दूरेण ह्यवरं कर्म बुद्धियोगाद्धनञ्जय । बुद्धौ शरणमन्विच्छ कृपणाः फलहेतवः ।। ४९ ।।

दूरेण ह्यवरं कर्म बुद्धियोगाद्धनञ्जय ।

बुद्धौ शरणमन्विच्छ कृपणाः फलहेतवः ।। ४९ ।।

भाष्यम्

इतश्च योगाय युज्यस्वेत्याह– दूरेणेति ।। बुद्धियोगात् ज्ञानलक्षणा-दुपायात् । दूरेण अतीव । अतो बुद्धौ शरणं ज्ञाने स्थितिम् । फलं कर्मकृतौ हेतुर्येषां ते फलहेतवः ।। ४९ ।।

श्रीपद्मनाभतीर्थविरचित-गीताभाष्यटीका-

भावप्रदीपिका

उत्तरश्लोकद्वयमवतार्य व्याचष्टे– पूर्वेति  ।। ४९ ।।

श्रीनरहरितीर्थविरचित-गीताभाष्यटीका-

भावप्रकाशिका

ननु फलत्वाविशेषात् स्वर्गमोक्षयोः, फलोपायज्ञानोद्देशेन कर्मकरणाद्वरं फलोद्देशेन कर्मकरणमिति मन्दाशङ्कां परिहर्तुमुत्तरश्लोकमवतार्य व्याचष्टे– इतश्चेति ।। न केवलं फलेच्छाविध्ययोगात् ज्ञानेच्छया कर्मकरणम् । किन्तु ज्ञानलक्षणात् मोक्षोपायात् स्वर्गादिसाधनस्य कर्मणः फलतोऽतीव नीचत्वादपीतरफलकार्पण्यं हित्वा ज्ञाने स्थितिं मनसः कुर्वित्यर्थः ।। ४९ ।।

श्रीजयतीर्थविरचितगीताभाष्यटीका-

प्रमेयदीपिका

ननु योगोपदेशमुपक्रम्य कर्मणो बुद्धियोगादवरत्वं किमर्थमुच्यते इत्यत आह– इतश्चेति ।। युज्यस्व प्रयतस्व । ‘यावानर्थः’ इति कर्मफलस्य ज्ञानफलापेक्षयाऽल्पत्वात् ‘योगाय युज्यस्व’ इत्युक्तम् । अत्र तु तत्रैव हेत्वन्तरमुच्यते । ‘बुद्धियोगात्’ इति षष्ठीसमासप्रतीतिनिरासाय आह– बुद्धियोगादिति ।। लक्षणशब्दः स्वरूपार्थः । पुरुषार्थसम्बन्धिना कर्मणा सह निर्देशे तथाभूतस्य ज्ञानस्यैव ग्रहणं युक्तमिति भावः । उपायात् पुरुषार्थस्य । दूरशब्दो विप्रकर्षवाची । तस्यात्र कथमन्वयः? इत्यत आह– दूरेणेति ।। उक्तं कर्मणो ज्ञानादतीवावरत्वमिदानीमुपपादनीयम् । तद्विहाय किमिदं तृतीयपादेनोच्यत इत्यतः साध्यनिर्देशोऽयमिति सूचयन् व्याचष्टे– अत इति ।। ज्ञाने स्थितिं तदुपाययोगानुष्ठानलक्षणम् ।। फलहेतूनां कृपणत्ववर्णनमनुपयुक्तमित्यत आह– फलमिति ।। ४९ ।।

श्रीरघूत्तमतीर्थप्रणीता भावबोधाभिधा टिप्पणी

बुद्धेर्योग इति षष्ठीसमासत्वेऽपि ज्ञानोपायरूपनिवृत्तकर्मापेक्षया काम्यकर्मणोऽतीवावरत्वेन प्रकृतोपयोगात् किमर्थं बुद्धिश्चासौ योगश्चेति कर्मधारयाश्रयणमित्योऽभिप्रायमाह– पुरुषार्थ-सम्बन्धिनेति ।। स्वर्गमोक्षयोरिव न ज्ञानस्य स्वतः पुरुषार्थत्वमिति भावः ।। ४९ ।।

श्रीराघवेन्द्रतीर्थविरचितः

भावदीपः

योगाय युज्यस्व इत्युक्तमिति ।। ज्ञानोपायाय प्रयतस्वेत्युक्तमित्यर्थः ।। अत्र तु ‘दूरेण’ इति श्लोके । तत्रैव ज्ञानोपायाय प्रयतस्व इत्युक्तार्थ एव । काम्यकर्मतः शेषरूपं काम्यस्य निन्दारूपं वा हेत्वन्तरमित्यर्थः ।। षष्ठीसमास एव कुतो न? इत्यत आह– पुरुषार्थ-सम्बन्धिनेति ।। ‘उपायात्’ इत्यत्राकाङ्क्षां पूरयति– पुरुषार्थस्येति ।। तदुपाययोगेति ।। निष्कामकर्मानुष्ठानेत्यर्थः ।। ४९ ।।

