यया तु धर्मकामार्थान् धृत्या धारयतेऽर्जुन । प्रसङ्गेन फलाकाङ्क्षी धृतिः सा पार्थ राजसी ।। ३४ ।।

यया तु धर्मकामार्थान् धृत्या धारयतेऽर्जुन ।

प्रसङ्गेन फलाकाङ्क्षी धृतिः सा पार्थ राजसी ।। ३४ ।।

भावरत्नकोशः

गीताक्षरार्थस्तु यया त्विति ।। फलाकाङ्क्षी स्वर्गादि-फलाभिलाषी पुरुषः प्रसङ्गेन कर्मणि मदीयतास्नेहलक्षणेन प्रकृष्टेन सङ्गेन यया धृत्या धर्म-कामार्थान् धारयते मनसि नित्यमेव कर्तव्यरूपान् अवधारयति तस्य सा धृतिः राजसी

।। ३४ ।।