देहिनोऽस्मिन् यथा देहे कौमारं यौवनं जरा । तथा देहान्तरप्राप्तिर्धीरस्तत्र न मुह्यति।। १३ ।।

देहिनोऽस्मिन् यथा देहे कौमारं यौवनं जरा ।

तथा देहान्तरप्राप्तिर्धीरस्तत्र न मुह्यति।। १३ ।।

भाष्यम्

देहिनो भाव एतद्भवति । तदेवासिद्धमिति चेन्न । देहिनोऽस्मिन् ।।

भावप्रदीपिका

अत्रेक्षणान्यथानुपपत्त्या देहातिरिक्तात्मसिद्धिः, कौमाराद्यपायेऽपि तदनुस्मरणेन आत्मनः स्थैर्यं च सिद्ध्यति । तद्दृष्टान्तेन मरिष्यमाणा अपि देहातिरिक्ता स्थायिनश्च, ईक्षणान्यथानु-पपत्त्यैव सिद्ध्यन्ति ।।

भावप्रकाशिका

ननु ‘आत्मनित्यत्वं देहहानिः’ इत्युक्तिरात्मसत्वे स्यात् । तदेवासिद्धम् । माना-भावाद्विचारासहत्वाच्च । तथाहि– स किं सर्वगतः? अणुः? देहमानो वा? नाद्यः । ओहप्रदेशे तद्भोगादर्शनात् । व्यञ्जकाभावाददर्शनमिति चेत् । न । देहेष्वपि सर्वेष्वदर्शनात् । सर्वेषाम् अतत्कर्मारब्धेष्वदर्शनमिति चेत् । न । सर्वगतात्मपक्षे तदतत्कर्मविभागानुपपत्तेः । अतद्देहोत्पन्नं अतत्कर्मेति चेत् । न । कर्मविभागसिद्धौ देहविभागसिद्धिः, देहविभागसिद्धौ कर्मविभाग-सिद्धिरित्यन्योन्याश्रयापत्तेः । बीजाङ्कुरयोरिव देहादृष्टयोरनादितः कार्यकारणभावोपपत्तावपि, सर्वदेहगतानां कर्मविभागे देहविभागे वा न काचिदुपपत्तिरित्येषा दिक् । अतो न सर्वगत आत्मा । न चाणुः । देहेऽप्यव्याप्तिप्रसङ्गात् । नापि तत्तद्देहमानः । सङ्कोचविकासाभ्यां विकारत्वेनानित्यत्वप्रसङ्गात् । अतो न देहातिरिक्त आत्मेति चोद्याभिप्रायः । अस्योत्तर-त्वेनोत्तरश्लोकं व्याचष्टे– देहिन इत्यादिना ।।

अत्रेक्षणान्यथानुपपत्त्यैव देहातिरिक्तात्मसिद्धेः, तस्य यथा कौमारादिकं हित्वा यौवनादि-प्राप्तौ स्थायित्वं च सिद्ध्यति तथेमं देहं हित्वा देहान्तरप्राप्तावपि ईक्षणान्यथानुपपत्त्यैव देहाति-रिक्तात्मसिद्धेस्तन्नित्यत्वमपि सिद्ध्यतीति भावः । अत्र देहान्तरप्राप्तावपीत्यनेन सर्वगतत्वादि-विचारासहत्वमपि प्रत्युक्तम् । उत्क्रान्तिगत्यागतीनामणुत्वसाधकत्वात् । न चैतावता देह-व्याप्त्यभावः । प्रदीपस्यालोकेन गुणेन गृहव्याप्तिवदात्मनश्चिद्गुणेन देहव्याप्तिसम्भवात् । उक्तं हि भगवता ‘गुणाद्वाऽऽलोकवत्’ इति ।। १३ ।।

