समोऽहं सर्वभूतेषु न मे द्वेष्योऽस्ति न प्रियः । ये भजन्ति तु मां भक्त्या मयि ते तेषु चाप्यहम् ।। २९ ।।

समोऽहं सर्वभूतेषु न मे द्वेष्योऽस्ति न प्रियः ।

ये भजन्ति तु मां भक्त्या मयि ते तेषु चाप्यहम् ।। २९ ।।

भाष्यम्

तर्हि स्नेहादिमत्त्वाद् अल्पभक्तस्यापि कस्यचिद् बहुफलं ददासि । विपरीतस्यापि कस्यचिद् विपरीतमित्यत आह– समोऽहमिति ।। तर्हि न भक्तिप्रयोजनमित्यत आह– ये भजन्तीति ।।

भावप्रदीपिका

ननु यदि भक्तप्रियः, तर्हि भक्तानां फलं ददासि द्वेषिणां दुःखमिति वैषम्यनैर्घृण्ये तव स्यातामित्याशङ्क्य, श्लोकार्धमवतारयति– तर्हीति ।। यदि त्वं समः, तर्हि भक्तेरप्रयोजकत्वमित्याशङ्क्य, उत्तरार्धमवतारयति– तर्हीति ।। अयमेव समत्वार्थ इत्यर्थः ।।

प्रमेयदीपिका

भक्तप्रियत्वमुक्त्वा तद्विरुद्धं सर्वत्र साम्यं कथमुच्यते ? इत्यत आह– तर्हीति ।। यदि त्वं भक्तप्रियस्तदा द्वेष्यप्रियश्च स्याः । ततश्च भक्तेषु द्वेषिषु यथासङ्ख्यं स्नेहद्वेषवत्त्वात् अल्पभक्तस्यापि कस्यचित् बहुफलं सुखरूपं ददासि । विपरीतस्य अल्पद्वेषिणः अपि कस्यचित् बहुफलं दुःखरूपं ददासि इत्याद्यापाद्यते । राजादिषु तथा दर्शनात् । तथा च वैषम्यनैर्घृण्ये तवेति शङ्कार्थः । पूर्वार्धेनैव शङ्कायाः परिहृतत्वात् किमुत्तरार्धेन ? इत्यत आह– तर्हीति ।।

अहं हि सर्वभूतेषु समः न वैषम्यादिमान् यतो मे तदीयं द्वेषमपेक्ष्याधिकं द्वेष्यो नास्ति । तदीयां भक्तिमपेक्ष्याधिकं प्रियश्च नास्तीति भगवतोक्तेऽपि विपरीतमर्थं गृहीत्वा शङ्कते । यदि ते प्रियो नास्ति तर्हि न भक्तिः प्रयोजनं फलस्य । तथा चोक्तविरोध इति भावः ।।

भावबोधः

भक्तेर्विष्णुप्रीतिद्वारा मोक्षसाधनत्वेन यदि तेन प्रियो नास्ति तर्हि न भक्तिः प्रयोजिकेति वक्तव्यमित्यत आह– प्रयोजनं फलस्येति ।। प्रयुज्यते येन तत्प्रयोजनमित्यर्थः ।। २९ ।।

भावदीपः

।। उक्तेति ।। भक्तेरेव साधनोपायत्वं यदुक्तं तद्विरोध इत्यर्थः ।।

भावप्रकाशः

।। विपरीतमर्थमिति ।। सर्वथा द्वेष्यः प्रियश्च नास्तीति विपरीतमित्यर्थः । ननु भक्तेः प्रयोजनत्वाभावस्य परं प्रति सिद्धत्वात् तत्कथनमयुक्तम् । अप्राप्ते शास्त्रमर्थवदिति न्यायादित्यत आह– प्रयोजनं फलस्येति ।। करणव्युत्पन्नोऽयं प्रयोजनशब्द इति भावः । यच्छब्दश्रवणादबुद्धिपूर्वं योऽवशमित्यतः परमध्याहार्यमाह– यौ वशः स इति ।। २९ ।।

Load More