देही नित्यमवध्योऽयं देहे सर्वस्य भारत । तस्मात् सर्वाणि भूतानि न त्वं शोचितुमर्हसि।। ३० ।।

देही नित्यमवध्योऽयं देहे सर्वस्य भारत ।

तस्मात् सर्वाणि भूतानि न त्वं शोचितुमर्हसि।। ३० ।।

भाष्यम्

देहयोगवियोगस्य नियतत्वादात्मनश्चेश्वरसरूपत्वात् सर्वथा अनाशान्न शोकः कार्य इत्युपसंहर्तुमैश्वरं सामर्थ्यं पुनर्दर्शयति– आश्चर्यवदिति ।। दुर्लभत्वेनेत्यर्थः । तद्धि आश्चर्यं लोके । दुर्लभोऽपीश्वरसरूपत्वात् सूक्ष्मत्वाच्चात्मनः तद्द्रष्टा ।। २९,३० ।।

भावप्रदीपिका

उत्तरश्लोकद्वयमवतार्य व्याचष्टे– देहेति ।। द्वितीयश्लोकेन उपसंहर्तुम् । ‘अप्रमेयस्य’ इत्याद्युक्तत्वात् पुनरिति ।। यः कश्चिदेनं जीवं पश्यति स आश्चर्यवत् केन प्रकारेण? इत्यत आह– दुर्लभत्वेनेति ।। दुर्लभत्वेऽपि कुत आश्चर्यता? इत्यत आह– तद्धीति ।। सर्वैः ‘अहम्’ इति स्वात्मनो दृष्टत्वात् कथमात्मद्रष्टा दुर्लभोऽपि येन तस्याश्चर्यता? इत्यत आह– दुर्लभोऽ-पीति ।। ईश्वरस्वरूपत्वादिनाऽऽत्मद्रष्टा दुर्लभ इत्यर्थः । जीवस्यैवं सामर्थ्ये तद्बिम्बेश्वरस्याति-शयितं सामर्थ्यमुक्तं भवति ।। २९–३० ।।

भावप्रकाशिका

पुनरीश्वरसारूप्याभिधानस्योपसंहारार्थत्वान्न पुनरुक्तिर्दोषायेति दर्शयन् उत्तरश्लोकद्वय-मवतार्य व्याचष्टे– देहयोगवियोगस्येत्यादिना ।। सर्वथाऽनाशादिति ।। स्वरूपेण वा, बिम्ब-वियोगाख्यनिमित्ताद्वा, शस्त्रपावकाम्ब्वादिनिमित्तविशेषाद्वा नाशाभावात् । ‘देही’ इत्यनेनोप-संहर्तुमाश्चर्यवदित्यनेनैश्वरं सामर्थ्यं दर्शयति । ‘अप्रमेयस्य’, ‘अजो नित्यः शाश्वतः’, ‘नित्यः सर्वगतस्थाणुः’ इत्यादिना दर्शितत्वात् पुनरित्यर्थः । ननु जीवस्यैवाल्पत्वात् कथं तद्द्रष्टु-राश्चर्यता? इत्यत आह– दुर्लभत्वेनेति ।। दुर्लभत्वस्याश्चर्यत्वे हेतुत्वं च लोकतः सिद्धमित्याह– तद्धीति ।। ननु स्वं स्वमात्मानं सर्वेऽपि पश्यन्ति । अतः कथं तद्द्रष्टा दुर्लभः? येनाश्चर्यतेत्यत आह– दुर्लभोऽपीति ।। न हि यः कश्चिदात्मानम् ‘अप्रमेयत्वादिलक्षणेश्वरस्य सरूपत्वा-न्नित्योऽहम्’ इति पश्यति । अतस्तादृशात्मद्रष्टाऽऽश्चर्यो दुर्लभश्च । एवंविधात्मद्रष्ट्राश्चर्यत्व-कथनेनैश्वरमेव सामर्थ्यमभिहितं भवतीत्यर्थः । यद्वा तद्द्रष्टाऽपि दुर्लभ इत्यन्वयः । ईश्वरज्ञातृ-वक्तृवत् ‘आश्चर्योऽस्य वक्ता कुशलोऽस्य लब्धा आश्चर्योऽस्य ज्ञाता’ इति तस्याश्चर्यत्वश्रुतेः । ईश्वरप्रतिबिम्बत्वात् जीवस्येत्यर्थः ।। २९–३० ।।