श्रीसुमतीन्द्रतीर्थविरचितः

भावरत्नकोशः

उपक्रम्य ‘योगे त्विमां शृणु’ इत्यनेन । अवरत्वमित्यनन्तरं प्रकृतासङ्गतमिति शेषः । युज्यस्वेति युज समाधावित्यस्य रूपम् । श्यन्प्रयोगात् । समाधिश्च चित्तवृत्तिनिरोधः । ततश्च समाधेर्योगरूपत्वाद् योगाय युज्यस्वेत्ययुक्तमित्यतो व्याचष्टे– प्रयतस्वेति ।। अस्मादपीत्यर्थकेन ‘इतश्च’ इत्यनेन प्रागेको हेतुरुक्त इति सूचितम् । तं हेतुं विवृण्वन्नाह– यावानर्थ इतीति ।। श्लोक इति शेषः । योगाय युज्यस्व ज्ञानोपायाय प्रयतस्व । अत्र तु ‘दूरेण’ इति श्लोके । हेत्वन्तरं कर्मरूपस्य पुमर्थोपायस्य ज्ञानरूपोपायादधमत्वरूपं हेत्वन्तरम् । प्रतीतिनिरासा-येति ।। उक्तसमासाश्रयणे योगशब्दस्योपायोऽर्थः । बुद्धेर्योऽयमुपायः कर्मलक्षणः । ‘कर्मणा ज्ञानमातनोति’ इति श्रुतेः । तस्मात् कर्मणः कर्मणोऽवरत्ववर्णनमयुक्तमिति भ्रान्तिं निरस्यन् कर्मधारयमाह भाष्यकार इत्यर्थः । भाष्ये ज्ञानस्य यल्लक्षणमसाधारणो धर्म इति प्रतीतिनिरासायाऽह– लक्षणशब्द इति ।। षष्ठीसमासपक्षेऽपि ज्ञानोपायरूपनिवृत्तकर्मापेक्षया काम्यकर्मणोऽतीवावरत्वरूपप्रकृतसिद्धेः किं कर्मधारयाश्रयणेनेत्यतोऽभिप्रायमाह– पुरुषार्थेति ।। पुरुषैरर्थ्यमानो हि पुरुषार्थः । स च द्विविधः । स्वर्गो मोक्षश्चेति । तत्र बुद्धियोगादवरं कर्मेति सहनिर्देशात् स्वर्गरूपपुरुषार्थसाधनप्रवृत्तकर्मापेक्षया मोक्षरूपपुरुषार्थसाधनज्ञानस्यैव बुद्धियोगशब्देन ग्रहणं युक्तम् । तच्च कर्मधारयसमास एव घटते । न षष्ठीसमासपक्षे । यदि च स्वर्गमोक्षाविव ज्ञानमपि स्वतः पुरुषार्थः स्यात् तदा षष्ठीसमासः स्यादपि । न चैवमिति भावः । विप्रकर्षवाची देशव्यवधानवाची । तस्य देशतो व्यवधानरूपदूरत्वस्य । अत्र कर्मणोऽवरत्व-रूपेऽर्थे । नात्र दूरशब्दो देशव्यवधानार्थोऽभिप्रेतः  येनानन्वयशङ्का । किन्त्वतिशयेन आत्यन्तिकत्वलक्षणेनेत्यर्थ इति ‘अतीव’ इति भाष्यार्थ इति भावः । ज्ञानस्य ज्ञानिस्थितिं प्रत्यनधिकरणत्वादाह– तदुपायेति ।। ज्ञानोपायभूतनिवृत्तकर्मेत्यर्थः । बुद्धौ ‘शरणमन्विच्छ’ इति प्रकृतार्थासङ्गतत्वादाह– अनुपयुक्तमिति ।। फलमितीति ।। फलं फलाभिसन्धानं कर्मनिर्वर्तने हेतुः कारणं येषां पुरुषाणां ते फलहेतवः पुरुषाः कृपणाः दीना यतः अतो ज्ञानादतीवावरं कर्मेति कर्मणो ज्ञानादतीवावरत्ववर्णने तुरीयपादो हेतुसमर्पक इति भाष्याभिप्राय इति न प्रकृतासङ्गतिरिति भावः ।।

गीताक्षरार्थस्तु– ज्ञानोपायाय यतस्वेत्युक्तार्थे कर्मफलस्य ज्ञानफलादल्पत्वादित्येको हेतुः ‘यावानर्थः’ इत्यत्रोक्तः । अत्र तु कर्मरूपस्य पुरुषार्थोपायस्य ज्ञानरूपपुमर्थोपायादधमत्वरूपं हेत्वन्तरमुच्यते– दूरेणेति ।। बुद्धियोगाद् ज्ञानलक्षणात् पुमर्थोपायात् कर्म दूरेणावरम् अतीव निकृष्टं हि यतः अतो बुद्धौ ज्ञानलक्षणोपाये शरणं तदुपयोगानुष्ठानलक्षणां स्थितिम् अन्विच्छ कुर्विति यावत् । कथं कर्मणो ज्ञानादतीवावरत्वमित्यत उक्तं– कृपणा इति ।। फलं कर्मकृतौ हेतुर्येषां ते तथा । काम्यकर्मिणः कृपणाः दीनाः । ‘इमं लोकं हीनतरं वा विशन्ति’ इति हि श्रुतिः । अतो दूरेणावरमिति ।। ४९ ।।

