तमेव शरणं गच्छ सर्वभावेन भारत । तत्प्रसादात् परां शान्तिं स्थानं प्राप्स्यसि शाश्वतम् ।। ६२ ।।

तमेव शरणं गच्छ सर्वभावेन भारत ।

तत्प्रसादात् परां शान्तिं स्थानं प्राप्स्यसि शाश्वतम् ।। ६२ ।।

भाष्यम्

परोक्षवचनं तु द्रोणं प्रति भीमवचनवत् ।। ६१,६२ ।।

भावप्रदीपिका

उत्तरश्लोकसन्दर्भमवतारयति– पुनरिति ।।

प्रमेयदीपिका

‘ईश्वरस्सर्वभूतानां हृद्धेशेऽर्जुन तिष्ठति’ ,‘तमेव शरणं गच्छ’ ‘तत्प्रसादात्’ इत्यादिरूपात् परोक्षवचनात् कृष्णस्यानीश्वरत्वं प्रतीयते । तन्निराकर्तुमाह– परोक्षेति ।। निश्चितार्थत्वाभिप्रायेण । ‘अन्यथा सिद्धम्’ इति शेषः

।। ६१,६२ ।।

भावरत्नकोशः

भाष्ये ‘भीमवचनवत् इत्यत्र–

यदि त्वं शत्रुमात्मानं मन्यसे तत्तथाऽस्त्विह ।

एष ते सदृशं कर्म शत्रौ भीमः करिष्यति ।।’

इति द्रोणपर्वणि द्रोणं प्रति भीमवचनवदित्यर्थः । ‘भीमवचनवत्’ इत्यनन्तरं शेषमाह– निश्चितेति ।। ‘निश्चितार्थः स तु ज्ञेयो यत्रात्मैव परोक्षतः । उच्यते....’ इति तात्पर्य-निर्णयोदाहृतवचनात् निश्चितार्थाभिप्रायेण परोक्षवचनम् अन्यथासिद्धमिति न तत् कृष्णस्या-नीश्वरत्वं प्रत्याययितुं शममिति भावः ।।

गीताक्षरार्थस्तु- यस्मादेवम् ईश्वर एव स्वतन्त्रः, त्वदादिजीवाश्च तदधीनाः, तस्मात् मिथ्याध्यवसायं परित्यज्य तमेवाश्रय इत्युच्यत– तमेवेति ।। सर्वभावेन सर्वप्रकारेण तम् ईश्वरमेव शरणं गच्छ । तत्प्रसादात् तस्य ईश्वरस्यानुग्रहात् पराम् उत्तमां शान्तिं बुद्धेर्भगवति निष्ठां प्राप्स्यसि, ततश्च शाश्वतस्थानं वैकुण्ठादि प्राप्स्यसि । ‘ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति’, ‘तमेव शरणं गच्छ तत्प्रसादात् ’ इत्यादिरूपात् परोक्षवचनात् भगवतः श्रीकृष्णस्य ईश्वरादन्यत्वमिति शङ्का ‘परोक्षवचनं तु द्रोणं प्रति भीमवचनमिव निश्चितार्थत्वाभिप्रायेणा-न्यथासिद्धम्’ इत्यादिनाऽऽकरे एव परिहृता ।। ६२ ।।

भावदीपिका

‘निश्चितार्थः स तु ज्ञेयो यत्रात्मैव परोक्षतः । उच्यते’ इति तात्पर्योदाहृतवचनमनुसन्धायाह– निश्चितार्थत्वाभिप्रायेणेति ।। ‘द्रोणं प्रति भीमवचनवत्’ इति भाष्यम् । तथा हि महाभारते द्रोणपर्वणि शकटचक्रव्यूहप्रवेशकाले आदौ द्रोणेन भीमसेनं प्रत्युक्तम् ।

शिष्यत्वादर्जुनो मुक्तस्तत्स्नेहेनैव सात्यकिः ।

 कथं त्वां मोचयिष्येऽहं पश्याद्य मम पौरुषम् ।।’ इत्यादि ।

अनन्तरं द्रोणं प्रति भीमसेनेनोक्तम् –

द्रोणो भीमेन पितृवन्मानितोऽहर्निशं सदा ।

 अद्यारिं मन्यते द्रोणो भीमं तद्वत् करिष्यति ।।

 भीम उक्त्वैतावदेव निधाय शिर अग्रतः ।

 युक्तान् शरानगणयन् रथं जग्राह सत्वरः ।।’ इति ।

तथा च अरिवत्करणरूपभीमसेनोक्तार्थस्य निश्चितत्वेन द्रोणं प्रति ‘तद्वत्करिष्यति भीमः’ इति परोक्षवचनं निश्चितार्थत्वाभिप्रायेणान्यथासिद्धम्, न स्वभिन्नस्य भीमत्वादिज्ञापकम्, एवं स्वस्मिन्नीश्वरत्वस्य निश्चितत्वात् तदभिप्रायेण ‘ईश्वरः’ इत्यादिपरोक्षवचनम् अन्यथासिद्धं न कृष्णस्यानीश्वरत्वज्ञापकमित्यर्थ इति सम्प्रदायविदः ।।

भावप्रकाशः

।। इत्यादिरूपादिति ।। आदिपदात् ‘तत्प्रसादात्परां शान्तिम्’ इत्यस्य सङ्ग्रहः । भाष्ये द्रोणं प्रति भीमवचनवदिति ।। ‘यदि शत्रुं त्वमात्मानं मन्यसे तथाऽस्त्वित्याह । एष ते सदृशं कर्म शत्रो भीमः करिष्यति’ इति द्रोणपर्वणि द्रोणं प्रति भीमवाक्यवदित्यर्थः । निश्चितार्थत्वेति ।। ‘निश्चितार्थः स तु ज्ञेयो यत्रात्मैव परोक्षतः । उच्यते विष्णुना यद्वत्तद्ब्रह्म’ इत्यादि कथ्यत इत्युक्तेरिति भावः ।। ६२ ।।