मय्यासक्तमनाः पार्थ योगं युञ्जन्मदाश्रयः

॥ श्रीमद्-भगवद्गीता शाङ्कर-भाष्यम् ॥ ॥ सप्तमोऽध्यायः ॥``योगिनामपि सर्वेषां मद्गतेनान्तरात्मना । श्रद्धावान्भजते यो मांस मे युक्ततमो मतः'' (भ. गी. ६-४७) इति प्रश्नबीजं उपन्यस्य,स्वयमेव ``ईदृशं मदीयं तत्त्वम्, एवं मद्गतान्तरात्मा स्यात्''इत्येतत् विवक्षुः श्रीभगवानुवाच --

श्रीभगवानुवाच --

मय्यासक्तमनाः पार्थ योगं युञ्जन्मदाश्रयः ।

असंशयं समग्रं मां यथा ज्ञास्यसि तच्छृणु ॥ ७-१॥

मयि वक्ष्यमाणविशेषणे परमेश्वरे आसक्तं मनः यस्य सःमय्यासक्तमनाः, हे पार्थ योगं युञ्जन् मनःसमाधानं कुर्वन्,मदाश्रयः अहमेव परमेश्वरः आश्रयो यस्य सः मदाश्रयः ।यो हि कश्चित् पुरुषार्थेन केनचित् अर्थी भवति स तत्साधनंकर्म अग्निहोत्रादि तपः दानं वा किञ्चित् आश्रयं प्रतिपद्यते, अयंतु योगी मामेव आश्रयं प्रतिपद्यते, हित्वा अन्यत् साधनान्तरं मय्येवआसक्तमनाः भवति । यः त्वं एवम्भूतः सन् असंशयं समग्रं समस्तंविभूतिबलशक्त्यैश्वर्यादिगुणसम्पन्नं मां यथा येन प्रकारेण ज्ञास्यसिसंशयमन्तरेण ``एवमेव भगवान्'' इति, तत् श‍ृणु उच्यमानंमया ॥ तच्च मद्विषयं --

ज्ञानं तेऽहं सविज्ञानमिदं वक्ष्याम्यशेषतः ।

यज्ज्ञात्वा नेह भूयोऽन्यज्ज्ञातव्यमवशिष्यते ॥ ७-२॥

ज्ञानं ते तुभ्यं अहं सविज्ञानं विज्ञानसहितं स्वानुभवयुक्तं इदंवक्ष्यामि कथयिष्यामि अशेषतः कार्त्स्न्येन । तत् ज्ञानं विवक्षितं स्तौतिश्रोतुः अभिमुखीकरणाय -- यत् ज्ञात्वा यत् ज्ञानं ज्ञात्वा न इह भूयःपुनः अन्यत् ज्ञातव्यं पुरुषार्थसाधनं अवशिष्यते नावशिष्टं भवति ।इति मत्तत्त्वज्ञो यः, सः सर्वज्ञो भवतीत्यर्थः । अतो विशिष्टफलत्वात्दुर्लभं ज्ञानम् ॥ कथमित्युच्यते --

मनुष्याणां सहस्रेषु कश्चिद्यतति सिद्धये ।

यततामपि सिद्धानां कश्चिन्मां वेत्ति तत्त्वतः ॥ ७-३॥

मनुष्याणां मध्ये सहस्रेषु अनेकेषु कश्चित् यतति प्रयत्नं करोतिसिद्धये सिद्ध्यर्थम् । तेषां यततामपि सिद्धानाम्, सिद्धा एव हि ते येमोक्षाय यतन्ते, तेषां कश्चित् एव हि मां वेत्ति तत्त्वतः यथावत् ॥श्रोतारं प्ररोचनेन अभिमुखीकृत्याह --