श्रीनिवासतीर्थविरचिता

भावदीपिका

।। उपक्रम्येति ।। योगे त्विमां शृणु इत्युपक्रम्येत्यर्थः ।। कर्मफलस्येत्यादि ।। काम्य-कर्मफलस्य स्वर्गादेर्ज्ञानफलापेक्षयाऽल्पत्वेन काम्यकर्मणो निन्द्यत्वेन ज्ञानोपायाय युज्य-स्वेत्युक्तम् । अत्र तु तत्रैव काम्यकर्मणो निन्द्यत्व एव तत्कर्तॄणां कृपणत्वादिरूपं हेत्वन्तर-मुच्यत इत्यर्थः । ज्ञानलक्षणात् इति मूले ज्ञानस्य यल्लक्षणमसाधारणो धर्म इति प्रतीतिवारणाय लक्षणशब्दार्थमाह– लक्षण इति ।। ननु बुद्धेर्योगादिति षष्ठीसमासत्वेऽपि ज्ञानोपाय-रूपनिवृत्तकर्मापेक्षया काम्यकर्मणोऽतीवावरत्वेन प्रकृतोपयोगसद्भावात् किमर्थं बुद्धिश्चासौ योगश्चेति कर्मधारयाश्रयणमित्यतोऽभिप्रायमाह– पुरुषार्थसम्बन्धिनेति ।। स्वर्गरूपपुरुषार्थ-सम्बन्धिना काम्यकर्मणेत्यर्थः । तथाभूतस्य मोक्षरूपपुरुषार्थसाधनस्य । अयमर्थः–  स्वर्गमोक्षौ द्वावेव पुरुषार्थौ प्रसिद्धौ । तत्र अवरं कर्म बुद्धियोगात् इति सहनिर्देशात् स्वर्गरूपपुरुषार्थ-साधनकर्मापेक्षया मोक्षरूपपुरुषार्थसाधनस्य ज्ञानस्यैव कथनं सङ्गतम् । उभयोः पुरुषार्थ-साधनत्वसाम्याद् । इदं च कर्मधारयसमास एव घटते न षष्ठीसमासे । यदि च स्वर्गमोक्षाविव ज्ञानमपि स्वतः पुरुषार्थः स्यात् तदोक्तरीत्या षष्ठीसमासमङ्गीकुर्मः । नचैवमिति । विप्रकर्षो देशव्यवधानम् ।। तस्यात्रेति ।। कर्मणोऽवरत्वे कथं देशतो विप्रकर्षरूपदूरत्वसम्बन्ध इत्यर्थः ।। तदुपाययोगानुष्ठानेति ।। ज्ञानोपायभूतनिवृत्तकर्माख्ययोगानुष्ठानेर्थः ।। अनुपयुक्तमिति ।। कृपणशब्दस्य दीनपर्यायत्वात् फलहेतवः कृपणा इति फलकारणानां कर्मणां दीनत्वकथनम-युक्तम् । पुरुषाणामेव दीनत्वाख्यकृपणत्वकथनौचित्यादिति भावः ।। इत्यत आहेति ।। फलहेतुशब्देन बहुव्रीहिणा पुरुषा एव गृह्यन्तेऽतस्तेषां कृपणत्वकथनं युक्तमित्याशयेनाऽहेत्यर्थः

।। ४९ ।।

उमर्जीकृष्णाचार्यविरचितः

भावप्रकाशः

ननु युज्यस्वेति युजसमाधावित्यस्य रूपम् । श्यन्प्रयोगात् । समाधिर्नाम चित्तवृत्ति-निरोधः । ततश्च समाधेरपि योगान्तर्भूतत्वात् योगाय युज्यस्वेत्ययुक्तमित्यत आह– यतस्वेति ।। धातूनामनेकार्थत्वादिति भावः । इतश्चेत्यनेन प्रागेको हेतुरुक्त इति सूचितम् । तद्विवृण्वन्नेवाह– यावानर्थ इतीति ।। ज्ञानस्योपायासाधारणधर्मत्वाभावादाह– लक्षणशब्द इति ।। षष्ठीसमास-पक्षेऽपि ज्ञानोपायरूपनिवृत्तकर्मापेक्षया काम्यकर्मणोतीवावरत्वरूपप्रकृतसिद्धेः किं कर्मधार-योक्त्येत्यतोऽभिप्रायमाह– पुरुषार्थेति ।। स्वर्गमोक्षवज्ज्ञानस्य स्वतोऽपुरुषार्थत्वादिति भावः । ज्ञानस्य स्थितिं प्रत्यनधिकरणत्वादाह– तदुपायेति ।। ४९ ।।