प्रशान्तमनसं ह्येनं योगिनं सुखमुत्तमम् । उपैति शान्तरजसं ब्रह्मभूतमकल्मषम् ।। २७ ।।

प्रशान्तमनसं ह्येनं योगिनं सुखमुत्तमम् ।

उपैति शान्तरजसं ब्रह्मभूतमकल्मषम् ।। २७ ।।

भावरत्नकोशः

उक्तयोगफलमुच्यते प्रशान्तेति । प्रकर्षेण शान्तं स्वतो विषयेष्व-प्रवृत्तं मनो यस्य तं तथोक्तम् । शान्तरजसं विगतरजोदोषम्, अत एव अकल्मषं कामक्रोधादि-दोषहीनम्, ब्रह्मभूतं ब्रह्मणि भूतं स्थितम्, योगिनं समाधिमन्तम् उत्तमं सुखमुपैति ध्यानयोगवान् उत्तमं सुखं प्राप्नोति इति श्रुत्यादौ प्रसिद्धमिति हिशब्दः ।। २७ ।।