भूमिरापोऽनलो वायुः खं मनो बुद्धिरेव च ।

अहङ्कार इतीयं मे भिन्ना प्रकृतिरष्टधा ॥ ७-४॥

भूमिः इति पृथिवीतन्मात्रमुच्यते, न स्थूला, ``भिन्नाप्रकृतिरष्टधा'' इति वचनात् । तथा अबादयोऽपि तन्मात्राण्येवउच्यन्ते -- आपः अनलः वायुः खम् । मनः इति मनसः कारणमहङ्कारोगृह्यते । बुद्धिः इति अहङ्कारकारणं महत्तत्त्वम् । अहङ्कारः इतिअविद्यासंयुक्तमव्यक्तम् । यथा विषसंयुक्तमन्नं विषमित्युच्यते,एवमहङ्कारवासनावत् अव्यक्तं मूलकारणमहङ्कार इत्युच्यते, प्रवर्तकत्वात्अहङ्कारस्य । अहङ्कार एव हि सर्वस्य प्रवृत्तिबीजं दृष्टं लोके ।इतीयं यथोक्ता प्रकृतिः मे मम ऐश्वरी मायाशक्तिः अष्टधा भिन्नाभेदमागता ॥

अपरेयमितस्त्वन्यां प्रकृतिं विद्धि मे पराम् ।

जीवभूतां महाबाहो ययेदं धार्यते जगत् ॥ ७-५॥

अपरा न परा निकृष्टा अशुद्धा अनर्थकरी संसारबन्धनात्मिका इयम् ।इतः अस्याः यथोक्तायाः तु अन्यां विशुद्धां प्रकृतिं मम आत्मभूतां विद्धिमे परां प्रकृष्टां जीवभूतां क्षेत्रज्ञलक्षणां प्राणधारणनिमित्तभूतांहे महाबाहो, यया प्रकृत्या इदं धार्यते जगत् अन्तः प्रविष्टया ॥

एतद्योनीनि भूतानि सर्वाणीत्युपधारय ।

अहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथा ॥ ७-६॥

एतद्योनीनि एते परापरे क्षेत्रक्षेत्रज्ञलक्षणे प्रकृती योनिः येषांभूतानां तानि एतद्योनीनि, भूतानि सर्वाणि इति एवं उपधारय जानीहि । यस्मात्मम प्रकृती योनिः कारणं सर्वभूतानाम्, अतः अहं कृत्स्नस्य समस्तस्यजगतः प्रभवः उत्पत्तिः प्रलयः विनाशः तथा । प्रकृतिद्वयद्वारेणअहं सर्वज्ञः ईश्वरः जगतः कारणमित्यर्थः ॥ यतः तस्मात् --

मत्तः परतरं नान्यत्किञ्चिदस्ति धनञ्जय ।

मयि सर्वमिदं प्रोतं सूत्रे मणिगणा इव ॥ ७-७॥

मत्तः परमेश्वरात् परतरं अन्यत् कारणान्तरं किञ्चित् नास्ति न विद्यते,अहमेव जगत्कारणमित्यर्थः, हे धनञ्जय । यस्मादेवं तस्मात् मयिपरमेश्वरे सर्वाणि भूतानि सर्वमिदं जगत् प्रोतं अनुस्यूतं अनुगतम्अनुविद्धं ग्रथितमित्यर्थ, दीर्घतन्तुषु पटवत्, सूत्रे च मणिगणाइव ॥ केन केन धर्मेण विशिष्टे त्वयि सर्वमिदं प्रोतमित्युच्यते --

रसोऽहमप्सु कौन्तेय प्रभास्मि शशिसूर्ययोः ।

प्रणवः सर्ववेदेषु शब्दः खे पौरुषं नृषु ॥ ७-८॥

रसः अहम्, अपां यः सारः स रसः, तस्मिन् रसभूते मयि आपः प्रोता इत्यर्थः ।एवं सर्वत्र । यथा अहं अप्सु रसः, एवं प्रभा अस्मि शशिसूर्ययोः ।प्रणवः ओङ्कारः सर्ववेदेषु, तस्मिन् प्रणवभूते मयि सर्वे वेदाः प्रोताः ।तथा खे आकाशे शब्दः सारभूतः, तस्मिन् मयि खं प्रोतम् । तथा पौरुषंपुरुषस्य भावः पौरुषं यतः पुम्बुद्धिः नृषु, तस्मिन् मयि पुरुषाःप्रोताः ॥

