इन्द्रियस्येन्द्रियस्यार्थे रागद्वेषौ व्यवस्थितौ । तयोर्न वशमागच्छेत् तौ ह्यस्य परिपन्थिनौ ।। ३४ ।।
इन्द्रियस्येन्द्रियस्यार्थे रागद्वेषौ व्यवस्थितौ ।
तयोर्न वशमागच्छेत् तौ ह्यस्य परिपन्थिनौ ।। ३४ ।।
भाष्यम्
तथाऽपि शक्तितो निग्रहः कार्यः । निग्रहात् सद्यः प्रयोजनाभावेऽपि भवत्येवातिप्रयत्नत इत्याशयवानाह– इन्द्रियस्येति ।। तथा ह्युक्तम्–
‘संस्कारो बलवानेव ब्रह्माद्या अपि तद्वशाः ।
तथाऽपि सोऽन्यथा कर्तुं शक्यतेऽतिप्रयत्नतः ।।’ इति ।। ३४ ।।
भावप्रदीपिका
ननु यदि पूर्वसंस्कारादेव प्रवृत्तिर्न फलेच्छया, स च संस्कारश्चेद्बलवान्, तर्हि व्यर्थः पुरुषप्रयत्न इत्याशङ्क्य, उत्तरश्लोकमवतारयति– तथाऽ-पीति ।। श्लोकद्वयार्थे प्रमाणमाह– संस्कार इति ।। ३४ ।।
भावप्रकाशिका
ननु यदि निग्रहस्य पूर्वसंस्कारानुसारिप्रवृत्त्यन्यथाकरण-सामर्थ्याभावः । तर्हि स्वोक्तकरणाकरणयोरर्थानर्थादिकथनादिवैयर्थ्यं स्यादित्याशङ्क्य, तत्परिहारायोत्तरं श्लोकमवतार्य व्याचष्टे– तथाऽपीति ।। (‘सदृशम्’ इत्यादि) श्लोक-द्वयोक्तार्थे प्रमाणमाह– तथा हीति ।। अतो येऽतिप्रयत्नेन निगृहीतेन्द्रियास्त एव मे मतमनुतिष्ठन्तीत्यर्थः ।। ३४ ।।
प्रमेयदीपिका
‘इन्द्रियस्य’ इत्यस्य सङ्गतिमाह– तथाऽपीति ।। एवं तर्हि ‘मयि सर्वाणि कर्माणि’(३.३०) इति विधानं फलकथनं च व्यर्थमित्याशङ्क्येति भावः ।। यद्यपि ‘प्रकृतिं यान्ति भूतानि’ (३.३३) इति निग्रहोऽकिञ्चित्करः । तथाऽपि व्याहत-मेतदुच्यत इत्यत उक्तम्– निग्रहादिति ।। ‘निग्रहात्’ इत्याशयवान् तथाऽपि इत्याहेति योजना ।। अत्राऽगमसम्मतिमाह– तथा हीति ।। ३४ ।।
भावबोधः
।। व्याहतमिति । निग्रहः किं करिष्यतीत्यनेन तयोर्न वशमा-गच्छेदित्येतद्व्याहतमित्यर्थः । अत एव शक्तितो निग्रहः कार्य इत्यस्य व्याहतिप्रदर्शनार्थमेव । निग्रहोऽकिञ्चित्कर इति प्रागुक्तम् ।। ३४ ।।
भावदीपः
।। एवंतर्हीति ।। निग्रहस्य कार्याक्षमत्व इत्यर्थः ।। व्याहतमेत-दिति ।। तथाऽपि निग्रहस्याकिञ्चित्करत्वेऽपि शक्तितो निग्रहः कार्य इत्येतद्व्याहतम् । निग्रहस्याकिञ्चित्करत्वे तदकारणस्यैव युक्तत्वादिति भावः ।। निग्रहादित्याशयवानिति ।। एतेन निग्रहस्य कालान्तरे किञ्चित्करत्वोक्तेर्न व्याहतिरिति भावः ।। तथाऽपीति ।। तात्कालिकेऽकिञ्चित्-करत्वादिति भावः । द्वित्वाभावेऽपीत्यर्थः ।। ३४ ।।
भावरत्नकोशः