प्रमेयदीपिका

ननु चात्र किं परिदृश्यमानदेहपक्षीकारेणानुमीयते, किं वा तदतिरिक्तदेहिपक्षीकारेण? नाद्यः । देहोत्पत्तिविनाशयोः प्रत्यक्षसिद्धत्वेन हेतोस्स्वरूपासिद्धत्वात् कालात्ययापदिष्टत्वाच्चेति स्फुटत्वान्नोक्तम् । द्वितीये दोषमाह– देहिन इति ।। देहिनः देहवतः देहातिरिक्तस्यात्मनः, भावे सद्भावे । एतत् नित्यत्वानुमानम् । भवति सम्भवति । देहपक्षोक्तदोषाभावात् । किन्तु तत् देहातिरिक्तात्मसत्त्वम् एवासिद्धम् । प्रमाणाभावात् । ततश्चाश्रयासिद्धिरिति ।।

अस्तु वा देहातिरिक्तात्मसत्त्वम् । तथाऽपि नानुमानं सम्भवतीत्याह– देहिन इति ।। ‘देहिनः’ इत्येकवचनं तन्त्रम् । तत्पूर्वोत्तरदेहेष्वेक एवायमात्मेत्यस्यार्थस्य भावे एतत् अनुमानं सम्भवति । स्वरूपासिद्ध्याद्यभावात् । किं नाम तत् पूर्वोत्तरदेहेष्वात्मैकत्वम् एवासिद्धम् । प्रमाणाभावात् । तथाच देहोत्पत्तावुत्पत्तिमतः तद्विनाशे च नाशवतः कथमनादित्वेन नित्यत्वं साध्यत इति । तदुभयस्यापि परिहारदर्शनादेवं योज्यम् । अर्थद्वयानुगुण्यायैव बहुवचने प्रकृतेऽप्येकवचनम् । तथा ‘भावे’ इति पुंलिङ्गे प्रकृतेऽपि‘तदेव’इति सामान्यग्रहणाय नपुंसकनिर्देशः । न । ‘इत्याह’ इति शेषः । ‘देहिनोऽस्मिन्’ इत्यतः परम् ‘इति’ शब्दश्च ।।

भावबोधः

उभयस्यापि परिहारदर्शनादिति ।। गीतायां यथाशब्दरहितदेहिनोऽस्मिन्निति पूर्वार्धेनैव भाष्ये च देही तदीक्षिता इत्येतावतैव देहातिरिक्तात्मसिद्धिरिति प्रथमशङ्कायाः, देहिन इति पादत्रयेण कौमारादिशरीरभेदेऽपीत्यादिना ईक्षितृत्वादित्यन्तेन समस्तभाष्यवाक्येन च पूर्वोत्तर-देहेषु अनुवर्तमानात्मैकत्वसिद्धिरिति द्वितीयशङ्कायाश्च परिहारदर्शनादित्यर्थः । देहाति-रिक्तात्मासिद्धिमात्रशङ्कापरत्वेन देहिनो भाव इति भाष्यव्याख्याने गीतायां यथा शब्दस्य तृतीयपादस्य च देही ईक्षितेति व्यतिरिक्तसमस्तभाष्यस्य च वैय्यर्थ्यं स्यादिति शङ्काद्वयपरत्वेन योजनीयमिति भावः । अत एव वक्ष्यति ‘देही तदीक्षिता सिद्ध’ इति देहातिरिक्तात्मसाधनम् इति । ‘कौमारादिग्रहणमतन्त्रम्’ इति च । ‘यथेत्यादिसमस्तं वाक्यं, श्लोके च पादत्रयमि’ति । बहुवचने प्रकृतेऽपीति । न त्वं नेमे जनाधिपाश्चेति बहुवचने प्रकृतेऽपीत्यर्थः । अनेनैकवचनं तन्त्रमित्युक्तं ज्ञापकमिति विवृतं भवति ।।