पुण्यो गन्धः पृथिव्यां च तेजश्चास्मि विभावसौ ।

जीवनं सर्वभूतेषु तपश्चास्मि तपस्विषु ॥ ७-९॥

पुण्यः सुरभिः गन्धः पृथिव्यां च अहम्, तस्मिन् मयि गन्धभूतेपृथिवी प्रोता । पुण्यत्वं गन्धस्य स्वभावत एव पृथिव्यां दर्शितम्अबादिषु रसादेः पुण्यत्वोपलक्षणार्थम् । अपुण्यत्वं तु गन्धादीनाम्अविद्याधर्माद्यपेक्षं संसारिणां भूतविशेषसंसर्गनिमित्तं भवति ।तेजश्च दीप्तिश्च अस्मि विभावसौ अग्नौ । तथा जीवनं सर्वभूतेषु,येन जीवन्ति सर्वाणि भूतानि तत् जीवनम् । तपश्च अस्मि तपस्विषु, तस्मिन्तपसि मयि तपस्विनः प्रोताः ॥

बीजं मां सर्वभूतानां विद्धि पार्थ सनातनम् ।

बुद्धिर्बुद्धिमतामस्मि तेजस्तेजस्विनामहम् ॥ ७-१०॥

बीजं प्ररोहकारणं मां विद्धि सर्वभूतानां हे पार्थ सनातनं चिरन्तनम् ।किञ्च, बुद्धिः विवेकशक्तिः अन्तःकरणस्य बुद्धिमतां विवेकशक्तिमताम्अस्मि, तेजः प्रागल्भ्यं तद्वतां तेजस्विनां अहम् ॥

बलं बलवतां चाहं कामरागविवर्जितम् ।

धर्माविरुद्धो भूतेषु कामोऽस्मि भरतर्षभ ॥ ७-११॥

बलं सामर्थ्यं ओजो बलवतां अहम्, तच्च बलं कामरागविवर्जितम्,कामश्च रागश्च कामरागौ -- कामः तृष्णा असन्निकृष्टेषुविषयेषु, रागो रञ्जना प्राप्तेषु विषयेषु -- ताभ्यां कामरागाभ्यांविवर्जितं देहादिधारणमात्रार्थं बलं सत्त्वमहमस्मि ; न तु यत्संसारिणांतृष्णारागकारणम् । किञ्च -- धर्माविरुद्धः धर्मेण शास्त्रार्थेनअविरुद्धो यः प्राणिषु भूतेषु कामः, यथा देहधारणमात्राद्यर्थःअशनपानादिविषयः, स कामः अस्मि हे भरतर्षभ ॥ किञ्च --

ये चैव सात्त्विका भावा राजसास्तमसाश्च ये ।

मत्त एवेति तान्विद्धि न त्वहं तेषु ते मयि ॥ ७-१२॥

ये चैव सात्त्विकाः सत्त्वनिर्वृत्ताः भावाः पदार्थाः, राजसाःरजोनिर्वृत्ताः, तामसाः तमोनिर्वृत्ताश्च, ये केचित् प्राणिनां स्वकर्मवशात्जायन्ते भावाः, तान् मत्त एव जायमानान् इति एवं विद्धि सर्वान्  समस्तानेव ।यद्यपि ते मत्तः जायन्ते, तथापि न तु अहं तेषु तदधीनः तद्वशः,यथा संसारिणः । ते पुनः मयि मद्वशाः मदधीनाः ॥ एवम्भूतमपिपरमेश्वरं नित्यशुद्धबुद्धमुक्तस्वभावं सर्वभूतात्मानं निर्गुणंसंसारदोषबीजप्रदाहकारणं मां नाभिजानाति जगत् इति अनुक्रोशं दर्शयतिभगवान् । तच्च किन्निमित्तं जगतः अज्ञानमित्युच्यते --

त्रिभिर्गुणमयैर्भावैरेभिः सर्वमिदं जगत् ।

मोहितं नाभिजानाति मामेभ्यः परमव्ययम् ॥ ७-१३॥

त्रिभिः गुणमयैः गुणविकारैः रागद्वेषमोहादिप्रकारैः भावैः पदार्थैःएभिः यथोक्तैः सर्वं इदं प्राणिजातं जगत् मोहितं अविवेकितामापादितं सत् नअभिजानाति माम्, एभ्यः यथोक्तेभ्यः गुणेभ्यः परं व्यतिरिक्तं विलक्षणंच अव्ययं व्ययरहितं जन्मादिसर्वभावविकारवर्जितं इत्यर्थः ॥ कथंपुनः दैवीं एतां त्रिगुणात्मिकां वैष्णवीं मायामतिक्रामति इत्युच्यते --

