कस्माच्च ते न नमेरन् महात्मन् गरीयसे ब्रह्मणोऽप्यादिकर्त्रे । अनन्त देवेश जगन्निवास त्वमक्षरं सदसत् तत्परं यत् ।। ३७ ।।

कस्माच्च ते न नमेरन् महात्मन् गरीयसे ब्रह्मणोऽप्यादिकर्त्रे ।

अनन्त देवेश जगन्निवास त्वमक्षरं सदसत् तत्परं यत् ।। ३७ ।।

भावरत्नकोशः

गीताक्षरार्थस्तु कथं स्थाने ? इत्याशङ्कायाम्, उत्तरमुच्यते– कस्मादिति ।। महांश्चासावात्मा महात्मा, तत्सम्बुद्धिः महात्मन् । अत्र महच्छब्दः पूर्णवाची । आत्मशब्दश्च ‘यच्चाप्नोति’ इत्यादिस्मृतेः आप्ति, आदान, विषयानुभव, नित्यसत्तारूपार्थ-चतुष्टयवचनः । पूर्णाप्त्यादिमान् इत्यर्थः । ते कस्मात् न नमेरन् त्वां न नमस्कुर्युः । तत्र हेत्वर्थगर्भविशेषणम् गरीयसे गुरुतराय । ब्रह्मणः चतुर्मुखस्यापि आदिकर्त्रे इति, अनन्त अपरिच्छिन्न । सदसद्भावात्मकं विश्वं त्वमेव त्वदधीनसत्तादिकमेव, तत्परं भावाभावात्मक-विश्वाभ्यां परम् उत्तमं यद् अक्षरं तदपि त्वमेव ।। ३७ ।।