वायुर्यमोऽग्निर्वरुणः शशाङ्कः प्रजापतिस्त्वं प्रपितामहश्च । नमो नमस्तेऽस्तु सहस्रकृत्वः पुनश्च भूयोऽपि नमो नमस्ते ।।३९।।

वायुर्यमोऽग्निर्वरुणः शशाङ्कः प्रजापतिस्त्वं प्रपितामहश्च ।

नमो नमस्तेऽस्तु सहस्रकृत्वः पुनश्च भूयोऽपि नमो नमस्ते ।।३९।।

भावरत्नकोशः

गीताक्षरार्थस्तु अपि च ‘वायुः यमः अग्निः वरुणः शशाङ्कः प्रजापतिः दक्ष,कश्यपादिः । वाय्वादेः सत्ताप्रवृत्तिप्रतीतयस्त्वदधीनाः’ इत्यर्थः । ‘वायुर्बल-ज्ञानयोगाच्छशाङ्कोऽतिसुखाङ्कितः’ इति वचनाद् वाय्वादिशब्दमुख्यार्थ इति वा । प्रपितामहः पितामहः चतुर्मुखः, तस्यापि पिता प्रपितामहः, चतुर्मुखजनक इत्यर्थः । बहुशो नमस्कार-क्रियाभ्यावृत्तिगणनं कृत्वसुचोच्यते । ‘पुनश्च भूयोऽपि’ इति श्रद्धाभक्त्यतिशयभरितत्वमात्मनो दर्शयति ।। ३९ ।।