प्रमेयदीपिका

आश्चर्यवत्’ इति श्लोकस्य न प्रकृतसङ्गतिर्दृश्यते । तदुत्तर(श्लोक)श्च पुनरुक्त इत्यत आह– देहयोगेति ।। द्वन्द्वैकवद्भावोऽयम् । सर्वथेति ।। बिम्बनाशाभावादिभिः सर्वैः प्रकारैः । इत्युपसंहर्तुम् उत्तरेण श्लोकेन । ईश्वरसरूपत्वेऽपि कथमनाश इत्याशङ्कापरिहारहेतुत्वात् ‘उप-संहर्तुम्’ इत्युक्तम् । ‘अप्रमेयस्य’ इत्यादिना प्रागुक्तत्वात् ‘पुनर्’ इति । ‘एनं यः कश्चित् पश्यति स आश्चर्यवत्’ इत्याद्युक्त्वा चतुर्थपादेन तदुपपादनं क्रियते । तं व्याचष्टे– दुर्लभत्वे-नेति ।। दुर्लभत्वमाश्चर्यशब्दप्रवृत्तौ निमित्तमित्यर्थः ।। तत्कथम्? इत्यत आह– तद्धीति ।।

आश्चर्यमनित्ये’ (पा.सू.६.१.१४७) इत्यादि स्मृतिं हिशब्देन सूचयति । सर्वेषाम् आत्मद्रष्टृत्वात् कथमात्मद्रष्टा दुर्लभोऽपि येनाश्चर्यवत् इत्युच्यते? इत्यत आह– दुर्लभोऽपीति ।। ईश्वरसरूपत्वादिनाऽत्मद्रष्टा दुर्लभ इति भावः ।। अनेनाश्चर्य एवाश्चर्यवत् (इत्युच्यते) इत्युक्तं भवति । यत्प्रतिबिम्बस्य जीवस्य द्रष्टाऽपि दुर्लभः किं तत्सामर्थ्यं वर्णनीयम्? इतीश्वरसामर्थ्य-प्रदर्शनम् ।। ‘देहयोगवियोगस्य’ इत्यादिना ‘देही नित्यम्’ इति (उत्तर)श्लोको(ऽपि) व्याख्यातः ।। २९,३० ।।

भावदीपः

तदुत्तरः चतुर्थः पादः ।। ननु ‘सर्वथा नाशाभावान्न शोकः कार्यः’ इत्युपसंहारे ईश्वर-सरूपत्वाख्यप्रतिबिम्बत्वमात्रमेव वाच्यम् । ईश्वरसामर्थ्योक्तेः क्वोपयोगः? इत्यतः शङ्का-निवर्तकत्वेनोपयोगमाह– ईश्वरसरूपत्वेऽपीति ।। इति शङ्कापरिहारहेतुत्वादीश्वरसामर्थ्योक्तेरिति योज्यम् ।। आश्चर्यमनित्य इत्यादि स्मृतिमिति ।। पूर्वमदृष्टत्वेनोत्तरत्र भावित्वेन हेतुना अनित्यशब्दलक्षिते अद्भुतेऽर्थे आश्चर्यशब्दो निपात्यत इति षष्ठाद्यपादीयपाणिनिसूत्रार्थः ।।