दैवी ह्येषा गुणमयी मम माया दुरत्यया ।

मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते ॥ ७-१४॥

दैवी देवस्य मम ईश्वरस्य विष्णोः स्वभावभूता हि यस्मात् एषा यथोक्तागुणमयी मम माया दुरत्यया दुःखेन अत्ययः अतिक्रमणं यस्याः सा दुरत्यया ।तत्र एवं सति सर्वधर्मान् परित्यज्य मामेव मायाविनं स्वात्मभूतंसर्वात्मना ये प्रपद्यन्ते ते मायां एतां सर्वभूतमोहिनीं तरन्ति अतिक्रामन्ति; ते संसारबन्धनात् मुच्यन्ते इत्यर्थः ॥ यदि त्वां प्रपन्नाः मायामेतांतरन्ति, कस्मात् त्वामेव सर्वे न प्रपद्यन्ते इत्युच्यते --

न मां दुष्कृतिनो मूढाः प्रपद्यन्ते नराधमाः ।

माययापहृतज्ञाना आसुरं भावमाश्रिताः ॥ ७-१५॥

न मां परमेश्वरं नारायणं दुष्कृतिनः पापकारिणः मूढाःप्रपद्यन्ते नराधमाः नराणां मध्ये अधमाः   निकृष्टाः । ते च माययाअपहृतज्ञानाः सम्मुषितज्ञानाः आसुरं भावं हिंसानृतादिलक्षणम्आश्रिताः ॥ ये पुनर्नरोत्तमाः पुण्यकर्माणः --

चतुर्विधा भजन्ते मां जनाः सुकृतिनोऽर्जुन ।

आर्तो जिज्ञासुरर्थार्थी ज्ञानी च भरतर्षभ ॥ ७-१६॥

चतुर्विधाः चतुःप्रकाराः भजन्ते सेवन्ते मां जनाः सुकृतिनःपुण्यकर्माणः हे अर्जुन । आर्तः आर्तिपरिगृहीतः तस्करव्याघ्ररोगादिनाअभिभूतः आपन्नः, जिज्ञासुः भगवत्तत्त्वं ज्ञातुमिच्छति यः, अर्थार्थीधनकामः, ज्ञानी विष्णोः तत्त्वविच्च हे भरतर्षभ ॥

तेषां ज्ञानी नित्ययुक्त एकभक्तिर्विशिष्यते ।

प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः ॥ ७-१७॥

तेषां चतुर्णां मध्ये ज्ञानी तत्त्ववित् तत्त्ववित्त्वात् नित्ययुक्तः भवतिएकभक्तिश्च, अन्यस्य भजनीयस्य अदर्शनात् ; अतः स एकभक्तिःविशिष्यते विशेषं आधिक्यं आपद्यते, अतिरिच्यते इत्यर्थः । प्रियो हियस्मात् अहं आत्मा ज्ञानिनः, अतः तस्य अहं अत्यर्थं प्रियः ; प्रसिद्धं हिलोके ``आत्मा प्रियो भवति'' इति । तस्मात् ज्ञानिनः आत्मत्वात् वासुदेवःप्रियो भवतीत्यर्थः । स च ज्ञानी मम वासुदेवस्य आत्मैवेति मम अत्यर्थंप्रियः ॥ न तर्हि आर्तादयः त्रयः वासुदेवस्य प्रियाः ? ; किं तर्हि ?--

