न त्वेवाहं जातु नासं न त्वं नेमे जनाधिपाः । न चैव न भविष्यामः सर्वे वयमतः परम्।। १२ ।।
न त्वेवाहं जातु नासं न त्वं नेमे जनाधिपाः ।
न चैव न भविष्यामः सर्वे वयमतः परम्।। १२ ।।
भाष्यम्
किमिति? न त्वेवाहम् ।। ईश्वरनित्यत्वस्याप्रस्तुतत्वाद्दृष्टान्तत्वेनाह– नत्वेति ।।
भावप्रदीपिका
कथं दृष्टान्तता? इत्यतो वाक्यं योजयति यथेति । ननु मरिष्यमाणमुद्दिश्यापि नित्य ............. निवारणायोत्तरश्लोकमवतार्य व्याचष्टे– देहिन इति ।। १२ ।।
भावप्रकाशिका
मृतान् प्रति किमर्थं न शोचन्तीति देहात्मनोरविवेकेन प्रश्नः, विवेकेनोत्तरं न त्वेवाह-मिति ।। तर्हि भगवत्यपि देहात्मविभेदः स्यादित्यत आह– ईश्वरनित्यत्वस्येति ।। न हि दृष्टान्तदार्ष्टान्तिकयोः सर्वसाम्यमिति भावः । ननु स्वस्वबान्धवादिनाशतया(नाशकतया नाश्यतया वा भाव्यमिति भाति) ह्यर्जुनविषादः, अतो यदुनन्दनानित्यत्वशङ्कापरिहारौ कथमप्रस्तुतौ? इति ।। उच्यते । न ह्यर्जुनेनेतरदेहहानिवत् भगवद्देहहानिः शङ्क्यते । येन सा परिह्रियते । प्रत्युताप्राकृतानन्तचिद्घन एवायं भगवानित्यर्जुनबुद्धिः । अदृष्टाश्रुतभाववत्वात् । इह दृष्टश्रुतभाववत्वात् बहुशः । अतः सुतरामीश्वरानित्यत्वस्याप्रस्तुतत्वादिति ।।
प्रमेयदीपिका
किमिति ।। कस्मात् कारणात् । पण्डिता अपि ‘अगतासूनिव गतासूनासन्नविनाशान् नानुशोचन्ति’ इति शेषः । अत्र ‘नित्यत्वात्’ इत्युत्तरम् । ‘कुतो नित्यत्वम्? इत्यत आह’ इति वाक्यं चाध्याहार्यम् । ‘न त्वेवाहम्’ इत्यतः परम् ‘इति’शब्दश्च । अर्जुनं निमित्तीकृत्य प्राप्तलोकोपकारार्थं हि भगवतोपदेशः क्रियते । तत्र ये भगवतः कृष्णस्येश्वरत्वं नित्यत्वं च न जानन्ति तान् प्रति यथाश्रुतैव योजना । दृष्टान्तस्तूत्तरत्र भविष्यति । ये तु तज्ज्ञात्वा जीवनित्यतामेव न जानन्ति तान् प्रत्यन्यथा योज्यमित्याह– ईश्वरेति ।। अप्रस्तुतत्वाद् अनाशङ्कितत्वाद् दृष्टान्तत्वेनाह । ‘जीवनित्यतायां साध्यायामीश्वरम्’ इति शेषः । अत एव ‘कृष्ण’ इत्यनुक्त्वा ‘ईश्वर’ इत्युक्तम् ।।
भावदीपः
पूर्वमुत्तरार्धस्यार्थानुक्तेः ‘किमिति’ इति मूलानुवादेन तदर्थोक्तिपूर्वं ‘गतासून्’ इति भाष्यस्य शेषोक्त्याऽर्थमाह– किमितीत्यादिना ।। अत्रेति ।। ‘न त्वेवाहम्’ इत्यतः पूर्वं भाष्ये इत्यर्थः ।। यथाश्रुतैवेति ।। कृष्णस्यापि नित्यत्वोक्तिपरतयैवेत्यर्थः ।। नन्वस्मिन्पक्षे जीवनित्यत्वे दृष्टान्तो नोक्तः स्यादित्यत आह– दृष्टान्तस्तूत्तरत्रेति ।। ‘देहिनोऽस्मिन्’ इति श्लोकव्याख्यानावसरे ‘यथा कौमारादि’ इत्यादिभाष्ये कौमारयुवादिदेहभेदेऽपि तद्देहस्थ एकस्सिद्धः, एवमनेकदेह-प्राप्तावपि सर्वदेहगोऽनादिनित्यः सिद्ध इति वक्ष्यमाणत्वादिति भावः ।।