आङ्पूर्वाच्चरेः यत्प्रत्ययः, सुडागमश्चेत्युक्तं वृत्तौ ।। अनेनेति ।। ‘श्रुत्वाऽप्येनम्’ इत्युप-पादनेनेत्यर्थः । एनं जीवम् ईश्वरसरूपत्वादिना यः पश्यति वदति शृणोति स आश्चर्यवद् आश्चर्य एव दुर्लभ इत्यर्थ इत्युक्तं भवति । कथमनेनेश्वरसामर्थ्यं दर्शितम्? इत्यत आह– यत्प्रतिबिम्बस्येति ।। ‘द्रष्टाऽपि’ इत्युपलक्षणम् । वक्ता श्रोता चेत्यपि  ग्राह्यम् ।। २९,३० ।।

वाक्यार्थप्रदीपः

ननु देहयोगश्च वियोगश्चेतीतरेतरयोगद्वन्द्वे देहयोगवियोगयोरिति द्विवचनेन भवितव्यं, देहयोगवियोगस्येत्येकवचनं तु कथमित्यत आह– द्वन्द्वैकवद्भावोयमिति ।। ‘सर्वो द्वन्द्वो विभाषया एकवद्भवती’ति परिभाषासूत्रादिति भावः । आश्चर्यमनित्य इति ।। आङपूर्वात् चरेः, ‘चरेराङि चागुरावि’ति यत्प्रत्यये सति अनित्ये सुट् अनेन निपात्यते । लोके च यदनुचितमदृष्टपूर्वमुपलभ्यते तत्तु कादाचिक्तत्वरूपानित्यत्वव्याप्तमिति विषयाश्रितानित्यतया विस्मयहेतुत्वरूपमद्भुतत्वमुपलक्ष्यते । ततश्च दुर्लभत्वस्याश्चर्यपदप्रवृत्तिनिमित्ततासिद्धिरिति भावः । इदमुक्तं भवति । नात्र कादाचित्कत्वरूपानित्यत्वरूपमुख्यार्थेनानित्यशब्दोऽर्थवान् । तथासति अनित्ये घटादावपि तत्प्रसङ्गात् । किन्त्वद्भुतत्वलक्षक एव । तत्र मूलभूतसम्बन्धा-पेक्षायां यदनुचितम् अदृष्टपूर्वमुपलभ्यते तस्यैव विस्मयहेतुत्वात् । विस्मयहेतुभूतस्य च तस्य कादाचित्कत्वरूपानित्यत्वेन व्याप्तत्वात् व्यापकाभिधायिनोऽनित्यचशब्दस्य तदुपलक्षणत्वं युक्तमिति प्रदर्शयितुं व्याप्त्युक्तिरिति ज्ञेयम् ।।

भावरत्नकोशः

प्रकृतेति ।। आत्मनित्यत्वं हि प्रकृतमशोच्यत्वं वा । तत्राऽश्चर्यवद् दर्शनवन्दनश्रवण-कर्मत्वादेरनाकाङ्क्षितत्वादसङ्गतिरित्यर्थः । तदुत्तरः ‘देही नित्यः’ इति श्लोकः । अवध्यत्वस्य अशोच्यत्वस्य च बहुशः प्रागुक्तत्वात् पुनरुक्त इत्यर्थः । ‘देहयोगवियोगस्य’ इति कथम्? यावता योगश्च वियोगश्चेतीतरेतरयोगद्वन्द्वे द्विवचनापत्तिरित्यत आह– द्वन्द्वैकेति ।। इतरेतर-योगद्वन्द्वे ‘सर्वो द्वन्द्वो विभाषयैकवद् भवति’ इति समस्यमानयोरेकवद्भावादेकवचनं युक्त-मित्यर्थः । ‘प्रकारवचने थाल्’ इति स्मरणादाह बिम्बनाशाभावादिभिः सर्वैः प्रकारैरिति ।। आदिपदेन बिम्बोपाधिसन्निधिनाशाभावः शस्त्रपावकाबादिनिमित्तकनाशाभावश्च ग्राह्यः । उत्तरश्लोक एव तस्मादिति श्रवणादुक्तम्– उत्तरेणेति ।।

