प्रजहाति यदा कामान् सर्वान् पार्थ मनोगतान् । आत्मन्येवाऽत्मना तुष्टः स्थितप्रज्ञस्तदोच्यते ।। ५५ ।।

श्रीभगवानुवाच–

प्रजहाति यदा कामान् सर्वान् पार्थ मनोगतान् ।

आत्मन्येवाऽत्मना तुष्टः स्थितप्रज्ञस्तदोच्यते ।। ५५ ।।

भाष्यम्

गमनादिप्रवृत्तिर्नात्यभिसन्धिपूर्विका । मत्तादिप्रवृत्तिवदिति ‘या निशा’ इत्यादिना दर्शयिष्यन् लक्षणं प्रथमत आह– प्रजहातीति ।। एवं परमानन्द-तृप्तः किमर्थमेवं प्रवृत्तिं करोति? इति प्रश्नाभिप्रायः । प्रारब्धकर्मणा ईष-त्तिरोहितब्रह्मणो वासनया प्रायोऽल्पाभिसन्धिपूर्विका प्रवृत्तिः सम्भवति इत्याशयवान् परिहरति ।।

भावप्रदीपिका

चोद्यद्वयपरिहारच्छेदेनोत्तरं प्रघट्टकमवतारयति–  गमना-दीति ।।  ननु ‘या निशा’ इत्यादिना दर्शयिष्यन्, एतल्लक्षणं तदुद्देश्य पृच्छेत् (?) किं कारणम् ? इत्यत आह– एवमिति ।।  ननु परमानन्दतृप्तस्येषदभिसन्धिपूर्विका प्रवृत्तिरपि कथम् ? इत्यत आह– प्रारब्धेति ।।

भावप्रकाशिका

‘का’ इति लक्षणं पृष्टम्, ‘किम्’ इति तत्प्रवृत्त्युद्देश्यम् । तदुभयोत्तरत्वेनोत्तरं ग्रन्थसन्दर्भमवतारयति– गमनादीति ।। पृच्छति लक्षणं तत्स्वरूप-ज्ञापनार्थं लोकस्य । तत्प्रवृत्त्युद्देश्यं किमिति ? इत्याकाङ्क्षायामाह– एवमिति ।।  ब्रह्म-प्रत्यक्षदर्शनेन परमानन्दमग्नत्वाद्यस्य बुद्धिर्भेरीताडनादावपि ततो नापगच्छति, तस्येतर-विषयाभिसन्धानमीषदपि कुतः ? इत्यत आह– प्रारब्धेति ।।

प्रमेयदीपिका

लक्षणप्रश्नस्यैवोत्तरं प्रतीयते । न तु ‘स्थितधीः’ इत्यादेः, इत्यतस्तदुत्तरस्थानं दर्शयन् अनन्तरप्रकरणार्थं दर्शयति– गमनादीति ।। अभिसन्धिः प्रयोजनोद्देशः । ईषदभिसन्धिसूचनाय अतिशब्दः । प्रवृत्तिमात्रमिहाभिप्रेतम् । न भाषणादिकमेवेति ज्ञापनाय ‘भाषणादि’ इति नोक्तम् । व्यवहाराय लक्षणप्रश्नो घटते । प्रवृत्त्युद्देश्यप्रश्नस्तु व्यर्थ एव । नच शक्यः प्रतिवक्तुम् । अनेकेषां प्रवृत्त्युद्देश्यस्यैकरूपस्या- भावादित्यभिप्रायेण भगवतोपेक्षितोऽसाविति किं न स्यात्? किं तदुत्तरस्थानप्रदर्शनेन? अन्यथाऽल्पमप्युद्देश्यं वक्तव्यमित्यत आह– एवमिति ।। एवं भेरीताडनादावपि ‘अचला’ इत्युक्तप्रकारेण परमानन्दतृप्तश्चेत् किमर्थं प्रवृत्तिं करोति? न कुर्यात् । करोति च । तस्मादुक्तमसदित्युक्ताक्षेप एवात्राभिप्रेतः । प्रश्नस्तु मुखत एव । अतो नोपेक्षामर्हतीति भावः । एतच्चार्जुनस्य प्रेक्षावत्त्वाद् गम्यते। एवं चेत् ‘गमनादिप्रवृत्तिः’ इत्युक्तः परिहारो न पूर्णः। प्रवृत्तिकारणानुक्तेरित्यत आह– प्रारब्धेति ।। ईषत् तिरोहितं ब्रह्म यस्यासौ तथोक्तः । परिहरति ‘द्वितीयं प्रश्नं ‘या निशा’ इत्यादौ’ इति शेषः ।।

भावबोधः

ननु गीतानुसारेण भाषणादीति वक्तव्यम् । वैपरीत्येन व्रजेतेत्युक्त-गमनादित्वेन वचने किं प्रयोजनमित्यत आह– प्रवृत्तिमात्रमिति ।। द्वितीयं प्रश्नमिति ।। प्रवृत्तिप्रश्नत्वेन भाषणादिप्रश्नानामेकरूपत्वादिति भावः ।।

