यज्ञदानतपःकर्म न त्याज्यं कार्यमेव तत् । यज्ञो दानं तपश्चैैव पावनानि मनीषिणाम् ।। ५ ।।
यज्ञदानतपःकर्म न त्याज्यं कार्यमेव तत् ।
यज्ञो दानं तपश्चैैव पावनानि मनीषिणाम् ।। ५ ।।
भावरत्नकोशः
गीताक्षरार्थस्तु ‘निश्चयं शृणु’ इति प्रतिज्ञातमुच्यते– यज्ञेत्यादि द्वाभ्याम् । तत् प्रकृतं सप्तदशाध्यायोक्तरीत्या वेदवेद्यं वा यज्ञः दानं तप इत्येवं त्रिविधं कर्म न त्याज्यम्, किन्तु कार्यं कर्तव्यमेव । कस्मात् यज्ञो दानं तपश्च एतानि पावनानि विशुद्धिकराणि । ‘मनीषिणामेव’ इत्युक्त्या भगवत एव यज्ञादिसर्वकर्माराध्यत्व-तन्मुख्यकर्तृत्वभोक्तृत्वादि अनुसन्दधतां फलमनभिसन्दधतां च कर्म न बन्धकमेव । अमनीषिणां तु तद् बन्धकमिति विभावितं भवति ।
ननु ज्योतिष्टोमादियज्ञेषु हिरण्यादिदानेषु यतीनां शूद्रादीनां चाधिकाराभावात्, ऊर्ध्व-रेतस्त्वादितपस्सु गृहस्थादीनाम् अधिकाराभावात् कथं सर्वेषां ‘न त्याज्यम्, कार्यमेव तत्’ इति यज्ञादि विधीयते इति चेद् उच्यते । नात्र सर्वेषां ज्योतिष्टोमादियज्ञाः, हिरण्यादिदानानि, ऊर्ध्वरेतस्त्वादि तपांस्येव विधीयन्ते, किन्तु द्रव्ययज्ञज्ञानयज्ञादियज्ञाः विद्याभयदानानि, सत्यवचनादितपांसि । तेषां च यत्यादीनामपि उचितत्वाद् युक्तः सर्वेषां तद्विधिः । ‘नाग्निर्न यज्ञः’ इत्यादेस्त्रिवर्णबाह्यानां न क्वापि यज्ञेऽधिकार इति चेत् द्रव्ययज्ञाद्यभावेऽपि तेषां स्वाध्याययज्ञेऽधिकारोऽस्त्येव । न च वेदानधिकारेण तदभावः । विष्णुनामस्वाध्याययज्ञे अधिकारसम्भवात् । सत्योपवासादितपस्सम्भवाच्च । तस्माद् द्रव्ययज्ञादीनां मध्ये स्वोचितो यज्ञः, विद्याभयदानादि स्वोचितं दानम् स्वोचितं तपश्च सर्ववर्णाश्रमिभिः अन्यैश्च कार्यमेवेति गीताचार्याशयो भाष्यटीकादावाविष्कृतः ।। ५ ।।