ननु सर्वथा नाशाभावान्न शोकः कार्य इत्युपसंहारे कर्तव्ये ईश्वरसरूपत्वाख्य-तत्प्रतिबिम्बत्वमेव वक्तव्यम् । ईश्वरसामर्थ्यवचनस्य क्वोपयोगः । भाष्ये च सामर्थ्यवर्णनस्योप-संहारं प्रति प्रयोजकत्वं वक्तुमुपसंहर्तुमिति तुमुन्प्रत्ययः । ‘तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम्’ इति क्रियाफलकक्रियावाचिशब्द उपपदेऽनुशिष्ट उपात्तः । तत् कथं भगवत्सामर्थ्याभिधान-मुपसंहारे प्रयोजकमित्यत आह– ईश्वरसरूपत्वेऽपीति ।। परिहारहेतुत्वाद् ईश्वरसामर्थ्योक्तेरिति शेषः । अनेन पूर्वोक्तेश्वरसरूपत्वहेतोरन्यथासिद्धिशङ्कापरिहाराय तस्मादिति गीतापदस्य एतादृशसामर्थ्योपेतेश्वरप्रतिबिम्बत्वादित्यप्यर्थो द्रष्टव्य इत्युक्तं भवति । पश्यति वदति शृणोति चेति वक्तव्ये श्रवणवचनयोर्दर्शनार्थतया दर्शनस्य प्राधान्याभिप्रायेण पश्यतीत्येवोक्तम् । भाष्ये च द्रष्टेति । आश्चर्यशब्दप्रवृत्तौ निमित्तमिति ।। दुर्लभत्वेन आश्चर्यवदुच्यत इति गीतार्थ इति भाष्यार्थ इत्यर्थः ।।

इदमुक्तं भवति । एनं जीवं यः कश्चित् पश्यति वदति शृणोति स आश्चर्य एवेत्युक्ते तत्र आश्चर्यशब्दप्रवृत्तौ किं निमित्तमित्याकाङ्क्षायामीश्वरप्रतिबिम्बत्वादिप्रकारेण जीवद्रष्ट्रादेर्दुर्लभत्वेन दुर्लभत्वमाश्चर्यशब्दप्रवृत्तौ निमित्तमिति वक्तुम् एनं जीवं कश्चिच्छ्रुत्वाऽपि न वेदेति ईश्वर-प्रतिबिम्बत्वलक्षणधर्मावच्छिन्नजीवद्रष्टुर्दुर्लभत्वप्रतिपादनाभिप्रायेण निषिध्यते । दुर्लभं हि निषेध-मर्हति विद्यमानमपीति ।। ‘तद्ध्याश्चर्यं लोके’ इति भाष्ये यद् दुर्लभमिति योज्यम् । आश्चर्य-मनित्य इतीति ।। पूर्वमदृष्टत्वेनोत्तरत्राभावित्वेन हेतुनाऽनित्यशब्दलक्षितेऽद्भुतेऽर्थे आश्चर्यशब्दो निपात्यत इति पाणिनिसूत्रार्थः । ‘चरेराङि चागुरौ’ इति यत्प्रत्यये निपातनात् सुडिति वृत्ति-विकारः । अनित्यशब्दार्थाद्भुतत्वमेव आकस्मिकत्वापरपर्यायं दुर्लभत्वमत्र विवक्षितमिति न प्रकृतासङ्गतिशङ्केत्याहुः । आदिशब्देन ‘विस्मयोऽद्भुतमाश्चर्यम्’ इत्यादिकोशसङ्ग्रहः ।।

