उत्क्रामन्तं स्थितं वाऽपि भुञ्ज•नं वा गुणान्वितम् । विमूढा नानुपश्यन्ति पश्यन्ति ज्ञानचक्षुषः ।। १० ।।

उत्क्रामन्तं स्थितं वाऽपि भुञ्ज•नं वा गुणान्वितम् ।

विमूढा नानुपश्यन्ति पश्यन्ति ज्ञानचक्षुषः ।। १० ।।

भाष्यम्

तर्हि किमिति न दृश्यते? इत्यत आह– उत्क्रामन्तमित्यादिना ।।

भावप्रदीपिका

नन्वेवं सर्वत्र भुङ्क्ते, तर्हि तस्यानुपलब्धिबाध इत्याशङ्क्य, उत्तरश्लोकद्वयमवतारयति– तर्हीति ।। १० ।।

प्रमेयदीपिका

उक्तमेव किमित्युच्यते ? इति मन्दाशङ्कानिरासार्थमुत्तर-श्लोकद्वयस्य सङ्गतिमाह– तर्हीति ।। ‘यदि जीवातिरिक्तो देहे नियामकः स्यात् ’ इति शेषः । उक्तानुवादेन विमूढत्वमनुपलम्भे कारणम् न तदभाव इत्युच्यत इति भावः

।। १० ।।

भावदीपः

।। उक्तमेवेति ।। ‘विषयानुपसेवते’ इत्युक्तमेव ‘भुञ्जानं वा गुणान्वितम्’ इति किमुच्यत इत्यर्थः ।। १० ।।

भावरत्नकोशः

।। उक्तमेवेति ।। ‘विषयानुपसेवते’ इत्युक्तविषयभोजनमेव । ‘गुणान्वितं भुञ्जानम्’ इति किमुच्यत इत्यर्थः । विषयोपसेवने दुष्टविषयस्यापि भोगः स्यात् इति शङ्कानिरासार्थं पूर्वोक्तविषयसेवानुवादेन ‘भुञ्जानश्च शुभविषयमेव भुङ्क्ते, नाशुभम् ’ इति वक्तुं पुनरुक्तिरर्थवती इति विमर्शवतः सुमतेर्न पुनरुक्तिशङ्केति भावेनोक्तम्– मन्दाशङ्केति ।।

केचित्तु ‘यच्चाप्युत्क्रामतीश्वरः’ इत्युक्तम् उत्क्रामन्तम् इत्यनूद्य ‘विषयानुपसेवते’ इत्युक्तम्; ‘गुणान्वितं भुञ्जानम् इत्यनूद्य च ‘नानुपश्यन्ति’ इति दर्शनाभावोऽपि विधीयत इति स्पष्टम् अपुनरुक्तिप्रतिभासात् ‘मन्दाशङ्का इत्युक्तम्’ इत्याहुः । ‘तर्हि’ इत्यत्र प्रतियोग्याह– यदीति ।। नियामकः ‘इन्द्रियाणाम् इति शेषः । उक्तानुवादेनेति ।। अत्रानुवादप्रकारः प्राग् दर्शितोऽस्माभिः । न तदभावः देहे जीवातिरिक्तनियामकाभावः ‘कारणम् इत्यनुषङ्गः । वस्त्व-नुपलम्भो हि वस्तुनोऽभावे, वस्तुदर्शने प्रतिबन्धकभावे वा भवति । प्रकृते च न नियामकाभावः तदनुपलम्भहेतुः, किन्तु दर्शनप्रतिबन्धकं विमूढत्वमेवेति अनेन श्लोकेनोच्यत इत्यर्थः ।।

गीताक्षरार्थस्तु नन्वीश्वरस्य विषयभोगाङ्गीकारे दुष्टविषयभोगोऽपि स्यात् । किञ्च यदि देहे जीवातिरिक्त इन्द्रियनियामकः स्यात् तर्ह्यसौ तथा परिदृश्येत । न दृश्यते च । अतोऽनुप-लम्भात् नास्त्येव इति शङ्काद्वयं परिहर्तुमुच्यते– उत्क्रामन्तमित्यादिना ।। उत्क्रामन्तं जीवेन सह पूर्वदेहान्निर्गच्छन्तं स्थितं देहे जीवेन सहावस्थितं वा गुणान्वितं शुभमेव विषयं भुञ्जानं वा भगवन्तं विमूढाः विशेषेणाज्ञानिनः, मिथ्याज्ञानिनश्च नानुपश्यन्ति । अनुपलम्भादभाव एव किं नेष्यते । नैवमित्युच्यते ज्ञानचक्षुषः भगवत्प्रसादायत्तापरोक्षनिश्चयाख्यचक्षुष्मन्तस्तु पश्यन्ति इति । अत्र ‘सारत्वशुचित्वादिगुणान्वितं शुभमेव विषयं भुङ्क्ते’ इत्यनेन दुष्टभोगोऽपि स्यात् इति शङ्का, ‘विमूढा नानुपश्यन्ति’ इत्यनेन विमूढत्वम् अनुपलम्भे कारणम् न तदभावोऽनुपलम्भे कारणमिति सिद्ध्या ‘तर्हि किमित्यसौ न दृश्यते’ इति शङ्का च परिहृता बोद्धव्या ।। १० ।।