एवं बुद्धेः परं बुद्ध्वा संस्तभ्याऽत्मानमात्मना । जहि शत्रुं महाबाहो कामरूपं दुरासदम् ।। ४३ ।।

एवं बुद्धेः परं बुद्ध्वा संस्तभ्याऽत्मानमात्मना ।

जहि शत्रुं महाबाहो कामरूपं दुरासदम् ।। ४३ ।।

।। ओं तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे

श्रीकृष्णार्जुनसंवादे कर्मयोगो नाम तृतीयोऽध्यायः ।।

भाष्यम्

 आत्मानं मनः । आत्मना बुद्ध्या ।।

।। इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्गीताभाष्ये तृतीयोऽध्यायः ।।

भावप्रदीपिका

 ‘संस्तभ्यात्मानमात्मना’ इति व्याचष्टे– आत्मानमिति ।। इन्द्रियादिजयेन कामवधसम्भवान्न तदर्थं युद्धं त्यजेतेत्यभिप्रायः ।। ४३ ।।

।। इति श्रीपद्मनाभतीर्थभट्टारकविरचितश्रीमद्भगवद्गीताभाष्य

भावप्रदीपिका

यां तृतीयोऽध्यायः ।।

भावप्रकाशिका

तत्रात्मशब्दयोर्जीवब्रह्मपरत्वेऽपि भेद एवार्थः । न हि स्तम्भनं नामैकीकरणम् । अतस्तयोरत्र विवक्षितमर्थमाह– आत्मानमिति ।।

।। इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितश्रीगीताभाष्यटीकायां

श्रीनरहरितीर्थभट्टारककृतौ

भावप्रकाशिकायां तृतीयोऽध्यायः ।।

प्रमेयदीपिका

 ‘संस्तभ्यात्मानमात्मना’ इत्यस्य ‘जीवात्मानं परमात्म-नैकीकृत्य’ इति व्याख्यानं शब्दबाह्यमित्याशयवान् आत्मशब्दद्वयं व्याख्याति– आत्मानमिति ।। ४३ ।।

।। इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितस्य श्रीमद्गीताभाष्यस्य टीकायां जयतीर्थमुनिविरचितायां प्रमेयदीपिका

यां तृतीयोऽध्यायः ।। ३ ।।

भावदीपः

।। शब्दबाह्यमिति ।। संस्तभ्यशब्देनैकीभावार्थालाभादिति भावः

।। ४३ ।।

।। इति श्रीराघवेन्द्रयतिकृतगीताभाष्यभावदीपे तृतीयोऽध्यायः ।।

भावरत्नकोशः

।। शब्दबाह्यमिति ।। संस्तम्भनमित्युक्ते एकीकरणमित्य-प्रतीतेरिति भावः ।। ४३ ।।

गीताक्षरार्थस्तु– शत्रुहनन आयुधरूपं ज्ञानम् ‘एवं बुद्धेः’ इत्युत्तरश्लोकेन वक्तुं ज्ञानविषय उच्यते– इन्द्रियाणीति ।। इन्द्रियाणि इन्द्रियाभिमानिनो देवान् पराणि शरीरादुत्कृष्टान् आहुः ज्ञानिनः । इन्द्रियेभ्यः अर्थाभिमानिनः परानाहुः । अर्थेभ्यश्च मनः मनोऽभिमानिदेवान् परानाहुः । मनसस्तु बुद्धिः सरस्वती परा । बुद्धेस्तु आत्मा महान् चतुर्मुखः परः । महतः परमव्यक्तम् । अव्यक्तात् श्रीतत्त्वाद् यः परतः परः स परमात्मा ज्ञातव्य इति । तथा च काठकभाष्ये–

देवेभ्य इन्द्रियात्मभ्यो ज्यायांसोऽर्थाभिमानिनः ।

 सोमवित्तपसूर्याप्पाः अश्व्यग्नीन्द्रेन्द्रसूनवः ।।

 यमो दक्षश्चेन्द्रियेशाः सौपर्णी वारुणी तथा ।

 उमेति चार्थमानिन्यस्तिस्रो द्विर्द्व्येकदेवताः ।।

 मनोऽभिमानिनो रुद्रवीन्द्रशेषास्त्रयोऽपि तु ।

 ते श्रेष्ठा अर्थमानिभ्यस्तेभ्यो बुद्धिः सरस्वती ।।

 तस्या ब्रह्मा महानात्मा ततोऽव्यक्ताभिधा रमा ।

 तस्यास्तु पुरुषो विष्णुः पूर्णत्वान्नैव तत्समः ।।’ इति ।

तात्पर्ये च–

सर्वेभ्यः प्रवरा देवा इन्द्राद्या इन्द्रियात्मकाः ।

 तेभ्यो मनोऽभिमानी तु रुद्रस्तस्मात् सरस्वती ।।

 बुद्ध्यात्मिका ततो ब्रह्मा महानात्मा परः स्मृतः ।

 अव्यक्तरूपा लक्ष्मीस्तु वरा चातो हरिः स्वयम् ।।

 न तत्समोऽधिको वेति ह्यानुपूर्वी प्रकीर्तिता ।

 यथाक्रमप्रबोधेन नाश्याः कामादिशत्रवः ।।’ (गी.ता.३.४२) इति ।। ४२ ।।

एवं तारतम्याङ्गत्वेन परमात्मनो ज्ञेयत्वमुक्त्वा तज्ज्ञानस्य कामजयोपायत्वमुच्यते– एवमिति ।। एवम् ‘इन्द्रियाणि’ इत्युक्तदिशा । बुद्धेः, महतः अव्यक्ताच्च, पमात्मानं परम् उत्कृष्टं बुद्ध्वा आत्मना बुद्ध्या आत्मानं मनः संस्तभ्य सम्यक् स्तम्भयित्वा निश्चलं कृत्वा दुरासदं दुःखेन निष्पादनीयं कामरूपं कामाख्यं शत्रुं जहि । हे महाबाहो इति साभिप्रायं विशेषणमिति ।। ४३ ।।

।। इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितश्रीमद्भगवद्गीताभाष्यटीकाव्याख्यायां भावरत्न-कोशाख्यायां श्रीमत्सूरीन्द्रतीर्थपूज्यपादशिष्यसुमतीन्द्रयतिविरचितायां तृतीयोध्यायः ।। ३ ।।

भावदीपिका

।। शब्दबाह्यमिति ।। ‘संस्तभ्य’ इति शब्दमहिम्ना न लभ्य-मित्यर्थः । गीतायाम् – आत्मना बुद्ध्या । आत्मानं मनः, संस्तभ्य इत्यस्य ‘विषयेभ्यो नियम्य’ इत्यर्थो द्रष्टव्यः ।।

इति यदुवरगीताभाष्यटीकासुयुक्ता-

शयमतिललिताभिर्गीर्भिरावेदयित्री ।

सुललितविवृतिर्या वृष्णिराद्धाऽत्र चीर्णा

समगमदयमध्यायोऽन्तमस्यां तृतीयः ।। ४२-४३ ।।

।। इति श्रीयदुपत्याचार्यपूज्यपादाराधकेन श्रीनिवासेन विरचितायां

श्रीमद्भगवद्गीताभाष्यटीकाविवृतौ भावदीपिकाव्याख्यायां तृतीयोऽध्यायः समाप्तः ।।

।। श्रीकृष्णार्पणमस्तु ।।

।। श्रीमद्धनुमद्भीममध्वान्तर्गतरामकृष्णवेदव्यासात्मकश्रीलक्ष्मीहयग्रीवाय नमः ।।