सर्वेषामिति ।। स्वं स्वमात्मानं सर्वेऽपि पश्यन्तीति तद्दर्शनस्य विश्वजनीनत्वादिति भावः । दुर्लभोऽपीति ।। आश्चर्यशब्दप्रवृत्तिनिमित्तदुर्लभत्ववानपि कथमित्यर्थः । ‘ईश्वरसरूपत्वादिना’ इत्यत्र आदिशब्देनाणुत्वरूपसूक्ष्मत्वग्रहः । आत्मद्रष्टा दुर्लभ इति व्याख्यानं गीताक्षराननु-गुणम् । तत्र आश्चर्यवदिति दुर्लभसाम्याभिधानादित्यत आह– अनेनेति ।। ‘दुर्लभः’ इति भाष्येणेत्यर्थः । एवेति ।। ‘विचित्रा हि तद्धितगतिः’ इति वचनात् स्वार्थिकोऽत्र वतिर्व्याख्येय इति भावः ।

एतेनाकस्माद् दृश्यमानमाश्चर्यम् । तेन तुल्यमाश्चर्यवदिति परभाष्यं निरस्तम् । ‘आश्चर्योऽस्य वक्ता कुशलोऽस्य लब्धा आश्चर्योऽस्य ज्ञाता’ इति काठकश्रुतौ भगवज्ज्ञानिनो दुर्लभत्वोक्तिवदिहापि भगवदीयत्वज्ञानिनो दुर्लभत्वोक्तेरुचितत्वात् । जीवस्य दुर्विज्ञेयत्व-मत्रोच्यत इति त्वयाऽवतारितत्वाच्चेति । ईश्वरसामर्थ्यं दर्शयतीति भाषितम् । कथमत्र श्लोके ईश्वरसामर्थ्यप्रदर्शनं दृश्यत इत्यत आह– यत्प्रतिबिम्बस्येति ।। द्रष्टाऽपीति ।। अनेनापिशब्दस्य स्वस्थान एवान्वय इत्युपेत्य कथमात्मद्रष्टा दुर्लभोऽपीत्युक्तं प्राक् । इदानीं तद्द्रष्टाऽपि दुर्लभ इत्यन्वय इति प्राक् टीकारीत्या द्रष्टेत्यनेनाऽप्यन्वय इत्युक्तं भवति ।। २९ ।।

गीताक्षरार्थस्तु– व्याख्यात इति ।। देहयोगवियोगयोर्नियतत्वादात्मनश्चेश्वरसरूपतया सर्वथा नाशाभावान्न शोकः कार्य इत्युपसंह्रियते– देहीति ।। हे भारत, यस्मादयं जीवः देहे बाध्यमानेऽपीति शेषः । देही देहयोगवान् इत्येतत् नित्यं नियतम् । तथाऽपि सर्वस्य षष्ठी तृतीयार्थे बिम्बनाशाभावादिना सर्वेण प्रकारेणावध्यश्च । तस्मात् त्वं सर्वाणि भूतानि प्रति जनिमृतिनिमित्तं दुःखं मदीयानां भविष्यतीति बुद्ध्या शोचितुं नार्हसीत्येवं व्याख्यात इत्यर्थः । अनेनैव यत् परैः कैश्चिच्च सर्वस्य देवादिदेहिनः प्राणिजातस्येति भाषितं तदयुक्तम् । देहिन इति व्याख्याने प्रयोजनाभावात् । देह इत्यनेनैव देहिन इति लाभादिति ।।

भाष्ये सर्वस्य सर्वथा इति व्याख्यातमित्युक्तं भवति । ‘एषा तेऽभिहिता साङ्ख्ये’ इत्यत्र साङ्ख्यशब्दार्थो भाष्यते ज्ञानमिति ।। ततः प्राक्तनाः ‘स्वधर्मम्’ इत्यादयः कतिचन श्लोकाः कुतो न व्याख्यायन्त इत्यत आह– स्वधर्ममित्यादय इति ।। अतिरोहितार्थत्वात् अगूढार्थ-त्वात् ।। ३० ।।

