अथ चित्तं समाधातुं न शक्नोषि मयि स्थिरम् । अभ्यासयोगेन ततो मामिच्छाप्तुं धनञ्जय ।। ९ ।।

अथ चित्तं समाधातुं न शक्नोषि मयि स्थिरम् ।

अभ्यासयोगेन ततो मामिच्छाप्तुं धनञ्जय ।। ९ ।।

भावरत्नकोशः

गीताक्षरार्थस्तु– अथेति ।। अथ मयि स्थिरम् अचञ्चलं यथा तथा समाधातुं स्थापयितुं न शक्नोषि चेत्, ततः तर्हि, अभ्यासयोगेन विष्णुशास्त्र-श्रवणमननावृत्तिरूपोपायेन माम् आप्तुं ज्ञातुम् इच्छ निश्चेतुं प्रयतस्व ।। ९ ।।