अविभक्तं च भूतेषु विभक्तमिव च स्थितम् । भूतभर्तृ च तज्ज्ञेयं ग्रसिष्णु प्रभविष्णु च ।। १७ ।।

अविभक्तं च भूतेषु विभक्तमिव च स्थितम् ।

भूतभर्तृ च तज्ज्ञेयं ग्रसिष्णु प्रभविष्णु च ।। १७ ।।

भावरत्नकोशः

गीताक्षरार्थस्तु भूतेषु सुरनरतिर्यगादिषु प्राणिषु अविभक्तं प्राज्ञबुद्ध्यपेक्षया स्वयम् अन्तर्भेदहीनमपि, विभक्तम् अज्ञप्रतीत्यपेक्षया भिन्नम् इव स्थितम् । भूतभर्तृभूतानां पोषकं स्थितिकाले, ग्रसिष्णु ग्रसनशीलं प्रलयसमये, प्रभविष्णु नानाविध-जगदुत्पादशीलम् इति तद् ब्रह्म ज्ञेयम् ।। १७ ।।