उदाराः सर्व एवैते ज्ञानी त्वात्मैव मे मतम् ।

आस्थितः स हि युक्तात्मा मामेवानुत्तमां गतिम् ॥ ७-१८॥

उदाराः उत्कृष्टाः सर्व एव एते, त्रयोऽपि मम प्रिया एवेत्यर्थः । न हिकश्चित् मद्भक्तः मम वासुदेवस्य अप्रियः भवति । ज्ञानी तु अत्यर्थंप्रियो भवतीति विशेषः । तत् कस्मात् इत्यत आह -- ज्ञानी तु आत्मैवन अन्यो मत्तः इति मे मम मतं निश्चयः । आस्थितः आरोढुं प्रवृत्तःसः ज्ञानी हि यस्मात् ``अहमेव भगवान् वासुदेवः न अन्योऽस्मि''इत्येवं युक्तात्मा समाहितचित्तः सन् मामेव परं ब्रह्म गन्तव्यं अनुत्तमांगन्तुं प्रवृत्त इत्यर्थः ॥ ज्ञानी पुनरपि स्तूयते --

बहूनां जन्मनामन्ते ज्ञानवान्मां प्रपद्यते ।

वासुदेवः सर्वमिति स महात्मा सुदुर्लभः ॥ ७-१९॥

बहूनां जन्मनां ज्ञानार्थसंस्काराश्रयाणां अन्ते समाप्तौ ज्ञानवान्प्राप्तपरिपाकज्ञानः मां वासुदेवं प्रत्यगात्मानं प्रत्यक्षतःप्रपद्यते । कथम् ? वासुदेवः सर्वं इति । यः एवं सर्वात्मानं मांनारायणं प्रतिपद्यते, सः महात्मा ; न तत्समः अन्यः अस्ति, अधिको वा ।अतः सुदुर्लभः, ``मनुष्याणां सहस्रेषु'' (भ. गी. ७-३) इति हिउक्तम् ॥ आत्मैव सर्वो वासुदेव इत्येवमप्रतिपत्तौ कारणमुच्यते --

कामैस्तैस्तैर्हृतज्ञानाः प्रपद्यन्तेऽन्यदेवताः ।

तं तं नियममास्थाय प्रकृत्या नियताः स्वया ॥ ७-२०॥

कामैः तैस्तैः पुत्रपशुस्वर्गादिविषयैः हृतज्ञानाःअपहृतविवेकविज्ञानाः प्रपद्यन्ते अन्यदेवताः प्राप्नुवन्ति वासुदेवात् आत्मनःअन्याः देवताः ; तं तं नियमं देवताराधने प्रसिद्धो यो यो नियमः तंतं आस्थाय आश्रित्य प्रकृत्या स्वभावेन जन्मान्तरार्जितसंस्कारविशेषेणनियताः नियमिताः स्वया आत्मीयया ॥ तेषां च कामीनां --

यो यो यां यां तनुं भक्तः श्रद्धयार्चितुमिच्छति ।

तस्य तस्याचलां श्रद्धां तामेव विदधाम्यहम् ॥ ७-२१॥

यः यः कामी यां यां देवतातनुं श्रद्धया संयुक्तः भक्तश्च सन्अर्चितुं पूजयितुं इच्छति, तस्य तस्य कामिनः अचलां स्थिरां श्रद्धांतामेव विदधामि स्थिरीकरोमि ॥ यथैव पूर्वं प्रवृत्तः स्वभावतो यःयां देवतातनुं श्रद्धया अर्चितुं इच्छति --

स तया श्रद्धया युक्तस्तस्या राधनमीहते ।

लभते च ततः कामान्मयैव विहितान्हि तान् ॥ ७-२२॥

स तया मद्विहितया श्रद्धया युक्तः सन् तस्याः देवतातन्वाः राधनम्आराधनं ईहते चेष्टते । लभते च ततः तस्याः आराधितायाः देवतातन्वाःकामान् ईप्सितान् मयैव परमेश्वरेण सर्वज्ञेन कर्मफलविभागज्ञतयाविहितान् निर्मितान् तान्, हि यस्मात् ते भगवता विहिताः कामाः तस्मात् तान्अवश्यं लभते इत्यर्थः । ``हितान्'' इति पदच्छेदे हितत्वंकामानामुपचरितं कल्प्यम् ; न हि कामा हिताः कस्यचित् ॥ यस्मात्अन्तवत्साधनव्यापारा अविवेकिनः कामिनश्च ते, अतः --

