मुक्तसङ्गोऽनहंवादी धृत्युत्साहसमन्वितः । सिद्ध्यसिद्ध्योर्निर्विकारः कर्ता सात्त्विक उच्यते ।। २६ ।।

मुक्तसङ्गोऽनहंवादी धृत्युत्साहसमन्वितः ।

सिद्ध्यसिद्ध्योर्निर्विकारः कर्ता सात्त्विक उच्यते ।। २६ ।।

भावरत्नकोशः

गीताक्षरार्थस्तु अत्र गुणभेदकृतकर्तृत्रैविध्यमुच्यते– मुक्तसङ्ग इत्यादिभिस्त्रिभिः ।। मुक्तसङ्गः परित्यक्तः फलस्नेहो येन स तथा । अनहंवादी सर्वस्य स्वगतकर्तृत्वादेः भगवदधीनत्वनिश्चयादेव ‘अहं कर्ता’ इति वेदितुं शीलं यस्य नास्ति स तथोच्यते । धृतिः कर्मण्यवर्जनीयदुःखसहनम्, उत्साहः उन्नाहः, ताभ्यां समन्वितः सिद्ध्य-सिद्ध्योः कर्मफलस्य सिद्धौ असिद्धौ च निर्विकारः हर्ष विषादलक्षणविकाररहितो यः कर्ता कर्मणः स सात्त्विक उच्यते ।। २६ ।।