ऊर्ध्वं गच्छन्ति सत्त्वस्था मध्ये तिष्ठन्ति राजसाः । जघन्यगुणवृत्तिस्था अधो गच्छन्ति तामसाः ।। १८ ।।

ऊर्ध्वं गच्छन्ति सत्त्वस्था मध्ये तिष्ठन्ति राजसाः ।

जघन्यगुणवृत्तिस्था अधो गच्छन्ति तामसाः ।। १८ ।।

भावरत्नकोशः

गीताक्षरार्थस्तु– ज्ञानलोभप्रमादादि न स्वरूपतः फलम्, सुखादिरूपत्वाभावात् इत्यतः तज्जन्यफलानि विविच्यन्ते– ऊर्ध्वमिति ।। सत्त्वस्थाः सात्त्विकाः, अनेन सत्त्वगुणजन्यज्ञानवन्तो लक्ष्यन्ते । ऊर्ध्वं जनलोकादिकं गच्छन्ति । तेन महत्सुखमनुभवन्ति च । राजसाः काम्यकर्मिणः मध्ये स्वर्गादौ तिष्ठन्ति । किञ्च दुःखमिश्रं सुखमनुभवन्ति च । जघन्यः चरमो गुणः तमः, तद्वृत्तिः तत्परिमाणरूपम् अज्ञानम्, तत्स्थाः तद्वन्तः तमोगुणकार्यप्रमादमोहवन्तः तामसाः अधः अधोलोकं निरयं गच्छन्ति ।। १८ ।।