सर्वभूतेषु येनैकं भावमव्ययमीक्षते । अविभक्तं विभक्तेषु तज्ज्ञानं विद्धि सात्त्विकम् ।। २० ।।

सर्वभूतेषु येनैकं भावमव्ययमीक्षते ।

अविभक्तं विभक्तेषु तज्ज्ञानं विद्धि सात्त्विकम् ।। २० ।।

भाष्यम्

एकं भावं विष्णुम् ।। २० ।।

भावप्रदीपिका

सर्वभूतेषु इत्येतदन्यथाप्रतीतिनिरासाय व्याचष्टे– एकमिति ।। २० ।।

प्रमेयदीपिका

एकं भावम् इति सामान्येनोक्तम् । कोऽसावेको भावः इत्याकाङ्क्षायामाह– एकमिति ।। २० ।।

भावरत्नकोशः

गीताक्षरार्थस्तु एवं तत्र प्रतिज्ञातं ज्ञानत्रैविध्यमुच्यते– सर्वभूतेष्वित्यादिना ।। विभक्तेषु परस्परम्, परमेश्वराच्च भिन्नेषु सर्वभूतेषु चेतनाचेतनेषु अविभक्तं स्वगतभेदवर्जितम्, तेषां व्ययेऽपि अव्ययम् । एकं भावं सर्वोत्तमं पदार्थं विष्णुं येन ज्ञानेन ईक्षते विषयीकरोति तज्ज्ञानं सात्त्विकं विद्धि इति विष्णुतत्त्वविनिर्णयटीका ।। २० ।।