क्षिप्रं भवति धर्मात्मा शश्वच्छान्तिं निगच्छति । कौन्तेय प्रतिजानीहि न मे भक्तः प्रणश्यति ।। ३१ ।।

क्षिप्रं भवति धर्मात्मा शश्वच्छान्तिं निगच्छति ।

कौन्तेय प्रतिजानीहि न मे भक्तः प्रणश्यति ।। ३१ ।।

भाष्यम्

कुतः? क्षिप्रं भवति धर्मात्मा । देवदेवांशादिष्वेव च तद्भवति । उक्तं च शाण्डिल्यशाखायाम्

नाविरतो दुश्चरितान्नाभक्तो नासमाहितः ।

 सम्यग् भक्तो भवेत् कश्चिद् वासुदेवेऽमलाशयः ।

 देवर्षयस्तदंशाश्च भवन्ति क्व च ज्ञानतः’ इति ।।

भावप्रदीपिका

बहुपुण्यं स्वयोग्यादधिकम् । तर्हि सर्वथा सदाचारापेक्षा नास्तीत्यागतमित्यत आह– देवेति ।। दुश्चरितादविरतादिः पुरुषो न सम्यग्भक्तः । देवाद्या बहुज्ञत्वाद्दुश्चरितादविरता अपि भक्ता भवन्तीत्यर्थः ।

प्रमेयदीपिका

‘सम्यग् व्यवसितो हि सः’ इति हेतोरुक्तत्वात् क्षिप्रम् इत्यादि व्यर्थमित्यत आह– कुत इति ।। सम्यग्व्यवसायवत्वेऽपि सुदुराचारः कुतः साधुर्मन्तव्य इति शङ्कार्थः । सम्यग्व्यवसायवत्त्वात् क्षिप्रं भवति धर्मचित्तः । यदेतद्भक्तेः सुदुराचारेण सहैकत्र क्वचिदवस्थानमङ्गीकृतं तदपि न मनुष्यविषयमित्याह– देवेति ।। देवाः चन्द्रादयः, तदंशाः सुग्रीवादयः । आदिपदेन विश्वामित्रादीनामृषीणां ग्रहणम् । एतच्च देवदेवांशादिष्वेव विषयेषु भवतीति योजना । कुतः? इत्यत आह– उक्तं चेति ।। दुश्चरितात् अविरतः यः कश्चित् सः अमलाशयः भूत्वा वासुदेवे सम्यग् भक्तो न भवेत् । तथा अभक्तः श्रवणकीर्तनादिभक्तिलिङ्गरहितः । एवम् असमाहितः विषयविक्षिप्तमनाश्च । देवादयश्च क्वचिदेवम्भूता अपि सम्यग् भक्ता भवन्ति । कुतः? ज्ञानतः सम्यग्व्यवसायवत्त्वात् ।।

भावदीपः

।। चन्द्रादय इति ।। चन्द्रस्य गुरुदारपरिग्रहो दुराचारः, सुग्रीवस्य वालिदारपरिग्रहः, प्रथमादिपदेन दिक्पालादीनां भगवता युद्धादिः दुराचारः, द्वितीयादिपदेन अश्वत्थामादिः ग्राह्यः ।। विश्वामित्रादीनामिति ।। मेनकादिपरिग्रहादिस्तत्र ज्ञेयः । तथाविध इति ।। भक्तलिङ्गवान् इत्यर्थः ।।

भावरत्नकोशः

।। तदंशाः देवांशाः । एतच्च ‘अपि चेत्’ इति वाक्यम् । दुश्चरितात् दुराचारात् अविरतः अनिवृत्तः अमलाशयः निर्मलान्तःकरणः । भेदे साध्यसाधनभावायोगादाह– श्रवणकीर्तनादीति ।।