भावदीपिका

तदुत्तरश्लोकश्चेति ।। ‘देही नित्यम्’ इति श्लोकश्चेत्यर्थः । आत्मनित्यतायाः पूर्वं प्रतिपादि-तत्वादिति भावः । ननु देहयोगवियोगयोरिति वक्तव्यम् । देहयोगवियोगस्येति तु कथम्? इत्यत आह– द्वन्द्वेति ।। ‘सर्वो द्वन्द्वो विभाषयैकवद् भवति’ इति वचनात् द्वन्द्वैकवद्भावो नपुंसकत्वं चेत्यर्थः ।। ननु जीवनित्यत्वोपसंहारायेश्वरप्रतिबिम्बत्वमेव वक्तव्यम् । ईश्वरसामर्थ्यवचनस्य कथमुपयोगः । येन तद्वचनस्योपसंहर्तुमित्युपसंहारार्थत्वमुच्यत इत्यत आह– ईश्वरसरूप-त्वेऽपीति ।। इश्वरप्रतिबिम्बत्वेऽपीत्यर्थः । परिहारहेतुत्वाद् ऐश्वरसामर्थ्यवचनस्येति शेषः ।।

आश्चर्यशब्दप्रवृत्तौ निमित्तमिति ।। अनेनैनं जीवं यः कश्चित्तु पश्यति वदति शृणोति स आश्चर्यवद् आश्चर्यः एवेत्युक्ते जीवद्रष्टृत्वादिमति आश्चर्यशब्दप्रवृत्तौ किन्निमित्तमित्याकाङ्क्षाया-मीश्वरप्रतिबिम्बत्वादिना जीवद्रष्टृत्वादिमतो दुर्लभत्वेन दुर्लभत्वप्रतिपादनार्थमभाव उच्यते । दुर्लभं हि नास्तीत्युच्यत इति गीतार्थ इति भाष्याभिप्राय इत्युक्तं भवति । अत्र सर्वत्रापि विशिष्टद्रष्टृविशेषणं दुर्लभत्वादिकं विशेषणीभूतदर्शनविशेषणमिति ज्ञेयम् । श्रवणमननयो-र्दर्शनार्थत्वात् प्राधान्येन द्रष्टृत्वस्यैव भाष्ये टीकायां च ग्रहणमिति च ज्ञातव्यम् । मूले ‘तद्धि’ इत्यस्य दुर्लभं हीत्यर्थः ।। आश्चर्यमनित्य इति ।। पूर्वमदृष्टत्वेनाग्रे चाभावित्वेन निमित्तेना-नित्यशब्दवाच्येऽर्थे आश्चर्यशब्दो निपात्यत इति सूत्रार्थः ।। सर्वेषामिति ।। मामहं जानामीति स्वात्मनः साक्षिसिद्धत्वात् परात्मनोऽपि चेष्टालिङ्गैरवगतत्वादित्येवं सर्वेषामप्यात्मज्ञानित्वा-दित्यर्थः ।। दुर्लभोऽपीति ।। आश्चर्यशब्दप्रवृत्तिनिमित्तदुर्लभत्ववानपि कथमित्यर्थः । आश्चर्यशब्दप्रतिपाद्यत्वं त्वनाश्चर्यस्यापि सम्भवतीति भावः । ‘ईश्वरसरूपत्वादिना’ इत्यादिपदेन सूक्ष्मत्वादित्युक्ताणुत्वसङ्ग्रहः ।। इत्युच्यत इति ।। नत्वाश्चर्य इव विद्यमान आश्चर्यवदित्युच्यत इत्यर्थः । तथाच स्वार्थे वतिरिति भावः ।।

ननु कथमनेनैश्वरसामर्थ्यप्रदर्शनमित्यत आह– यत्प्रतिबिम्बस्येति ।। ईश्वरप्रतिबिम्ब-स्येत्यर्थ ।। व्याख्यात इति ।। वधाभावः शोकाभावस्य निमित्तमिति कथनेनेत्यर्थः ।। एव-मिति ।। ये श्लोका न व्याख्यातास्ते सर्वेऽप्यतिरोहितार्था द्रष्टव्याः ।। २९–३० ।।