अन्तवत्तु फलं तेषां तद्भवत्यल्पमेधसाम् ।

देवान्देवयजो यान्ति मद्भक्ता यान्ति मामपि ॥ ७-२३॥

अन्तवत् विनाशि तु फलं तेषां तत् भवति अल्पमेधसां अल्पप्रज्ञानाम् ।देवान्देवयजो यान्ति देवान् यजन्त इति देवयजः, ते देवान् यान्ति, मद्भक्तायान्ति मामपि । एवं समाने अपि आयासे मामेव न प्रपद्यन्ते अनन्तफलाय,अहो खलु कष्टं वर्तन्ते, इत्यनुक्रोशं दर्शयति भगवान् ॥ किन्निमित्तंमामेव न प्रपद्यन्ते इत्युच्यते --

अव्यक्तं व्यक्तिमापन्नं मन्यन्ते मामबुद्धयः ।

परं भावमजानन्तो ममाव्ययमनुत्तमम् ॥ ७-२४॥

अव्यक्तं अप्रकाशं व्यक्तिं आपन्नं प्रकाशं गतं इदानीं मन्यन्तेमां नित्यप्रसिद्धमीश्वरमपि सन्तं अबुद्धयः अविवेकिनः परं भावंपरमात्मस्वरूपं अजानन्तः अविवेकिनः मम अव्ययं व्ययरहितं अनुत्तमंनिरतिशयं मदीयं भावमजानन्तः मन्यन्ते इत्यर्थः ॥ तदज्ञानंकिन्निमित्तमित्युच्यते --

नाहं प्रकाशः सर्वस्य योगमायासमावृतः ।

मूढोऽयं नाभिजानाति लोको मामजमव्ययम् ॥ ७-२५॥

न अहं प्रकाशः सर्वस्य लोकस्य, केषाञ्चिदेव मद्भक्तानां प्रकाशःअहमित्यभिप्रायः । योगमायासमावृतः योगः गुणानां युक्तिः घटनंसैव माया योगमाया, तया योगमायया समावृतः, सञ्छन्नः इत्यर्थः ।अत एव मूढो लोकः अयं न अभिजानाति मां अजं अव्ययम् ॥ यया योगमाययासमावृतं मां लोकः नाभिजानाति, नासौ योगमाया मदीया सती मम ईश्वरस्यमायाविनो ज्ञानं प्रतिबध्नाति, यथा अन्यस्यापि मायाविनःमायाज्ञानं तद्वत् ॥ यतः एवम्, अतः --

वेदाहं समतीतानि वर्तमानानि चार्जुन ।

भविष्याणि च भूतानि मां तु वेद न कश्चन ॥ ७-२६॥

अहं तु वेद जाने समतीतानि समतिक्रान्तानि भूतानि, वर्तमानानि च अर्जुन,भविष्याणि च भूतानि वेद अहम् । मां तु वेद न कश्चन मद्भक्तंमच्छरणं एकं मुक्त्वा ; मत्तत्त्ववेदनाभावादेव न मां भजते ॥ केनपुनः मत्तत्त्ववेदनप्रतिबन्धेन प्रतिबद्धानि सन्ति जायमानानि सर्वभूतानिमां न विदन्ति इत्यपेक्षायामिदमाह --

