्थः । सूचितः देह इति प्रतिसम्बन्धी सूचितः । आत्मन इत्यनेनात्मने दानमित्येतत् सूचितमिति विवेकः ।।

ननु सकलविषया न विषयेन्द्रियसम्बन्धजन्या इति लक्षितार्थस्याप्यनुपपत्तावाह– विषयो-क्त्या चेति ।। विषयमात्रलक्षकशीतोष्णपदेनेत्यर्थः ।। ननु विषयेन्द्रियसम्बन्धा विषयानुभवद्वारा सुखादिप्रदा इति न विधिः । तुशब्दात् परया काक्वा इति निषेधात् । नाप्यर्जुनेनाशङ्कितस्य निषेधायानुवादः । तत्त्वज्ञानित्वेनार्जुनस्यैवंविधशङ्कानुदयादित्यत आह– एतेनेति ।। मात्रा-स्पर्शा इति श्लोकार्धेनेत्यर्थः । अनुवादप्रकारमेव दर्शयन् मात्रास्पर्शा इत्यस्य लब्धार्थमाह– तत्तदित्यादिना ।।

Load More