भावदीपः

तत्’ इत्यनुवादः, ‘देहातिरिक्तात्मसत्त्वम्’ इति व्याख्या । ‘आश्रयासिद्धिरिति’ इत्यनन्तरम् ‘इत्येका शङ्का’ इति शेषः ।। तदेव वाक्यमन्यथा योजयति– अस्तु वेति ।। तन्त्र-मिति ।। विवक्षितत्वेनोपात्तमित्यर्थः (विवक्षितार्थज्ञापकत्वेन इति भाव्यमिति भाति) । पूर्वोत्तरेति ।। तदीयत्वेनाभिमतपूर्वोत्तरदेहेष्वित्यर्थः ।। ‘एतत्’ इत्यनुवादः,‘अनुमानम्’ इति व्याख्या । ‘साध्यत इति’ इत्यनन्तरम् ‘अभ्यधिकाशङ्का’ इति शेषः ।। योजनाद्वये ज्ञापका-न्याह– तदुभयस्यापीति ।। ‘देहिनः’ इति श्लोके भाष्यरीत्या शङ्काद्वयपरिहारदर्शनादित्यर्थः । बहुवचन इति ।। पूर्वश्लोकस्योत्तरार्धे ।।

भावरत्नकोशः

ननु चेति निपातसमुदायो विरोधोक्तौ । विरोधमेव व्यनक्ति– देहोत्पत्तिविनाशयोरिति ।। कालात्ययापदिष्टत्वाद् बाधितसाध्यकत्वात् । द्वितीये देहिपक्षीकारपक्षे । ‘देहवतः’ इति व्याख्यानं देहोऽस्यास्तीति देही, तस्येति व्युत्पत्तिप्रदर्शनार्थम् । प्रकृतोपयोगायाह– देहाति-रिक्तस्येति ।। इनिप्रत्ययेन सम्बन्धवाचिना भेदाक्षेपादेवमुक्तिः । ‘एतद् भवति’ इति पदद्वय-मनूद्यार्थमाह– एतदनुमानं भवति सम्भवतीति ।। क्वचित्तु भवतीत्येव पाठः । तत्र भवति सम्भवतीत्यर्थः । तत्र हेतुः– देहेति ।। तत्पक्षोक्तदोषौ स्वरूपासिद्धिकालात्ययापदिष्टत्वे । आत्मनित्यत्वस्य प्रत्यक्षबाधाभावादिति भावः । भाष्यपदमनूद्य व्याचष्टे– तद्देहेति ।। किमतः प्रकृतानुमानदूषणमित्यत आह– ततश्चेति ।।

एतदेव भाष्यं प्रकारान्तरेणावतारयति– अस्तु वेति ।। तन्त्रं विवक्षितार्थम् । तद्विवक्षया लब्धमर्थमाह– तत्पूर्वोत्तरदेहेति । सम्भवहेतुः स्वरूपेति ।। बाध आदिपदार्थः । तर्ह्यनुमानं निष्प्रत्यूहमिति पृच्छति– किं नामेति ।। परिहरति तदिति ।। देहपक्ष इव स्वरूपासिद्धि-बाधयोरनिवारणाभिप्रायेणाऽह– कथमिति ।। उभयस्यापि परिहारदर्शनादिति ।। देहाति-रिक्तात्मसत्त्वमेवासिद्धमित्याद्यचोद्यस्य ‘देही तदीक्षिता सिद्धः’ इति भाष्ये परिहारदर्शनात् पूर्वोत्तरदेहेष्वात्मैकत्वमेवासिद्धमिति द्वितीयचोद्यस्य ‘यथा कौमारादि’ इति समस्तभाष्ये श्लोके च पादत्रये देहभेदेऽप्यात्मैकत्वमस्तीति परिहारदर्शनाद् गमनिकाभाष्यमुक्तरीत्या द्वेधा योज्यमित्यर्थः । अत्र ज्ञापकमाह– अर्थद्वयेति ।। देहातिरिक्त आत्मा, पूर्वोत्तरदेहेष्वेक एवाऽत्मेत्यर्थद्वयेत्यर्थः । बहुवचने, ‘त्वमेते जनाधिपाः’ इति पूर्वश्लोके । एकवचनं, देहिन इत्येकवचनम् । तच्च तन्त्रमिति पूर्वोत्तरदेहेष्वेको देही सिद्ध्यतीति तन्नित्यत्वलाभ इति भावः । सामान्येति । प्रकरणात् स एवासिद्ध इति वक्तव्येऽपि यत् तदित्याह– तत् ‘सामान्ये नपुंसकम्’ इति न्यायात् सामान्यग्रहणाय । सामान्यं चानेकापेक्षम् । अनेकं च देहाति-रिक्तात्मसत्त्वं पूर्वोत्तरदेहेष्वात्मैकत्वं च ग्राह्यमिति युक्तमुक्तव्याख्यानमिति भावः । इतिशब्दश्च ।। शेष इति वर्तते ।।