भावदीपः

अनन्तरप्रकरणेति ।। ‘प्रजहाति’ इत्याद्यनेककार्यात्मकोत्तर-प्रकरणार्थमित्यर्थः । भाष्ये अनौचित्यमाशङ्क्य निराह– प्रवृत्तीति ।। इहेति ।। ‘स्थितधीः किं प्रभाषेत’ इत्यर्ध इत्यर्थः । शङ्कते– व्यवहारायेति ।। यद्युत्तरार्धे गमनप्रश्नमात्रमभिमतं तर्हि पूर्वार्धोक्तप्रश्न एव समाधानार्ह इति गमनप्रश्न एव समाधानार्ह इति बुद्ध्या भगवता ‘प्रजहाति’ इत्यादिना परिहार उच्यते । उत्तरार्धोक्तप्रश्नस्तूपेक्ष्यत्वान्न परिहृतो भगवतेति किं न स्यादित्यर्थः । तत्र हेतुः– प्रवृत्तीत्याद्यर्थ एवेति ।। व्यवहारानुपयोगादिति भावः ।। नचेति ।। किञ्चेत्यर्थः ।। अन्यथेति ।।‘व्रजेत किम्’ इत्यस्यावश्यं परिहर्तव्यत्व इत्यर्थः । उक्तमसदिति ।। ‘समाधावचला बुद्धिस्तदा योगमवाप्स्यसि’ इत्युक्तमसदित्यर्थः । अत्रेति ।। ‘व्रजेत किम्’ इत्यत्रेत्यर्थः ।। एतच्चेति ।। आक्षेपाभिप्रायवत्त्वमित्यर्थः ।।

भावरत्नकोशः

अनन्तरप्रकरणार्थमिति ।। प्रजहातीत्याद्यनेकश्लोकात्मकोत्तर-प्रकरणार्थमित्यर्थः । नन्वभिसन्धिरभिप्रायः । स चेच्छारूपः । ‘अभिप्रायो हीच्छा’ इति तर्कताण्डवोक्तेः । तथा च प्रवृत्तेरिच्छापूर्वकत्वमवर्जनीयमिति कथमभिसन्धिपूर्वकत्वनिषेध इत्यतोऽभिसन्धिशब्दस्य विवक्षितमर्थमाह– अभिसन्धिः प्रयोजनोद्देश इति  ।।  अत्यभि-सन्धिपूर्वकत्वमेव निषिध्यते । न तु सर्वथाऽभिसन्धिपूर्वकत्वमिति वा न व्याहतिरिति भावेनाह– ईषदिति ।। ननु गीतापाठक्रमानुसारेण भाषणादिप्रवृत्तिरिति भाषणीयम् । न तु ‘व्रजेत’ इत्युक्तगमनादीत्यत आह– प्रवृत्तिमात्रमिति ।। व्यावृत्तिव्यवहारयोर्लक्षणज्ञानप्रयोजनत्वादाह– व्यवहारायेति ।। प्रवृत्तीति ।। ‘व्रजेत किम्’ इति ज्ञानिप्रवृत्त्युद्देश्यप्रश्न इत्यर्थः । तज्ज्ञानेऽपि स्वस्य प्रयोजनाभावादिति भावः । वस्तुतस्तु प्रत्युत्तरमेव न युक्तं कर्तुमित्याह– न चेति  ।। अनेकेषां ज्ञानिनाम् । उपेक्षितः असौ प्रष्टा । उत्तरार्धोक्तप्रश्नस्तु उपेक्ष्यत्वान्न परिहृतो भगवतेति किं न स्यादित्यर्थः । तत्र हेतुः– प्रवृत्त्युद्देश्यस्येति ।। अन्यथा प्रवृत्त्युद्देश्यप्रश्नस्य व्यर्थत्वेनोपेक्षणीयत्वाभावे । ‘ततश्च समाधावचला । ब्रह्मप्रत्यक्षदर्शनेन भेरीताडनादावपि’ इति भाष्यं सान्वयमेवंशब्दार्थं वक्तुमनुवदति– एवमितीति ।। ‘किमर्थम्’ इत्याक्षेपतात्पर्यं–  न कुर्यादिति ।।  उक्तं ‘समाधावचला बुद्धिः’ इत्युक्तम्, परमानन्दतृप्तत्वं वा । तर्ह्याक्षेपाभिप्राय इत्येव भाषणीयमित्यत आह– प्रश्नस्त्विति ।। प्रश्नो वाचनिकः । आक्षेपस्त्वाभिप्रायिक इत्यर्थः । एतच्च उपेक्षानर्हत्वम् । केचित्तु, ‘प्रश्नस्याक्षेपगर्भत्वं किमिति कल्प्यते ? प्रश्नमात्रमेवेदं किं न स्यादित्यत आह– एतच्चेति ।। प्रश्नस्याक्षेपगर्भत्वम् । न हि प्रेक्षावानर्जुनो व्यर्थं प्रवृत्त्युद्देश्यप्रश्नं कुर्यात् । तथात्वे प्रेक्षावत्त्वहानिः स्यात् । अतस्तदन्यथानुपपत्त्या तत् कल्प्यत इति भावः’ इति व्याचक्षते । एवं चेत् प्रश्न आक्षेपगर्भश्चेत् । पूर्णः पर्याप्तः । साक्षात्कृतपरब्रह्मणो ज्ञानिनो ब्रह्म कथं तिरोहितं भवेदित्यतस्तत्र कारणोक्तिः– प्रारब्धेति ।। स्पष्टत्वात् ‘ईषत्तिरोहित-ब्रह्मणः’ इत्यत्र सामानाधिकरण्यभ्रमं निरस्यन् विग्रहं दर्शयति– ईषदिति ।। द्वितीयं प्रश्नमिति ।। भाषणादिप्रश्नानां प्रवृत्त्युद्देश्यप्रश्नत्वेनैकीकरणवचनमिति ज्ञेयम् ।।