एवं तर्हि ‘प्रकृतिं यान्ति भूतानि’ (३.३३) इति प्राणि-मात्रस्य पूर्वसंस्कारशब्दितस्वभावानुगचेष्टकत्वे । विधानं संन्यासयुद्धादिस्वविहितकर्मणः । फलकथनं ‘ये मे मतम्’ (३.३१) इत्यादिना । स्वयमस्वातन्त्र्यादिति भावः । ‘तथाऽपि’ इति भाष्यं संयोजयति– यद्यपीति ।। व्याहतमेतदिति ।। शक्तितो निग्रहः कार्य इत्येतत् ‘निग्रहः किं करिष्यति’ इत्यनेन विप्रतिषिद्धमित्यर्थः । अकिञ्चित्करत्वेनाकर्तव्यतया सिद्धस्य कर्तव्यत्वाभिधानं कथं न व्याहतमिति भावः । अन्ये तु ‘किं करिष्यति’ इत्यनेन ‘तयोर्न वशमागच्छेत्’ इत्येतद् व्याहतमित्यर्थ इत्यप्याहुः । व्याहतिपरिहाराय भाष्यं योजयति– निग्रहादित्याशयवानिति ।। निग्रहात् स्वसंस्कारानुगचेष्टस्य जन्तोः सद्यः प्रयोजनादर्शनेऽपि भवत्येवातिप्रयत्नान्निग्रहाभ्यासस्य संस्कारशक्तिशैथिल्यापादकत्वेन कालान्तरे प्रयोजनम् इत्या-शयवान् ।। ‘तथाऽपि निग्रहः कर्तव्य इत्याह’ इति योजने व्याहतिः परिहृता भवतीति भावः ।
।। अत्र मनोनिग्रहस्यातिप्रयत्नापादितस्य प्रकृतिशक्तिविघटकत्वमतीत्यत्र । ‘सदृशम्’ इत्यादिश्लोकद्वयार्थे प्रमाणमाह– तथाहि’ इति तु प्राचीनटीका । यद्यपि प्राणिनः प्रकृति-शब्दितसंस्कारपरतन्त्राः, तथाऽपि ‘संस्कारः’ इति तत्कार्यभूतौ रागद्वेषौ लक्षणया ग्राह्यौ । ब्रह्माद्याः अतद्गुणसंविज्ञानबहुव्रीहिणा रुद्राद्या देवा यद्यपि तद्वशाः कामक्रोधनियामकदैत्य-दूषिताः कदाचित्, तथाऽपि स संस्कारः अतिप्रयत्नतः भगवत्प्रसादसम्पादनानुकूलान्महाप्रयत्नाद् अन्यथाकर्तुं परिभावयितुं शक्य इति प्रमाणार्थः । एतच्च योग्यजनविषयम् । अयोग्यानां दुस्स्वभावस्य कदाऽपि विपर्यासाभावादिति विवृतिकृतः ।। ३४ ।।
गीताक्षरार्थस्तु– यद्यपि प्रकृतिं यान्ति भूतानीति निग्रहोऽकिञ्चित्करः, तथाऽपि शक्तितो निग्रहः कार्य इत्युच्यते– इन्द्रियस्येति ।। इन्द्रियस्येन्द्रियस्य सर्वेन्द्रियाणाम् अर्थे शब्दादिरूपे विषये इष्टे रागः अनिष्टे द्वेष इत्येवं प्रतीन्द्रियार्थं रागद्वेषाववश्यम्भाविनौ । प्राधान्याद् द्वयोरुक्तिः । द्वेषशब्दो मदमात्सर्याद्युपलक्षणमिति वक्ष्यति । षड्वर्गवशं तदधीनतां न गच्छेत् । कुतः ? यतः तौ श्रेयोऽर्थिनः पुंसः परिपन्थिनौ श्रेयोविघ्नकर्तारौ अत इति ।। ३४ ।।
भावदीपिका