भावप्रकाशः

इतरेतरयोगद्वन्द्वे द्विवचनापत्तिरित्यत आह– द्वन्द्वैकवद्भावोयमिति ।। इतरेतरयोगद्वन्द्वे सर्वो द्वन्द्वो विभाषयैकवद्भवतीति । समस्यमानपदार्थयोरेकवद्भाव इत्यर्थः । ततश्चैकवचनं युक्तमिति भावः । ननूपसंहर्तुं दर्शयतीत्यनेनोपसंहारं प्रतीश्वरसामर्थ्यप्रदर्शनस्य प्रयोजकत्व-मुक्तम् । तुमन्ण्वुलौ क्रियायां क्रियार्थायामिति क्रियाफलकक्रियावाचिशब्दे उपपदे सति तुमन्-प्रत्ययविधानात् । नच साक्षात् प्रयोजकत्वं सम्भवतीत्याशङ्क्य परम्परया तत्सम्भवतीत्याह– ईश्वरसरूपत्वेऽपीतीति ।। ईश्वरसामर्थ्यदर्शनस्येत्युपस्कर्तव्यम् । आश्चर्यमनित्य इति ।। अनित्यशब्देनानित्यविशेषोद्भुतं गृह्यते तस्मिन्नाश्चर्यमिति निपात्यत इति सूत्रार्थो ज्ञेयः । यद्यप्येवं सति दुर्लभत्वस्य नाश्चर्यशब्दप्रवृत्तिनिमित्तत्वलाभ इत्यसङ्गतमेतत् । तथाप्यद्भुतत्वमा-कस्मिकत्वम् । तथा मनोरमायामुणादिवृत्तौ स्पष्टप्रतीतेः । आकस्मिकत्वं च दुर्लभत्वमेवेति प्रकृतसङ्गतिरिति मावः । आदिपदेन विस्मयोद्भुतमाश्चर्यमिति कोशसङ्ग्रहः । आत्मद्रष्ट्रत्वा-दिति ।। अत्र भाष्ये च द्रष्टृत्वस्यैव ग्रहणं श्रवणवचनयोः दर्शनार्थत्वेन प्राधान्यादिति बोध्यम् । नन्वात्मद्रष्टुः दुर्लभत्वोक्तौ गीताविरोधः । तत्राश्चर्यवदिति दुर्लभसाम्योक्तेरित्यत आह– अनेनेति ।। विचित्रा तद्धितगातिरिति वचनात् स्वार्थिको वतिरिति भावः ।।

कथमेतत् श्लोके ईश्वरसामर्थ्यप्रदर्शनमित्यत आह– यत्प्रतिबिम्बस्येति ।। इत्याशङ्का-परिहारहेतुत्वादिति ।। आश्चर्यवदिति श्लोके ईश्वरस्य सर्वगतत्वनित्यत्वादिसामर्थ्यमुच्यते । तच्चाप्यव्यवहिताग्रिमवाक्ये स्फुटम् । तथा च बिम्बोपाधिसन्निधिनाशाभावादिहेतुना जीवस्या-नाश इति परिहारहेतुत्वादित्यर्थः । व्याख्यात इति ।। हे भारत यस्मादयं जीवो देहेऽपगतेपीति शेषः । देही । संसर्गे इनिः । देहसंयोगवान् इत्येतन्नित्यं नियतम् । तथाऽयं । सर्वस्य तृतीयार्थे षष्ठी । सर्वेण बिम्बनित्यत्वादिहेतुनाऽवध्यश्च । तस्मात्त्वं सर्वाणि भूतानि प्रति ‘जनिमृतिनिमित्तं दुःखं मदीयानां भविष्यतीति बुद्ध्येति यावत्’, शोचितुं नार्हसीति एवं व्याख्यात इत्यर्थः ।।