श्रवणं कीर्तनं विष्णोः स्मरणं पादसेवनम् ।

अर्चनं वन्दनं दास्यं सख्यमात्मनिवेदनम् ।।

इति श्लोकोक्तस्मरणादिकमादिपदार्थः । विषयैर्विक्षिप्तं व्याकुलं मनो यस्य स तथा । चशब्दस्तुशब्दार्थ इति भावेनोक्तम्– देवादयस्त्विति ।। एवंभूता अपि दुश्चरितादविरता अपि । ‘सम्यग्भक्तः’ इत्येकवचनान्तमपि बहुवचनान्ततया विपरिणम्यानुवर्त्य इति भावेनोक्तम्– सम्यग्भक्ता इति ।। ‘इति श्रुत्यर्थ’ इति शेषः ।।

भावदीपिका

।। सम्यग्व्यवसायवत्त्वात् सम्यग् भगवत्सर्वोत्तमत्वादि-निश्चयवत्त्वात् । अङ्गीकृतमिति ।। प्रायःशब्देनेति भावः । तदंशाः देवांशाः । यथोक्त-मनुव्याख्याने

चन्द्रसुग्रीवयोश्चैव स्वोच्चदारपरिग्रहात् ।

 प्राप्तहानिरभून्नैव कप्तहानिः कथञ्चन ।।’ इति ।

अत्र प्राप्तशब्देन स्वयोग्यादधिकेनार्जितेन पुण्येन प्रसक्तमुच्यते । तथा चान्यत्र

स्वाधिकाराधिको यत्नः कथञ्चिन्नोपपद्यते ।

 कथञ्चिदधिके यत्ने दोषः कश्चित्समापतेत् ।।’ इति ।

एधमानद्विट्’ इति श्रुतेश्चेति द्रष्टव्यम् । विश्वामित्रादीनामिति ।। विश्वामित्रस्य मेनकोर्व-शीरूपाप्सरस्स्त्रीसम्भोगत्रिशङ्क्वाद्ययाज्ययाजनादिरूपसुदुराचारस्य दर्शनादिति भावः । दुश्चरि-तादविरतः सदा दुराचारवान् । अभक्त इत्यादि ।। तथा चाभक्तो यः कश्चित् सोऽप्यमलाशयो भूत्वा वासुदेवे सम्यग्भक्तो न भवेत् , एवमसमाहितो यः कश्चित् सोऽप्यमलाशयो भूत्वा, वासुदेवे सम्यग्भक्तो न भवेदिति योजना द्रष्टव्या । ‘श्रवणकीर्तनादिभक्तिलिङ्गः’ इत्युक्त्या,

श्रवणं कीर्तनं विष्णोः स्मरणं पादसेवनम् ।

 अर्चनं वन्दनं दास्यं सख्यमात्मनिवेदनम् ।

 एवं पुंसाऽर्पिता विष्णौ भक्तिश्चेन्नवलक्षणा ।।’

इति भागवते श्रवणादीनां भक्तिज्ञापकत्वेनैव भक्तित्वमुच्यत इत्येव ध्येयम् । एवंभूताः दुश्चरितादविरता अभक्ता असमाहिताश्चेत्यर्थः । लिङ्गम् भक्तिचिह्नम् । तथा च ‘सुदुराचारः पुमान् भगवद्भक्तो भवितुमर्हति तल्लिङ्गत्वात्’ इत्यनुमानं द्रष्टव्यम् ।।

भावप्रकाशः

 ।। तदंशा इति ।। देवांशा इत्यर्थः । अभेदे हेतुहेतुमद्भावा-योगादाह– श्रवणकीर्तनादीति ।।

श्रवणं कीर्तनं विष्णोः स्मरणं पादसेवनम् ।

अर्चनं वन्दनं दास्यं सख्यमात्मनिवेदनम् ।

इति पुंसार्पिता विष्णौ भक्तिश्चेन्नवलक्षणेति सप्तमस्कन्धोक्तभक्तिलिङ्गेत्यर्थः ।

Load More