यद्वा ‘नासतः’ इति श्लोके ‘प्रकृत्यादेः’ इति नित्यतोक्तेरिति भावः ।। अत एवेति ।। अविवादद्योतनार्थत्वादेवेत्यर्थः ।।
भावरत्नकोशः
‘किमिति’ इति भाष्यमनूद्यार्थमाह– कस्मात् कारणादिति ।। शोचनीयत्वाप्रसक्त्या निषेधो न युक्त इति ।। अगतासुग्रहणं दृष्टान्तार्थमिति भावेनोक्तम्– इवेति ।। उपमार्थश्चकार इति भावः । तथा च पादपूरणे हेतौ तुल्यत्वविनियोगयोश्चशब्द इत्यमरशेषः । अत्र कुतो गतासून्नानुशोचन्तीति प्रश्न आक्षेपो वा । इतिशब्दश्चाध्याहार्यः । ननु ‘न त्वेवाहम्’ इति श्रीकृष्णेनार्जुनं प्रति स्वात्मन ईश्वरस्य नित्यत्वमुपदिश्यमानमनुपपन्नम् । अर्जुनस्येश्वरनित्यता-ज्ञानित्वात् । अप्राप्ते ह्युपदेशोऽर्थवान् । न चार्जुनः सज्जनमात्रं प्रत्युपदेशे निमित्तमात्रमिति तदितरसज्जनं प्रति तदुच्यत इति वाच्यम् । तस्यापीश्वरनित्यताज्ञानसम्भवेन तं प्रत्यप्येवं-विधोपदेशायोगात् । अन्यथा सत्त्वमेव न स्यादित्यत आह– अर्जुनं निमित्तीकृत्येति ।। निश्चिततत्त्वं लोकं व्यावर्तयितुं प्राप्तेत्युक्तम् । उपदेशाय प्राप्तः शङ्कावानित्यर्थः । लोकशब्दः सज्जनार्थः । कृष्णस्य नित्यत्वं न जानन्तीत्ययुक्तम् । नित्यत्वव्याप्येश्वरत्वज्ञानरूपविशेषदर्शने तज्ज्ञानावश्यम्भावादित्यत उक्तम्– ईश्वरत्वमिति ।। यथाश्रुतैवेति ।। कृष्णस्यापि नित्यत्व-बोधनपरतया प्रतीतैवेत्यर्थः । अस्यां योजनायां जीवनित्यत्वे दृष्टान्तो नोक्तः स्यादित्यत आह– दृष्टान्त इति ।। उत्तरत्र ‘नासतो विद्यते भावः’ इत्यत्र । प्रकृत्यादिरूपो दृष्टान्तो भविष्य-तीत्यर्थः । अत्रायं प्रयोगोऽभिमतः । अहं त्वदादयो जनाधिपाः नित्याः । भावत्वे सत्यनादित्वात् । यथा प्रकृत्यादिरिति ।। इत्याहेति ।। इति भावेनावतारयतीत्यर्थः । ईश्वरस्य किमिति दृष्टान्तत्वम्? पक्षत्वमेव किं न स्यादित्यतो भाष्ये ‘ईश्वरनित्यत्वस्याप्रस्तुतत्वात्’ इत्युक्तम् । तत्राप्रस्तुतत्वं नाम नाप्रकृतत्वम् । अप्रकृतत्वेऽपीश्वरपक्षीकारेण नित्यत्वसाधनो-पपत्तावप्रयोजकत्वादित्यतोऽप्रस्तुतत्वादित्यस्य विवक्षितमर्थमाह– अनाशङ्कितत्वादिति ।। अविप्रतिपन्नत्वादित्यर्थः । एवमपि तत्साधनेऽर्थान्तरं स्यादिति भावः ।
