अधर्मं धर्ममिति या मन्यते तमसाऽऽवृता । सर्वार्थान् विपरीतांश्च बुद्धिः सा पार्थ तामसी ।। ३२ ।।

अधर्मं धर्ममिति या मन्यते तमसाऽऽवृता ।

सर्वार्थान् विपरीतांश्च बुद्धिः सा पार्थ तामसी  ।। ३२ ।।

भावरत्नकोशः

गीताक्षरार्थस्तु अधर्ममिति ।। या बुद्धिः अधर्मं वेदप्रतिषिद्धं धर्मं वेदविहितम् इति मन्यते इति । अत्र धर्मशब्दो नपुंसकलिङ्गः ‘स्याद्धर्ममस्त्रियाम्’ इत्यभि-धानात् । तथा च ततः इतिशब्दो नानुचितः । किञ्च तमसाऽऽवृता सती सर्वार्थान् विपरीतान् स्वाकारविपरीताकारान् मन्यते सा बुद्धिः तामसी । अत्र बुद्धिः अन्तःकरणम् पूर्वोक्तज्ञानं तु तद्वृत्तिः । तेन मनआदीनाम् इन्द्रियाणामपि त्रैविध्यमुक्तप्रायमिति मन्तव्यमिति विवृतिकृतः

।। ३२ ।।