इच्छाद्वेषसमुत्थेन द्वन्द्वमोहेन भारत ।

सर्वभूतानि सम्मोहं सर्गे यान्ति परन्तप ॥ ७-२७॥

इच्छाद्वेषसमुत्थेन इच्छा च द्वेषश्च इच्छाद्वेषौ ताभ्यांसमुत्तिष्ठतीति इच्छाद्वेषसमुत्थः तेन इच्छाद्वेषसमुत्थेन ।केनेति विशेषापेक्षायामिदमाह -- द्वन्द्वमोहेन द्वन्द्वनिमित्तःमोहः द्वन्द्वमोहः तेन । तावेव इच्छाद्वेषौ शीतोष्णवत्परस्परविरुद्धौ सुखदुःखतद्धेतुविषयौ यथाकालंसर्वभूतैः सम्बध्यमानौ द्वन्द्वशब्देन अभिधीयेते । यत्रयदा इच्छाद्वेषौ सुखदुःखतद्धेतुसम्प्राप्त्या लब्धात्मकौभवतः, तदा तौ सर्वभूतानां प्रज्ञायाः स्ववशापादनद्वारेणपरमार्थात्मतत्त्वविषयज्ञानोत्पत्ति-प्रतिबन्धकारणं मोहं जनयतः । नहि इच्छाद्वेषदोषवशीकृतचित्तस्य यथाभूतार्थविषयज्ञानमुत्पद्यतेबहिरपि ; किमु वक्तव्यं ताभ्यामाविष्टबुद्धेः सम्मूढस्य प्रत्यगात्मनिबहुप्रतिबन्धे ज्ञानं नोत्पद्यत इति । अतः तेन इच्छाद्वेषसमुत्थेनद्वन्द्वमोहेन, भारत भरतान्वयज, सर्वभूतानि सम्मोहितानि सन्ति सम्मोहंसम्मूढतां सर्गे जन्मनि, उत्पत्तिकाले इत्येतत्, यान्ति गच्छन्ति हे परन्तप ।मोहवशान्येव सर्वभूतानि जायमानानि जायन्ते इत्यभिप्रायः । यतः एवम्,अतः तेन द्वन्द्वमोहेन प्रतिबद्धप्रज्ञानानि सर्वभूतानि सम्मोहितानिमामात्मभूतं न जानन्ति ; अत एव आत्मभावे मां न भजन्ते ॥ के पुनःअनेन द्वन्द्वमोहेन निर्मुक्ताः सन्तः त्वां विदित्वा यथाशास्त्रमात्मभावेनभजन्ते इत्यपेक्षितमर्थं दर्शितुं उच्यते --

येषां त्वन्तगतं पापं जनानां पुण्यकर्मणाम् ।

ते द्वन्द्वमोहनिर्मुक्ता भजन्ते मां दृढव्रताः ॥ ७-२८॥

येषां तु पुनः अन्तगतं समाप्तप्रायं क्षीणं पापं जनानां पुण्यकर्मणांपुण्यं कर्म येषां सत्त्वशुद्धिकारणं विद्यते ते पुण्यकर्माणः तेषांपुण्यकर्मणाम्, ते द्वन्द्वमोहनिर्मुक्ताः यथोक्तेन द्वन्द्वमोहेन निर्मुक्ताःभजन्ते मां परमात्मानं दृढव्रताः । ``एवमेव परमार्थतत्त्वंनान्यथा'' इत्येवं सर्वपरित्यागव्रतेन निश्चितविज्ञानाः दृढव्रताःउच्यन्ते ॥ ते किमर्थं भजन्ते इत्युच्यते --

जरामरणमोक्षाय मामाश्रित्य यतन्ति ये ।

ते ब्रह्म तद्विदुः कृत्स्नमध्यात्मं कर्म चाखिलम् ॥ ७-२९॥

 जरामरणमोक्षाय जरामरणयोः मोक्षार्थं मां परमेश्वरं आश्रित्यमत्समाहितचित्ताः सन्तः यतन्ति प्रयतन्ते ये, ते यत् ब्रह्म परं तत्विदुः कृत्स्नं समस्तं अध्यात्मं प्रत्यगात्मविषयं वस्तु तत् विदुः,कर्म च अखिलं समस्तं विदुः ॥

साधिभूताधिदैवं मां साधियज्ञं च ये विदुः ।

प्रयाणकालेऽपि च मां ते विदुर्युक्तचेतसः ॥ ७-३०॥

साधिभूताधिदैवं अधिभूतं च अधिदैवं च अधिभूताधिदैवम्,सह अधिभूताधिदैवेन वर्तते इति साधिभूताधिदैवं च मां ये विदुः,साधियज्ञं च सह अधियज्ञेन साधियज्ञं ये विदुः, प्रयाणकालेमरणकाले अपि च मां ते विदुः युक्तचेतसः समाहितचित्ता इति ॥ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रेश्रीकृष्णार्जुनसंवादे ज्ञानविज्ञानयोगो नाम सप्तमोऽध्यायः ॥७॥

इतिश्रीमद्-परमहंस-परिव्राजक-आचार्य-पूज्यपाद-श्रीशङ्कर-भगवताकृतौ श्रीमद्-भगवद्गीता-भाष्ये ज्ञान-विज्ञान-योगः नाम सप्तमःअध्यायः ॥