ननु कथं कृष्णस्य दृष्टान्तत्वम्? तस्य युद्धमण्डलस्थत्वेन विनाशशङ्कास्पदतावश्यम्भावेन निश्चितसाध्यकत्वाभावादित्यत ईश्वरग्रहणभावमाह– अत एवेति ।। अविप्रतिपन्नत्वद्योतन-प्रयोजनकत्वादेवेत्यर्थः । कृष्णत्वेन शङ्कास्पदत्वेऽपि नेश्वरत्वं जानतां शङ्केति तान् प्रति दृष्टान्तत्वं युक्तमिति भावः । एतेन ‘न त्वेवाहम्’, ‘न त्वेवेति’ इति प्रतीकं भाष्यकृत् किमिति द्विरग्रहीदिति शङ्का परास्ता । ईश्वरस्य नित्यत्वपरयोजनायां, तस्य दृष्टान्तत्वयोजनायां च द्विर्ग्राह्यत्वादिति ।।
भावदीपिका
अर्जुनस्य ज्ञानित्वेनेश्वरनित्यत्वनिश्चयसत्त्वात् तं प्रति तत्साधनमयुक्तमित्यत आह– अर्जुनमिति ।। योजनेति ।। गीतातात्पर्योक्तेत्यर्थः ।। अनेन तद्विरोधोऽपि परिहृतः । ननु जीववदीश्वरस्यापि पक्षकोटिनिक्षेपे दृष्टान्ताभावेनानुमानाप्रवृत्तिरित्यत आह– दृष्टान्तस्त्विति ।। ‘अविनाशि तु तद् विद्धि’ इति श्लोकोक्तं वेदाव्याकृताकाशादिकं दृष्टान्तो भविष्यतीत्यर्थः ।। अनाशङ्कितत्वात् निश्चितत्वादित्यर्थः ।। अत एवेति ।। ईश्वरनित्यत्वस्य सम्मतत्वादेवेत्यर्थः ।।
भावप्रकाशः
ननु न त्वेवाहं जातु नासमिति ईश्वरनित्यत्वोपदेशो नार्जुनं प्रति तस्येश्वरनित्यताज्ञानित्वाद् अप्राप्ते शास्त्रमर्थवदित्युक्तेः नापि तदन्यसज्जनं प्रति तस्यापीश्वरनित्यत्वज्ञानसम्भवेन सज्जनमात्रं प्रत्येवं विधोपदेशायोगादित्यत आह– अर्जुनं निमित्तीकृत्त्येति ।।
निश्चिततत्त्वलोकव्यावृत्त्यै प्राप्त इति । उपदेशार्थं प्राप्तः तद्योग्यः शङ्कावानिति यावत् । असज्जनव्यावृत्त्यै– लोकेति ।। सज्जनेत्यर्थः कृष्णस्य नित्यत्वं न जानन्तीत्ययुक्तं तद्व्याप्येश्वरत्व- विशेषदर्शने नित्यत्वाज्ञानायोगादित्यत उक्तम्– ईश्वरत्वमिति न जनन्तीति ।। युद्धगत्वेन कृष्णस्यापि विनाशशङ्काविषयत्वादिति भावः । दृष्टान्तस्तूत्तरत्रेति ।। प्रकृत्यादिरूपो दृष्टान्तो नासत इत्येतद्व्याख्यावसरे भविष्यतीत्यर्थः । ननु ईश्वरस्य कुतो दृष्टान्तत्वं पक्षत्वमेव किं न स्यादित्यत उक्तं भाष्ये ईश्वरानित्यत्वस्याप्रस्तुतत्वादिति । तत्राप्रस्तुत्वं नाप्रकृत्वम् । ईश्वरा-नित्यत्वस्याप्रकृतत्वेऽपि ईश्वरपक्षीकारेण नित्यत्वसाधनोपपत्त्याऽप्रयोजकत्वप्रसङ्गादित्यत आह– अनाशङ्कितत्वादिति ।। तथा च तन्नित्यत्वसाधनेऽर्थान्तरं स्यादिति भावः ।।