।। एवं तर्हीति ।। संस्कारस्य बलवत्त्व इत्यर्थः । तथा च विधानं फलकथनं च व्यर्थमेव । संस्कारस्य बलवत्त्वात् । पूर्वदुःसंस्कारवशेन त्वदुक्तस्य पराभवसम्भवादिति भावः ।। निग्रहोऽकिञ्चित्कर इति । सम्पादितस्यापि मनोनिग्रहस्य पूर्वदुःसंस्कारवशेन तिरस्कारसम्भवान्मनोनिग्रहो व्यर्थ इत्यर्थः । अतिप्रयत्नः श्रवणादिरूपः ।। व्याहतमिति ।। निग्रह्याकिञ्चित्करत्वेऽपि निग्रहः कार्य इति व्याहतमित्यर्थः । निग्रहा-दित्यादीति ।। निग्रहात् सद्यः प्रयोजनाभावेऽपि भवत्येवातिप्रसयत्नत इत्याशयवान् तथाऽपि शक्तितो निग्रहः कार्य इत्याहेति योजना द्रष्टव्या । रागद्वेषादिजयेन सद्यो मोक्षादिप्रयोजना-भावेऽपि श्रवणादिरूपमहाप्रयत्नेन भवत्येवेत्याशयेन प्रकृतेर्बलवत्त्वान्निग्रहो यद्यप्यकिञ्चित्करः । तथाऽपि शक्तितो निग्रहः कार्य एव । तदनन्तरं महाप्रयत्नेन पूर्वसंस्कारस्याप्यन्यथाभावो-पपत्तेरिति भाष्यार्थः ।
।। अत्रेति ।। संस्कारस्य बलवत्त्वे बलवतोऽपि तस्यातिप्रयत्नेनान्यथा कर्तुं शक्यत्वे चेत्यर्थः । प्रमाणे ‘तथाऽपि’ इत्यादिकं ब्रह्मेतरदेवादिसर्वसज्जनविषयम् । दैवाद् देवादिसज्जनानां दुःसंस्कारवशेन ज्ञानादितिरोभावे सति महाप्रयत्नेन तस्यान्यथाकरणदर्शनात् । तथा हि । स्वर्गलोके युधिष्ठिरो रुद्रपत्न्याद्युद्रिक्तां द्रौपदीं दृष्ट्वा पूर्वसंस्कारवशात् स्प्रष्टुमियेष । तदनन्तरं शक्रेण सम्यक् स्वरूपोद्बोधनेन तथा यमधर्मालिङ्गनेन च सा वासना नाशिता । यथोक्तं महाभारततात्पर्यनिर्णये–
‘स्प्रष्टुं च संस्कारवशादियेष निषिध्य तं प्राह सुराधिराजः ।’ (३२-१०७)
इत्याद्युक्तम् । तथा–
‘इतीरितं तं प्रतिसन्निवृत्तं विनाशयन्मानुषवासनां स्वयम् ।
समाश्लिषच्छुद्धतनुः स्तनोत्थो धर्मो हरेः सोऽभवदाशु तत्समः ।।’ (३२-११३) इति ।
अयोग्यानां तु पूर्वसंस्कारो महता प्रयत्नेन नान्यथयितुं शक्यत इत्यवधेयम् ।। ३४ ।।
भावप्रकाशः
।। मूलप्रकृतेरिति ।। ननु ‘प्रकृतिं स्वात्मसंश्लिष्टाम्’ इति प्रथमस्कन्धतात्पर्योक्तेः दुष्टप्रकृतेः प्रातिस्विकत्वावगमात् कथमेकत्वम्? इत्यतो ‘मूल’ इत्युक्तम् । एतेन ‘न केवलमनुस्यूता किन्तु प्रातिस्विकी चास्ति’ इत्यृग्भाष्यटीकाविरोधोऽप्य-पास्तः । तस्या मूलप्रकृतिदुष्टप्रकृतिरूपव्यक्तिद्वयविषयत्वादिति । पूर्वसंस्कारस्यापि साक्षा-च्चेष्टकत्वासम्भवात् ‘रागद्वेषौ व्यवस्थितौ । तयोर्न वशमागच्छेत्’ इत्युत्तरग्रन्थानुरोधाच्चाह –तत्कार्याविति ।। व्याहतमिति ।। ‘निग्रहः किं करिष्यति’ इत्यनेन ‘तयोर्न वशमागच्छेत्’ इत्येतद्व्याहतमित्यर्थः । अत एव ‘शक्तितो निग्रहः कार्यः’ इत्यस्य व्याहतिप्रदर्शनार्थमेव निग्रहोऽकिञ्चित्कर इति प्रागुक्तम् ।। ३४ ।।