भावदीपिका

देहातिरिक्तस्येति ।। मतुबर्थसम्बन्धस्य भेदसापेक्षत्वादित्यर्थः ।। देहपक्षोक्तेति ।। देहपक्षकानुमानोक्तस्वरूपासिद्ध्यादिदोषेत्यर्थः ।। तन्त्रमिति ।। ‘तन्त्रं साधनमुद्दिष्टं तन्त्रं ज्ञापकमेव च’ इत्येकादशतात्पर्योक्तेस्तन्त्रं नाम विवक्षितार्थज्ञापकमित्यर्थः । पूर्वयोजनाया-मेकवचने न भरः अत्र तस्मिन् भर इत्याशयः । पूर्वोत्तरदेहेषु विद्यमान इति शेषः । देहिन इत्येकवचनाभिप्रायमाह– एक एवेति ।। आदिपदेन कालात्ययापदिष्टादिग्रहणम् ।। देहोत्पत्ता-विति ।। जिनेन कायपरिमाणत्वाङ्गीकारादिति भावः । कुत एवमुभयथा भाष्ययोजनेत्यत आह– उभयस्यापीति ।। देहातिरिक्त आत्मैव नास्ति । सत्त्वेऽपि पूर्वोत्तरदेहेषु विद्यमानो नैक इति शङ्काद्वयस्यापीत्यर्थः ।। परिहारेति ।। ‘देही तदीक्षिता सिद्ध’ इति देहातिरिक्तात्मसाधनम् । समस्तभाष्यं श्लोके च पादत्रयं पूर्वोत्तरदेहेषु स्थितस्य देहिन एकत्वसाधनमिति द्रष्टव्यम् ।।

ननु ‘इमे जनाधिपा’ इति बहुवचनानुसारेण देहिनां भाव इत्येव वक्तव्यम् । तथा चास्तु वेत्युक्तद्वितीययोजनाज्ञापकं नास्त्येवेत्यत आह– अर्थद्वयेति ।। अनेन देहिन इत्येकवचनं तन्त्रमित्युक्तं विवृतं भवति ।। ज्ञापकान्तरं चाऽह– तथेति ।। प्रकृतेऽपीति ।। तथा च स एवासिद्ध इति वाच्यमित्याशयः ।। सामान्येति ।। द्वितीययोजनायां पूर्वोत्तरदेहेषु आत्मैकत्व-परामर्शज्ञापनायैव ‘सामान्ये नपुंसकम्’ इत्यङ्गीकृत्य तदेवेत्युक्तमिति भावः ।।

भावप्रकाशः

देहवत इति व्याख्यानेऽपि न प्रकृतोपयोगसिद्धिरित्यत आह– देहातिरिक्तस्येति ।। देहीतीनिप्रत्ययेन सम्बन्धवाचिना भेदाक्षेपादिति भावः ।। तन्त्रमिति ।। विवक्षितमित्यर्थे एवकवचनं बोध्यम् । यत्पूर्वोत्तरदेहेषु एक एवात्मेत्येकत्वं तज्ज्ञापनाख्यफलस्य सत्त्वादिति भावः ।। स्वरूपासिद्ध्यादीति ।। आदिपदात् कालात्ययापदिष्टत्वसङ्ग्रहः ।। उभयस्यापीति ।।

यथाशब्दशून्येन देहिन इति पूर्वार्द्धेन देहीक्षितेत्येतावन्मात्रेण भाष्येण चाद्यशङ्काया देहिन इति पादत्रयेण यथा कौमारादिशरीरभेदेपीत्यादिसमग्रभाष्येण च द्वितीयशङ्कायाः परिहारदर्शना-दित्यर्थः। विस्तरस्तु भावबोधे ज्ञेयः ।। बहुवचन इति ।। त्वमेते जनाधिपाश्चेति बहुवचन इत्यर्थः ।।

Load More