भावदीपिका

।। अनन्तरप्रकरणेति ।। ‘श्रीभगवानुवाच प्रजहाति’ इत्युत्तरप्रकरणेत्यर्थः । ईषदभिसन्धिः देहयात्रार्थमिति शेषः । ननु गीतानुसारेण भाषणादीति वक्तव्यम् । वैपरीत्येन व्रजेतेत्युक्तगमनस्याऽदित्वेन वचने किं प्रयोजनमित्यत आह– प्रवृत्ति-मात्रमिति ।। प्रवृत्त्युद्देश्योऽर्थोऽयमिति प्रतिवक्तुं कस्मान्न शक्य इत्यत आह– अनेकेषा-मिति ।। पुरुषाणामित्यर्थः । एकरूपस्य एकप्रकारस्य ।। उत्तरस्थानेति ।। ‘या निशा’ इत्यादिरूपेत्यर्थः ।। अन्यथेति ।। प्रवृत्त्युद्देश्यप्रश्नस्य व्यर्थत्वेनोपेक्षितत्वाभावे यथोत्तरत्र महदुद्देश्यं तत्प्रवृत्तौ कथ्यत एवमल्पमप्युद्देश्यं यत्प्रवृत्तावस्ति तदपि वक्तव्यं स्यादित्यर्थः । तथाचाल्पमुद्देश्यं यथा नोक्तमेवं महदुद्देश्यमपि नोक्तमित्येवास्तु, किं तदुत्तरस्थानप्रदर्शनेनेति भावः । न कुर्यादित्यतः परं कारणाभावादिति शेषः । उक्तं परमानन्दतृप्तत्वम् । मुखतः आपाततः । अतः आक्षेपरूपत्वात् ।। अर्हतीति ।। किन्तु परमानन्दतृप्तत्वेऽपि प्रवृत्तिर्घटते मत्तादिवदित्याशयेन गमनादिप्रवृत्तिरित्यादिना त्वदुत्तरस्थानप्रदर्शनं कार्यमिति ज्ञेयम् । नन्वाक्षेपगर्भत्वं प्रश्नस्य किमिति कल्प्यते? प्रश्नमात्रमेवैतत् किं न स्यादित्यत आह– एतच्चेति ।। प्रश्नस्याऽक्षेपगर्भत्वम् । नहि प्रेक्षावानर्जुनो व्यर्थं प्रवृत्त्युद्देश्यप्रश्नं कुर्यात् । तथात्वे प्रेक्षावत्त्वहानिः स्यात् । अतस्तदन्यथानुपपत्त्या एतत् कल्प्यत इति भावः ।। एवं चेत् आक्षेपगर्भप्रश्नश्चेत् । न पूर्णः उक्ताक्षेपपरिहारासमर्थः ।। द्वितीयं प्रश्नमिति ।। ननु गमनादि-प्रश्नस्य चतुर्थत्वात् चतुर्थं प्रश्नमिति वक्तव्यम् । सत्यम् । प्रवृत्तिप्रश्नत्वेन भाषणादिप्रश्नानामेक-रूपत्वाभिप्रायेण द्वितीयमित्युक्तमित्याशयः ।

भावप्रकाशः

 ननु अभिसन्धिरभिप्रायो ज्ञानमेव । तथा च गमनादिप्रवृत्तेर्ज्ञान-पूर्वकत्वात् कथमभिसन्धिपूर्वकत्वनिषेध इत्यत आह– अभिसन्धिरिति ।। ननु पाठक्रमेण भाषणादीति वक्तव्यम् । गमनादीति कथमुक्तमित्यत आह– उक्तमिति ।। परमानन्दतृप्तत्व-मित्यर्थः । द्वितीयं प्रश्नमिति ।। भाषणादिप्रश्नानां प्रवृत्त्युद्देश्यप्रश्नत्वेनैकत्वादकेवचनमिति बोध्यम् ।।

Load More