द्वौ भूतसर्गौ लोकेऽस्मिन् दैव आसुर एव च । दैवो विस्तरशः प्रोक्त आसुरं पार्थ मे शृणु ।। ६ ।।
द्वौ भूतसर्गौ लोकेऽस्मिन् दैव आसुर एव च ।
दैवो विस्तरशः प्रोक्त आसुरं पार्थ मे शृणु ।। ६ ।।
भावरत्नकोशः
गीताक्षरार्थस्तु आसुरी सम्पत् सर्वात्मना परित्यजनीयेति भावनाय उक्तानुवादपूर्वकं सैव प्रपञ्चयितुं प्रतिज्ञायते– द्वाविति ।। अस्मिन् लोके द्वौ द्विप्रकारौ भूतसर्गौ भूतानां प्राणिनां सर्गौ निसर्गौ स्वभावौ तौ उच्येते– दैव आसुरश्चेति ।। तत्र दैवः सर्गः विस्तरशः विस्तरप्रकारैः प्रोक्तः ‘अभयं सत्त्वसंशुद्धिः’ इत्यादिना परिभाषितः । आसुरं सर्गं मे मम सकाशाद् विस्तरशः शृणु अवधारय । अत्र सर्गाणां सुबहुविधत्वाद् ‘द्वाविति कथमुच्यते’ इति शङ्का
‘सर्गाणां सुबहुत्वेऽपि शुभाशुभफलादिकौ ।
दैवासुराख्यौ द्वावेव गन्धर्वाद्यास्तदन्तरा ।।’
इति प्रमाणेन सर्गाणां सुबहुप्रकारत्वेऽपि द्वौ इति वक्तुं शक्यते । शुभाशुभफलाधिक्य-विवक्षायां गन्धर्वमनुष्याधमादयोऽपि तदुभयफलान्तर्वर्तमाना एवेति उत्तरप्रस्थाने परिहृता ।।६।।